कारागारात् मुक्तानां जनानां जीवनं पुनः आरब्धुम् अवसरः देयः - रूसीचलचित्रनिर्माता
नवदिल्ली, २२ नवम्बरमास: (हि.स.)। कारागारे दीर्घकालम् अतीत्य समाजे प्रत्यागच्छन्तः जनाः स्वजीवनं पुनः आरभितुं अनेकान् कठिनान् अनुभवन् सम्मुखीकुर्वन्ति। दण्डावधिं पूर्णं कृत्वा अपि ते अपराधबोधात् अतीतस्य भारात् च मुक्ताः भवितुं न शक्नुवन्ति। एतादृशेभ
गोवा में रविवार को 57वें भारतीय अंतरराष्ट्रीय फिल्म महोत्सव में अपनी फिल्म 'न्यू होम' पर आयोजित प्रेस वार्ता में रूसी निर्देशक निकिता ग्रुशिन और सिनेमैटोग्राफर एकातेरिना स्मोलिना।


नवदिल्ली, २२ नवम्बरमास: (हि.स.)। कारागारे दीर्घकालम् अतीत्य समाजे प्रत्यागच्छन्तः जनाः स्वजीवनं पुनः आरभितुं अनेकान् कठिनान् अनुभवन् सम्मुखीकुर्वन्ति। दण्डावधिं पूर्णं कृत्वा अपि ते अपराधबोधात् अतीतस्य भारात् च मुक्ताः भवितुं न शक्नुवन्ति। एतादृशेभ्यः जनेभ्यः जीवनस्य द्वितीयः अवसरः दातव्यः। रूसीचलचित्रनिर्माता निर्देशकः निकिता ग्रुशिनः रविवासरे ५७ तमे भारतीय-अन्तरराष्ट्रीय-चलचित्रमहोत्सवे स्वस्य ‘न्यू होम’ इति चलचित्रस्य विषये संवादं कुर्वन् एतत् अवदत्।

केन्द्रीयसूचनाप्रसारणमन्त्रालयस्य अनुसारं रूसदेशः अस्मिन् वर्षे चलचित्र-महोत्सवे साझेदारदेशरूपेण सम्मिलितः अस्ति। अस्य अन्तर्गतं रूसीभाषायां निर्मितस्य १०१ निमेषात्मकस्य कथा-चित्रस्य ‘न्यू होम’ इत्यस्य विश्वप्रथम-प्रदर्शनम् आईएफ-एफआई-महोत्सवे क्रियते। ग्रुशिनः अवदत् यत् कारागारे दीर्घकालं व्यतीत्य पुनर्वासप्रक्रियायां प्रवर्तमानैः जनैः सह संवादस्य समये तेषां कठिनताः ज्ञाताः। समाजे पुनः स्थानं प्राप्तुं सामान्यजीवनं च आरभितुं तेषां संघर्षस्य पर्याप्तं ध्यानं न दीयते इति सः अनुभूतवान्। एतदेव अनुभवः तं अस्य विषयस्य चलचित्रनिर्माणाय प्रेरितवान्। एतत् तस्य प्रथमं कथाचित्रम् अस्ति, यत् अन्ताराष्ट्रियस्तरे प्रस्तुतं क्रियते।

चलचित्रस्य कथा अन्ना नाम्न्याः महिलायाः परितः प्रवर्तते, या सप्तवर्षाणि कारागारे अतीत्य मुक्तिः प्राप्ता। तस्याः समीपे धनं नास्ति, परिवारः नास्ति, भविष्यस्य स्पष्टा दिशा अपि नास्ति। सामाजिकसेवानां साहाय्येन सा कार्यं निवासस्थानं च प्राप्नोति। अस्मिन् एव काले सा रोमन इत्यनेन मिलति तथा सहायता-समूहस्य सदस्यत्वं प्राप्नोति। स्वजीवनं पुनः व्यवस्थितं कर्तुं प्रयत्नं कुर्वती सा अतीतस्य, अपराधबोधस्य तथा आन्तरिकसंघर्षाणां च सामना करोति। अन्ततः तया कठिनः निर्णयः करणीयः भवति, यः तस्याः भविष्यं निर्धारयितुं शक्नोति।

ग्रुशिनः अवदत् यत् चलचित्रस्य मुख्यपात्रम् अन्ना कस्यचित् एकस्य वास्तविकव्यक्तेः आधारेण निर्मिता नास्ति। कारागारात् मुक्तेः अनन्तरं सामान्यजीवने प्रत्यागन्तुं प्रयत्नशीलानां अनेकजनानां अनुभवान् तथा तैः सह कृतान् संवादान् आधारं कृत्वा सः एतत् पात्रं विकसितवान्। चलचित्रे अपराधबोधः, क्षमा, पुनर्वासः तथा जीवनं पुनः आरब्धुं सम्भावनाः चित्रिताः सन्ति।

चलचित्रस्य छायाचित्रकारिणी एकातेरिना स्मोलिना निर्देशकेन सह स्वस्य रचनात्मकसम्बन्धस्य विषये अवदत्। सा उक्तवती यत् उभौ चलचित्रशिक्षणसंस्थायाः समयात् परस्परं परिचितौ स्तः तथा पूर्वम् अपि त्रिषु लघुचलचित्रेषु सह कार्यं कृतवन्तौ। दीर्घकालीनमैत्र्या तथा परस्परस्य कार्यशैलीं ज्ञातुं शक्नुवतः कारणेन चलचित्रनिर्माणकाले सहजता अवशिष्टा।

भारत-रूसयोः मध्ये चलचित्रनिर्माणक्षेत्रे सहयोगस्य सम्भावनानां विषये ग्रुशिनः अवदत् यत् उभयोः देशयोः चलचित्रसम्बन्धः दीर्घकालीनः अस्ति। सोवियतसङ्घस्य समये भारतीयचल-चित्राणि रूसदेशे अत्यन्तं लोकप्रियाणि आसन् तथा अद्यापि तत्रत्येषु दर्शकेषु भारतीयचलचित्राणां कृते विशेषं स्थानम् अस्ति। सः अवदत् यत् भारत-रूसयोः मध्ये भविष्ये चलचित्रनिर्माणक्षेत्रे सहयोगस्य पर्याप्ताः सम्भावनाः सन्ति। एषा सहभागिता केवलं निवेशं तथा प्रौद्योगिकीपरिवर्तनं यावत् सीमिता न भवेत्, अपितु उभयोः देशयोः जनानां परस्परसम्बन्धान् तथा सांस्कृतिक-सम्बद्धतां दर्शयन्तीः कथाः अपि प्रोत्साहयेत्।

Hindusthan Samachar / Divya Ranjan