Enter your Email Address to subscribe to our newsletters

प्रधानमन्त्री मोदी नेपालस्य प्रधानमन्त्री च हरितध्वजं दर्शयित्वा रेलयानं प्रेषयिष्यतः, रामनगरी अयोध्यायां भव्यः शुभारम्भः भविष्यति।
रामस्य जानक्याः च जन्मस्थलीयोः प्रत्यक्षरेलसेवया सम्पर्कः भविष्यति, ६०४ किलोमीटरपरिमितः यात्रामार्गः सुगमः भविष्यति।
श्रद्धालवः अयोध्यातः जनकपुरपर्यन्तं १९ होरासु प्राप्स्यन्ति, नवम्बरमासस्य २८ दिनाङ्कात् नियमितयात्रा आरभ्यते।
भारत-नेपालयोः मैत्री अधिका सुदृढा भविष्यति, रामायणपरिपथाय रेल-सम्पर्कस्य उपहारः प्राप्तः।
अयोध्या, २२ नवम्बरमास: (हि.स.)। प्रभुश्रीरामस्य जन्मभूमिः अयोध्या तथा मातुः सीतायाः जन्मस्थली जनकपुरधामः च परस्परं प्रत्यक्षरेलसम्पर्केण सम्बद्धौ भवितुम् अग्रसरौ स्तः। भारत-नेपालयोः धार्मिक-सांस्कृतिक-सामाजिक-सम्बन्धान् अधिकं सुदृढं कुर्वती सरयू-कमला-एक्सप्रेसरेलयानस्य शुभारम्भः नवम्बरमासस्य २३ दिनाङ्के भविष्यति। अस्मिन् ऐतिहासिके अवसरे मुख्यमन्त्रिण: योगी आदित्यनाथस्य अयोध्याप्रवासः प्रस्तावितः अस्ति। अयोध्याधामरेलस्थानके आयोजिते कार्यक्रमे तस्य उपस्थितिः भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी तथा नेपालस्य प्रधानमन्त्री बालेंद्रशाहः दिल्लीतः आभासीयमाध्यमेन रेलयानस्य हरितध्वजं दर्शयित्वा प्रेषयिष्यतः। अयोध्यायां केन्द्रीयरेलमन्त्री अश्विनीवैष्णवः उत्तर-प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः च कार्यक्रमे सम्मिलितौ भवितुम् प्रस्तावितौ स्तः। अयोध्याधाम-रेलस्थानके आयोज-नस्य सज्जताः अन्तिमचरणे सन्ति। रेलविभागस्य अधिकारी व्यवस्थाः अन्तिमरूपं दातुं कार्यरताः सन्ति।
नवम्बरमासस्य २८ दिनाङ्कात् सामान्यश्रद्धालवः यात्रां कर्तुं शक्नुवन्ति
अयोध्यातः जनकपुरधामपर्यन्तं प्रत्यक्ष-रेलसेवायाः उद्घाटनं नवम्बरमासस्य २३ दिनाङ्के भविष्यति, किन्तु नवम्बरमासस्य २८ दिनाङ्कात् सामान्यश्रद्धालवः अस्यां रेलसेवायां यात्रां कर्तुं शक्नुवन्ति। अयोध्याकैण्टतः जनकपुरधामपर्यन्तं प्रायः ६०४ किलोमीटरपरिमिता दूरी प्रायः १९ होराभिः पूर्णा भविष्यति। यात्रिकाणां मार्गमध्ये रेलयानपरिवर्तनस्य आवश्यकता न भविष्यति। एषा रेलसेवा सप्ताहे एकवारं सञ्चालिता भविष्यति। अयोध्याकैण्टतः प्रत्येकं सोमवासरे जनकपुरधामतः च प्रत्येकं शनिवासरे रेलयानं प्रस्थास्यति।
सोमवासरे सायंकाले अयोध्यातः जनकपुराय प्रस्थानम्
१५५९६ सङ्ख्यकं रेलयानम् अयोध्याकैण्टतः प्रत्येकं सोमवासरे सायंकाले ५:५० वादने प्रस्थास्यति। अयोध्याधाम, मनकापुरम्, बस्ती, गोरखपुरम्, नरकटियागञ्जम्, रक्सौलम्, सीतामढी, शीशो, मधुबनी तथा जयनगरम् इत्येतानि स्थानानि मार्गेण गत्वा मङ्गलवासरे अपराह्णे १२:४० वादने नेपालीसमयानुसारं जनकपुरधामं प्राप्स्यति। मार्गे गोरखपुरे रात्रौ १०:१३ वादने, नरकटियागञ्जे मङ्गलवासरे रात्रौ १:५० वादने, सीतामढ्यां प्रातः ४:४२ वादने तथा जयनगरे प्रातः ८:३० वादने आगमनं भविष्यति।
प्रत्यागमने १५५९५ सङ्ख्यकं रेलयानं प्रत्येकं शनिवासरे अपराह्णे १:१० वादने नेपालीसमयानुसारं जनकपुरधामतः प्रस्थास्यति। जयनगरम्, मधुबनी, शीशो, सीतामढी, रक्सौलम्, नरकटियागञ्जम्, गोरखपुरम्, बस्ती, मनकापुरम् तथा अयोध्याधाम इत्येतानि स्थानानि मार्गेण गत्वा रविवासरे प्रातः ८:१० वादने अयोध्याकैण्टं प्राप्स्यति। अस्मिन् यात्राक्रमे गोरखपुरे रविवासरे प्रातः ३:५५ वादने रेलयानस्य आगमनं निर्धारितम् अस्ति।
१७ डिब्बायुक्तेन आधुनिकेन एलएचबी रेलयानसमूहकेन सञ्चालनम्
सरयू-कमला-एक्सप्रेसरेलयानस्य सञ्चालनं १७ डिब्बयुक्तेन आधुनिकेन एलएचबी रेलयानसमूहकेन भविष्यति। अस्मिन् अष्ट वातानुकूलितडिब्बाः, सप्त शयनश्रेणी-डिब्बाः, एकः एलएस-एलआरडी-डिब्बा तथा एकः एलडब्ल्यू-एलआरआरएम-डिब्बा च समाविष्टाः सन्ति। वातानुकूलित-द्वितीयश्रेण्याः द्वयोः डिब्बा इत्यनयोः प्रत्येकस्मिन् ५२ शय्याः, वातानुकूलित-तृतीयश्रेण्याः त्रिषु डिब्बेषु प्रत्येकस्मिन् ७२-७२ शय्याः, वातानुकूलित-तृतीयश्रेणी-आर्थिकश्रेण्याः त्रिषु डिब्बेषु प्रत्येकस्मिन् ८०-८० शय्याः च उपलब्धाः भविष्यन्ति। सप्त शयनश्रेणी-डिब्बेषु प्रत्येकस्मिन् ८० शय्याः तथा एलएसएलआरडी-डिब्बे ३८ आसनानि उपलब्धानि भविष्यन्ति। एलडब्ल्यूएलआरआरएम-डिब्बा विद्युतुत्पादनाय संयोजितः अस्ति।
दश मध्यवर्तीस्थानकेषु वाणिज्यिक-विरामः भविष्यति
अस्य रेलसेवायाः जयनगरम्, मधुबनी, शीशो, सीतामढी, रक्सौलम्, नरकटिया-गञ्जम्, गोरखपुरम्, बस्ती, मनकापुरम् तथा अयोध्याधाम इत्येतानि दश मध्यवर्तीस्थानकानि वाणिज्यिक-विरामस्थानानि भविष्यन्ति। एतेन एतेषां क्षेत्राणां यात्रिकेभ्यः अपि प्रत्यक्षरेलसुविधा प्राप्ता भविष्यति।
रामायणकालीनसम्बन्धाः अधिकं सुदृढाः भविष्यन्ति
अयोध्या तथा जनकपुरधामः रामायण-कालीनधार्मिक-सांस्कृतिकपरम्पराभिः सम्बद्धौ महत्त्वपूर्णौ केन्द्रौ स्तः। अयोध्या प्रभुश्रीरामस्य जन्मभूमिः अस्ति, जनकपुरं च मातुः सीतायाः जन्मस्थलीरूपेण प्रसिद्धम् अस्ति। उभयोः नगरयोः प्रत्यक्षरेलसम्पर्कस्य स्थापनया श्रद्धालूनां पर्यटकानां च आवागमनं सुगमं भविष्यति। रामायणपरिपथस्य धार्मिकपर्यटनस्य च विकासः अपि भविष्यति। उत्तरप्रदेश-बिहार-नेपालयोः उत्तमरेलसम्पर्केन सीमावर्तीक्षेत्रेषु व्यापारः, पर्यटनम्, स्थानीयार्थिकगतिविधयः, रोजगारावसराः च प्रोत्साहनं प्राप्स्यन्ति इति अपेक्षा अस्ति। एषा रेलसेवा भारत-नेपालमैत्र्याः, सांस्कृतिकैकतायाः परस्परविश्वासस्य च महत्त्वपूर्णा श्रृंखला भविष्यति।
मुख्यमन्त्रिणः योगिनः प्रवासात् पूर्वं जनपदाधिकारी सज्जताः निरीक्षितवान्
मुख्यमन्त्रिणः योगी आदित्यनाथस्य प्रस्तावितप्रवासस्य रेलसेवायाः शुभारम्भ-कार्यक्रमस्य च दृष्ट्या जनपदाधिकारी शशाङ्कत्रिपाठी अयोध्याधामरेल-स्थानकस्य निरीक्षणं कृत्वा व्यवस्थाः परीक्षितवान्। सः अवदत् यत् मुख्यमन्त्री कार्यक्रमे सम्मिलितः भवितुं शक्नोति, अयोध्यायाः विकासकार्याणां समीक्षामपि कर्तुं शक्नोति। रेलसेवायाः आरम्भेण उभयदेशयोः यात्रिकेभ्यः सुविधा भविष्यति, धार्मिकपर्यटनस्य च नवीनगतिः प्राप्ता भविष्यति।
Hindusthan Samachar / Divya Ranjan