Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २२ नवम्बरमास: (हि.स.)। चलचित्रं भौगोलिक-सांस्कृतिकसीमाः अतिक्रम्य मानवीयभावनानां सार्व-भौमिकभाषया जनान् परस्परं संयोजयति। इति अभिनेत्री कार्ला सोफिया गैस्कोन गोवायां आयोजितस्य ५७तमस्य भारतीय-अन्ताराष्ट्रिय-चलचित्र-महोत्सवस्य अवसरे उक्तवती। अभिनयक्षेत्रे रुचिं धारयन्तः युवजनाः आत्मविश्वासं धारयन्तु, स्वकीयां विशिष्टतां संरक्षन्तु तथा कार्ये समर्पिताः भवन्तु इति सा परामर्शं दत्तवती।
केन्द्रीयसूचनाप्रसारणमन्त्रालयस्य अनुसारं, गैस्कोन रविवासरे इफ्फीमध्ये ‘स्टेजेज् अक्रॉस बॉर्डर्स’ इति विषयाधा-रितायां विशेषमास्टरक्लास्-कार्यक्रमे अभिनयकलायाः विषये स्वानुभवान् सहभागं कृतवती। सा उक्तवती यत् कस्यापि भूमिकायाः प्रामाणिकतां स्थापयितुं कलाकारस्य स्वकार्ये वास्तविकः अनुरागः आवश्यकः।
गैस्कोन उक्तवती यत् सा प्रत्येकं पात्रं पूर्णतया आत्मसात् करोति तथा च तस्य पात्रस्य चलचित्रपटे वास्तविकरूपेण प्रस्तुत्यै भावनात्मकं सम्बन्धं स्थापयति। सा पारम्परिकपात्रेभ्यः भिन्नानि समस्या-पूर्णानि च पात्राणि अभिनेतुं रुचिं धारयति। स्वानुभवेभ्यः सर्वथा भिन्नानि पात्राणि अभिनेतुं सृजनात्मकतायाः, कलात्मक-विकासस्य तथा आत्मपरिचयस्य नूतनानां अवसरानां प्राप्तिः भवति।
सा अभिनयम् आह्वानानां नूतनान्वेषणानां च निरन्तरयात्रा इति वर्णितवती। प्रत्येकं पात्रं कलाकारात् नूतनदृष्टिकोणं भिन्नप्रकारेण च सज्जतां अपेक्षते। चलचित्रनिर्माणं सामूहिकप्रयासः इति प्रतिपादयन्ती सा उक्तवती यत् चलचित्रस्य निर्माणं सम्पूर्णस्य सृजनात्मकदलस्य सामूहिकचिन्तनस्य परिश्रमस्य च फलम् अस्ति।
Hindusthan Samachar / Divya Ranjan