स्वस्थः युवा, व्यसनमुक्तः युवा एव विकसितभारतस्य निर्माणं करिष्यति - माण्डविया
गान्धीनगरम्, २२ नवम्बरमास: (हि.स.)। विकसितभारतस्य २०४७ लक्ष्यं प्राप्तुं यूनां स्वस्थं, सुदृढं व्यसनमुक्तं च भवितुम् आवश्यकम् अस्ति। केन्द्रीययुवकार्यक्रम-खेलमन्त्री डॉ. मनसुखमाण्डविया नागरिकान्, विशेषतः युन:, सायकल-चालनं स्वाभिरुचिं कर्तुं तथा दैन
संडेज ऑन साइकिल रैली


गान्धीनगरम्, २२ नवम्बरमास: (हि.स.)। विकसितभारतस्य २०४७ लक्ष्यं प्राप्तुं यूनां स्वस्थं, सुदृढं व्यसनमुक्तं च भवितुम् आवश्यकम् अस्ति। केन्द्रीययुवकार्यक्रम-खेलमन्त्री डॉ. मनसुखमाण्डविया नागरिकान्, विशेषतः युन:, सायकल-चालनं स्वाभिरुचिं कर्तुं तथा दैनिकजीवनस्य अभिन्नाङ्गं निर्मातुं च आह्वानं कृतवान्।

केन्द्रीयमन्त्री डॉ. माण्डविया एतानि वचनानि रविवासरे फिट् इण्डिया-सण्डेज् ऑन सायकल इत्यस्य नवत्यधिक-नवतमस्य संस्करणस्य अवसरे उक्तवान्। सः गुजरातस्य उपमुख्यमन्त्री हर्षसंघवी इत्यनेन सह गान्धीनगरे आयोजिते कार्यक्रमे भागं गृहीतवान्। संविधान-दिवसस्य विषयाधारितं नवत्यधिकनवतमं संस्करणं रविवासरे देशस्य २६,००० स्थानेषु आयोजितम्।

डॉ. माण्डविया अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे सर्वकारः विकसित-भारतस्य निर्माणदिशि कार्यं करोति। सण्डेज् ऑन सायकल् इत्यस्य नवत्यधिकनवतमस्य संस्करणे देशस्य २६,००० स्थानेषु जनानां सहभागिता अस्य अवसरस्य विशेषतां वर्धयति, विशेषतः यदा नवम्बरमासस्य २६ दिनाङ्के संविधानदिवसः आयोजयितुं वयं सज्जाः स्मः। सः अवदत् यत् स्वास्थ्यसुदृढतायाः अभ्यासः केवलं कतिपयहोराभ्यः अथवा विशेषदिनपर्यन्तं सीमितः न भवेत्, अपितु दैनिकजीवनस्य अङ्गः भवेत्।

केन्द्रीयखेलमन्त्री अवदत् यत् सायकलचालनं केवलं शारीरिक-क्रियाकलापः नास्ति, अपितु स्वास्थ्य-सुदृढतां प्रोत्साहयितुं स्वस्थजीवन-शैलीविषये जागरूकतां प्रसारयितुं च माध्यमम् अपि अस्ति। युवानः केवलं स्वव्यावसायिकजीवनस्य विषये एव न, अपितु स्वास्थ्यसुदृढतायाः राष्ट्रस्य प्रति स्वदायित्वस्य च विषये अपि जागरूकाः भवेयुः।

डॉ. माण्डविया सायकलचालनं लोकप्रिय-जीवनशैलीविकल्पं निर्मातुम् आह्वानं कुर्वन् अवदत् यत् सायकलचालने अधिकजनसहभागितया स्वास्थ्यसुदृढता प्रोत्साहिता भविष्यति तथा स्वस्थसमाजस्य निर्माणं भविष्यति। सः अवदत् यत् यदा लघवः व्यक्तिगतप्रयासाः एकत्र मिलन्ति, तदा ते महत् परिवर्तनं जनयितुं शक्नुवन्ति तथा विकसितभारतस्य परिकल्पनायां योगदानं दातुं शक्नुवन्ति।

सः अवदत् यत् फिट् इण्डिया इत्यस्याः सरलः मन्त्रः अस्ति—प्रत्येकं नागरिकः स्वास्थ्यविषये जागरूकः भवेत्। यदा अस्माकं नागरिकाः स्वस्थाः सुदृढाः च भविष्यन्ति, तदा समाजः स्वस्थः भविष्यति। समृद्धराष्ट्रस्य निर्माणाय स्वस्थसमाजः आवश्यकः अस्ति। आगच्छन्तु, वयं सर्वे मिलित्वा स्वास्थ्यसुदृढतायाः प्राथमिकतां दत्त्वा विकसितभारतस्य यात्रायां योगदानं कुर्मः।

देशव्यापिनीं वर्धमानजनसहभागितां प्रोत्साहयन् डॉ. माण्डविया घोषणां कृतवान् यत् नवम्बरमासस्य २९ दिनाङ्के सण्डेज ऑन सायकल् इत्यस्य शततमं संस्करणं देशे ओलम्पिकान्दोलनस्य उत्सवं करिष्यति।

गुजरातस्य उपमुख्यमन्त्री हर्षसंघवी देशव्यापिन्याः सण्डेज् ऑन सायकल् कार्यक्रमे वर्धमानजनसहभागितायाः प्रशंसां कृतवान्। सः अवदत् यत् एष: प्रयत्न: नागरिकान् स्वस्थजीवनशैलीं स्वीकर्तुं स्वास्थ्यसुदृढतां च नियमिताभ्यासं निर्मातुं प्रेरयति।

फिट् इण्डिया इत्यस्याः ब्राण्ड् एम्बेसडरौ राकेशसैनी तथा भीष्ममाधानी, फिट् इण्डियाचैम्पियन्स भानुः तथा उर्वी च अस्मिन् अवसरे उपस्थितौ आस्ताम्। कार्यक्रमस्य आयोजनं भारतीयखेल-प्राधिकरणस्य गान्धीनगरस्थितेन क्षेत्रीयकेन्द्रेण कृतम्।

Hindusthan Samachar / Divya Ranjan