Enter your Email Address to subscribe to our newsletters



डॉ. मयंकचतुर्वेदी
नवदिल्ली, २२ नवम्बरमास: (हि.स.)। भारत-नेपालयोः सम्बन्धः कूटनैतिक-सन्धिभ्यः राजनैतिकसमीकरणेभ्यः च बहुदूरं गभीरः अस्ति। अयोध्यायाः श्रीरामः जनकपुरस्य सीता च, काश्याः विश्वनाथः काठमाण्डुनगरस्य पशुपतिनाथः च, बुद्धस्य जन्मस्थली लुम्बिनी तथा भारतस्य बौद्धपरम्परा च उभौ देशौ एतादृशया साझासांस्कृतिकचेतनया संयोजयतः, यस्याः मूलानि शताब्देभ्यः प्राचीनानि सन्ति। मुक्तसीमा, रोटी-बेटीसम्बन्धाः, गोरखासैनिकानां साझासैन्यपरम्परा तथा परस्परनिर्भरार्थव्यवस्थाः एताम् आत्मीयतां निरन्तरं सुदृढां कुर्वन्ति।
वस्तुतः, एतादृशे परिस्थितौ नेपालस्य प्रधानमन्त्री बालेन्द्रशाहः ‘बालेन’ इत्यस्य नवम्बरमासस्य २२ दिनाङ्कात् आरभ्यमाणा द्विदिवसीया भारतयात्रा राजकीयौपचारिकतायाः बहुदूरं महत्त्वं धारयति। परिवर्तमानस्य क्षेत्रीयवैश्विक-परिदृश्यस्य मध्ये उभयोः पड़ोसीदेशयोः सम्बन्धान् नवीनदिशां नेतुं एषः सुखदः अवसरः अस्ति।
नेपालस्य राजनीतिक्षेत्रे बालेनशाहस्य उदयः महत्त्वपूर्णपरिवर्तनस्य प्रतीकः अस्ति। अभियन्तृरूपेण कार्यं कृतवान्, रैपर्-रूपेण प्रसिद्धः तथा काठमाण्डुनगरस्य महापौररूपेण स्वकीयं विशिष्टं परिचयं निर्मितवान् बालेनः पारम्परिकराजनीति-व्यवस्थायाः भिन्नां नवीनवस्क्ष आकाङ्क्षां स्वरं दत्तवान्। प्रधानमन्त्रीपदं प्राप्तानन्तरं स्वस्य प्रथमद्विपक्षीयविदेशयात्रायाः कृते भारतस्य चयनम् एव महत्त्वपूर्णं सन्देशं ददाति।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः निमन्त्रणेन आयोज्यमानायां अस्यां यात्रायां ३४ सदस्यीयः प्रतिनिधिमण्डलः सम्मिलितः अस्ति। सोमवासरे उभयोः देशयोः प्रधानमन्त्रिणोः मध्ये प्रतिनिधिमण्डल-स्तरीया वार्ता तथा विविधसम्झौतानां आदानप्रदानस्य सम्भावना अस्ति। ऊर्जापरियोजनानां उद्घाटनं तथा विकाससहयोगसम्बद्धाः विषयाः अपि वार्तायाः केन्द्रे भविष्यन्ति। भारतस्य कृते एषः नेपालस्य नवीननेतृत्वेन व्यक्तिगतं संस्थागतं च विश्वासं विकसितुं अवसरः अस्ति। बालेनसर्वकारस्य कृते च भारतसम्बन्धान् व्यावहारिकैः आर्थिकोपलब्धिभिः संयोजयितुं एष: प्रत्यक्षप्रयत्न: अस्ति।
भारत-नेपालयोः सम्बन्धानां सर्वाधिक-सुदृढः आधारः सहभागधार्मिक-सांस्कृतिकपरम्परा अस्ति। नेपालस्य जनकपुरं मातुः सीतायाः जन्मस्थली तथा अयोध्या भगवत: श्रीरामस्य जन्मभूमिः इति उभयोः देशयोः श्रद्धालवः समानश्रद्धया पश्यन्ति। रामायणवर्णितः विवाहप्रसङ्गः एतयोः नगरयोः मध्ये एतादृशं सांस्कृतिकसम्बन्धं स्थापितवान्, यः वंशेभ्यः लोकगीतैः, विवाहपरम्पराभिः तथा धार्मिकानुष्ठानैः जीवितः अस्ति।
एवमेव नेपालस्य पशुपतिनाथमन्दिरं तथा भारतस्य काशीविश्वनाथमन्दिरं शैव-परम्परायाः द्वे महत्त्वपूर्णे केन्द्रे स्तः। नेपालस्य मुक्तिनाथतः भारतस्य बद्रीनाथः, केदारनाथः तथा अन्यतीर्थस्थलानि यावत् श्रद्धालूनाम् आवागमनं धार्मिकनिकटतां विस्तृतां करोति। बौद्धपरम्परायां लुम्बिनी, बोधगया, सारनाथः तथा कुशीनगरम् एकस्याः सहभागाध्यात्मिकयात्रायाः प्रमुखाः पर्याया: सन्ति।
एतान् धार्मिकसम्बन्धान् आर्थिकावसरैः संयोजयितुम् अपि व्यापकाः सम्भावनाः सन्ति। जनकपुर-अयोध्यारेलसम्पर्कः अस्यां दिशि महत्त्वपूर्णः उपक्रमः भवितुम् अर्हति। प्रायः ६०४ किलोमीटरदीर्घा प्रस्ताविता साप्ताहिकरेलसेवा उभयोः देशयोः प्रमुखधार्मिकक्षेत्राणि संयोजयितुं बिहारस्य उत्तरप्रदेशस्य च सीमावर्ति-नगराणां लाभाय अपि समर्था भविष्यति। एतेन श्रद्धालूनाम् आवागमनस्य सह होटलव्यवसायः, परिवहनम्, भोजनव्यवसायः, स्थानीय-हस्तशिल्पं तथा पर्यटनव्यवसायः अपि प्रोत्साहनं प्राप्स्यन्ति।
नेपालस्य जनकपुरस्थिते जानकीमन्दिरे प्रतिदिनं बहुसंख्यकानां श्रद्धालूनाम् आगमनं धार्मिकपर्यटनस्य एताः सम्भावनाः प्रदर्शयति। यदि अयोध्याम् आगच्छतां भारतीयश्रद्धालूनां अल्पांशः अपि जनकपुरं, पशुपतिनाथं तथा मुक्तिनाथं प्रति गन्तुं प्रवृत्तः भवति, तर्हि नेपालस्य पर्यटनक्षेत्रं उल्लेखनीयम् आर्थिकलाभं प्राप्नुयात्। धार्मिकपर्यटनम् उभयोः देशयोः मध्ये सांस्कृतिककूटनीतेः प्रभावीमाध्यमम् अपि भवितुम् अर्हति।
भारत-नेपालयोः मध्ये प्रायः १,७५१ किलोमीटरदीर्घा मुक्तसीमा विश्वस्य विशिष्टेषु अन्ताराष्ट्रियसम्बन्धेषु अन्त-र्भवति। १९५० तमवर्षस्य भारत-नेपालशान्ति-मैत्रीसन्धिः उभयोः देशयोः नागरिकेभ्यः आवागमनं, निवासः, व्यापारः तथा आर्थिकक्रियाकलापेषु विशेषसुविधाः प्रदत्तवान्। नेपाली नागरिकाः भारतदेशे रोजगारस्य शिक्षायाः च अवसरान् प्राप्नुवन्ति, भारतीयनागरिकाः च नेपालदेशे व्यापारस्य विविधार्थिकक्रिया-कलापानां च भागं भवन्ति।
एतस्य सम्बन्धस्य वास्तविकं सामर्थ्यं सीमावर्तिग्रामेषु दृश्यते। बिहारः, उत्तरप्रदेशः, उत्तराखण्डः, पश्चिमबङ्गः तथा सिक्किमस्य अनेकपरिवाराणां सामाजिक-पारिवारिकसम्बन्धाः नेपालस्य विविधक्षेत्रैः सह सम्बद्धाः सन्ति। विवाहसम्बन्धाः, पारिवारिकसमारोहाः, धार्मिकोत्सवाः तथा सांस्कृतिकपरम्पराः उभयोः देशयोः सीमाः सामाजिकजीवने बहुधा अप्रासङ्गिकाः कृताः।
दिल्ली, मुम्बई, देहरादून, लखनऊ तथा पूर्वोत्तरस्य अनेकनगरेषु नेपाली नागरिकाः रोजगारं कुर्वन्ति। तेषां परिश्रमः भारतीयसेवाक्षेत्रस्य निर्माणक्षेत्रस्य च महत्त्वपूर्णः भागः अस्ति। अपरतः भारतदेशे कार्यं कुर्वतां नेपाली नागरिकानां आयः नेपालस्य परिवाराणाम् आर्थिकस्थितिं सुदृढां करोति। एवं उभयोः देशयोः मध्ये मानवीयसम्पर्कः कस्यापि सर्वकारी-सन्धिनाम् अपेक्षया व्यापकं सामाजिकाधारं निर्माति।
भारत-नेपालयोः सम्बन्धेषु सैन्य-सहयोगस्य स्थानम् अपि अत्यन्तं विशिष्टम् अस्ति। भारतीयसेनायाः गोरखाप्रभागाः उभयोः देशयोः सहभागसहस:, अनुशासनस्य तथा विश्वासस्य प्रतीकाः सन्ति। १९४७ तमवर्षस्य भारत-नेपाल-ब्रिटेनत्रिपक्षीयसन्ध्यनन्तरं नेपालीमूलस्य युवभ्यः भारतीयसेनायां सेवायाः अवसराः उपलब्धाः अभवन्। भारतीयसेनायां गोरखासैनिकानां वीरतायाः इतिहासः अनेकयुद्धेषु सैन्याभियानेषु च अभिलिखितः अस्ति।
नेपालदेशे निवसतां भारतीयसेनायाः पूर्वसैनिकानां तथा तेषां परिवाराणां भारतदेशेन सह भावनात्मकसम्बन्धः अद्यापि कायमस्ति। पेन्शन, चिकित्सासुविधाः तथा पूर्वसैनिक-कल्याणसम्बद्धाः व्यवस्थाः एतं सम्बन्धं संस्थागताधारं प्रददति। नेपालदेशे भारतीयसेनायाः एकलक्षाधिकाः पूर्व-सैनिकाः निवसन्ति, इति एतस्य साझेदारीसम्बन्धस्य व्यापकता सूचयति। अपरतः अग्निपथयोजना कार्यान्विता अभवत् ततः गोरखानियुक्ति: स्थगिता, यः उभयोः देशयोः मध्ये संवेदनशीलः विषयः अभवत्। नेपालस्य चिन्ता चतुर्वर्षीय-सीमितसेवाकालस्य तथा नियमित-सैन्यसेवया सम्बद्धानां अनिश्चिततानां विषये अस्ति।
भारत-नेपालयोः ऐतिहासिकात्मीयतायाः बावजूदपि कतिपयाः विषयाः समये समये सम्बन्धेषु तनावं जनयन्ति। कालापानी, लिपुलेखः तथा लिम्पियाधुरायाः सीमाविवादः एतेषु प्रमुखः अस्ति। २०२० तमवर्षे नेपालः स्वस्य राजनीतिकमानचित्रे एतान् क्षेत्रान् समाविष्टवान्, यस्मिन् भारतः आपत्तिं प्रकटितवान्। भारतः एतान् क्षेत्रान् उत्तराखण्डस्य भागरूपेण मन्यते। एतेन विवादेन उभयोः देशयोः राजनैतिकसंवादः प्रभावितः अभवत्। नेपालदेशे समये समये उद्भवन्त्यः राष्ट्रवादीभावनाः तथा भारतस्य सुरक्षासम्बद्धाः चिन्ताः एतं विषयं संवेदनशीलं कुर्वन्ति। चीनदेशेन सह नेपालस्य वर्धमानसम्पर्कस्य सन्दर्भे भारतः अपि एतं सम्पूर्णं घटनाक्रमं रणनीतिकदृष्ट्या पश्यति। अधुना उभयोः देशयोः मध्ये सीमायाः अधिकांशभागः निर्धारितः अस्ति। अवशिष्टविवादितक्षेत्राणि अपि द्विपक्षीयतन्त्रेण समाधातुं राजनीतिकेच्छाशक्तिः प्रदर्शनीया। बालेनसर्वकारः अपि अस्य विषयस्य द्विपक्षीयसमाधानस्य पक्षे मतं प्रकटितवान्। एषः सकारात्मकः संकेतः अस्ति।
अत्र उल्लेखनीयम् अस्ति यत् भारत-नेपालयोः आर्थिकसम्बन्धानां गभीरता व्यापारस्य आँकडैः स्पष्टा भवति। नेपालस्य कृते भारतः सर्वाधिकः व्यापारिकसाझेदारः तथा प्रमुखः पारगमनमार्गः अस्ति। २०२५-२६ वित्तवर्षे उभयोः देशयोः मध्ये प्रायः ९.३८ अरबडॉलरमूल्यस्य व्यापारः अभवत् इति उल्लेखः एताम् आर्थिकनिकटतां रेखाङ्कयति। नेपालस्य निर्यातस्य बृहदंशः भारतीयबाजारं प्राप्नोति। खाद्यपदार्थानां, कृषिवस्तूनां, विद्युत्, औद्योगिकवस्तूनां तथा दैनिकोप-भोगवस्तूनां व्यापारः उभयोः देशयोः परस्परसम्बन्धं सुदृढं करोति।
नेपालस्य भौगोलिकस्थितिः समुद्री-व्यापारार्थं भारतस्य बन्दरगाहेषु तथा परिवहनमार्गेषु निर्भरं करोति। अतः मार्गः, रेलमार्गः तथा सीमाव्यापारसम्बद्धः आधारभूतसंरचनाविकासः नेपालस्य आर्थिकप्रगतेः कृते महत्त्वपूर्णः अस्ति। भारतस्य कृते अपि नेपालस्य बाजार, निवेशसम्भावनाः तथा हिमालयक्षेत्रे आर्थिकसहयोगः विशेषमहत्त्वं धारयन्ति।
अस्य साझेदारीसम्बन्धस्य सर्वाधिकं उदयमानं क्षेत्रम् ऊर्जा अस्ति। नेपालस्य नदीनां जलविद्युत् उत्पादनस्य अपारक्षमता अस्ति, यदा तु भारतस्य स्वच्छनवीकरणीयऊर्जायाः आवश्यकता निरन्तरं वर्धते। उभयोः देशयोः मध्ये विद्युत्व्यापारः एतस्य सम्भावनापूर्ण-सम्बन्धस्य व्यावहारिकरूपं दातुं प्रारब्धवान्। नेपालः भारतं प्रति विद्युत् निर्यातयति तथा आगामिवर्षेषु १०,००० मेगावाटपर्यन्तं विद्युत्प्रदायस्य लक्ष्यं उभयोः देशयोः ऊर्जासाझेदारीं नवीनस्तरं प्रति नेतुं शक्नोति। पञ्चेश्वरबहूद्देशीयपरियोजनया सह अन्यासु जलविद्युत्परियोजनासु प्रगतिः नेपालाय राजस्वम्, रोजगारः तथा औद्योगिकविकासस्य अवसरान् प्रदातुं शक्नोति। भारताय स्वच्छऊर्जायाः उपलब्धिः भविष्यति।
नेपालः प्राकृतिकआपदाभिः प्रभावितः देशः अस्ति। भूकम्पः, भूस्खलनं तथा बाढः इत्यादयः घटनाः तत्र आधारभूतसंरचनां अर्थव्यवस्थां च प्रभाविताः कुर्वन्ति। २०१५ तमवर्षस्य विनाशकारीभूकम्पानन्तरं भारतः नेपालस्य पुनर्निर्माणार्थं एक अरब डॉलरमूल्यस्य सहाय्यप्रतिबद्धतां प्रकटितवान्। एतेन सहयोगेन उभयोः देशयोः विकाससाझेदारी मानवीयम् आयामं प्राप्तवती। हालसमये भोटेकोशी-त्रिशूलीक्षेत्रे आगतया बाढया मार्गाः, सेतवः तथा जलविद्युत्परियोजनाः क्षतिग्रस्ताः, येन पुनर्निर्माणस्य आवश्यकता पुनः रेखाङ्किता। नेपालाय अस्मिन् दिशि वित्तीय-प्राविधिकसहाय्यस्य आवश्यकता अस्ति।
बालेनसर्वकारस्य प्राथमिकतासु पुनर्निर्माणं तथा आधारभूतसंरचनायाः विकासः अन्तर्भवतः। अतः भारतस्य ऋण-अनुदान-प्राविधिकसहयोगसम्बद्धाः सकारात्मकनिर्णयाः नेपालस्य आर्थिक-स्थिरतायै महत्त्वपूर्णाः भवितुम् अर्हन्ति। विमानसम्पर्कः अपि द्विपक्षीय-वार्तायाः महत्त्वपूर्णः विषयः अस्ति। नेपालः भैरहवा तथा पोखरा इत्येतयोः अन्ताराष्ट्रिय-विमानस्थानकयोः अधिकप्रभावी उपयोगं कर्तुम् इच्छति। एतदर्थम् अतिरिक्त-विमानप्रवेशमार्गाणां आवश्यकता अस्ति। भारतस्य सहमत्या नेपालस्य पर्यटन-विमाननक्षेत्रयोः लाभः भवितुम् अर्हति। भारतीयपर्यटकानाम् अपि नेपालं प्राप्तुं सुविधा भविष्यति। एवमेव मार्गाणां, रेलमार्गाणां, सीमायां एकीकृत-निरीक्षणकेन्द्राणां तथा व्यापारिकमार्गाणां विस्तारः उभयोः देशयोः आर्थिकसम्बन्धान् अधिकप्रभाविणः कर्तुं शक्नोति।
भारत-नेपालयोः सम्बन्धान् नवीनम् आर्थिकस्तरं प्रति नेतुं धार्मिकपर्यटनस्य महत्त्वपूर्णा भूमिका भवितुम् अर्हति। अयोध्या-जनकपुरयोः प्रस्तावितः रेलसम्पर्कः अस्य दिशि महत्त्वपूर्णम् उदाहरणम् अस्ति। रामायणपरिपथेन भारतस्य अयोध्या, चित्रकूटम्, नासिकम्, हम्पी तथा रामेश्वरम् इत्यादीनि स्थलानि नेपालस्य जनकपुरेण सह संयोजयितुं व्यापकाः सम्भावनाः सन्ति। एवमेव बौद्धपरिपथस्य अन्तर्गतं लुम्बिनी, बोधगया, सारनाथः तथा कुशीनगरम् एकस्य व्यापकस्य पर्यटनपरिपथस्य रूपेण विकसितुं शक्यन्ते। एतेन उभयोः देशयोः धार्मिकपर्यटनं अन्ताराष्ट्रियपरिचयं प्राप्स्यति। नेपालस्य होटलव्यवसायः, स्थानीयपरिवहनम्, हस्तशिल्पम्, भोजन-व्यवसायः तथा लघुव्यापारः अपि लाभं प्राप्स्यन्ति।
अस्य उपक्रमस्य सामाजिकमहत्त्वम् अपि न्यूनं नास्ति। धार्मिकयात्राः जनान् परस्परं संस्कृतिभिः, भाषाभिः, परम्पराभिः तथा जीवनशैलीभिः परिचितान् कुर्वन्ति। जनकपुरे विवाहपञ्चमीसमारोहः भवतु अथवा अयोध्यायां रामनवमीमहोत्सवः, उभयोः देशयोः श्रद्धालूनां सहभागिता साझासांस्कृतिकविरासतं जीवन्तं स्थापयति।
बालेनशाहस्य नेतृत्वं नेपालस्य युवपीढ्याः तासाम् अपेक्षाणां प्रतिनिधित्वं करोति, याः रोजगारम्, सुशासनम्, आर्थिकावसरान् तथा विकासं प्राथमिकतया पश्यन्ति। एतादृशेन नेतृत्वेन सह भारतस्य अपि स्वस्य पारम्परिककूटनीतिकदृष्टिकोणे व्यावहारिकतायाः दूरदर्शितायाः च समावेशः करणीयः। नेपालाय ऊर्जा, पर्यटनम्, कृषिप्रसंस्करणम्, सूचनाप्रौद्योगिकी, शिक्षा तथा स्वास्थ्य इत्यादिषु क्षेत्रेषु भारतीयनिवेशस्य आवश्यकता अस्ति। भारतस्य कृते च नेपालदेशेन सह सुदृढा आर्थिकसाझेदारी हिमालयक्षेत्रे स्थिरतां तथा क्षेत्रीयसम्पर्कं वर्धयितुं शक्नोति।
अस्यां यात्रायां त्रयः विषयाः विशेषमहत्त्वं धारयन्ति। प्रथमः, सीमाविवादस्य अन्येषां राजनीतिकमतभेदानां च विषये निरन्तरसंवादः। द्वितीयः, गोरखानियुक्ति:, पूर्वसैनिकानां हितानि तथा पारम्परिक-सैन्यसहयोगसम्बद्धानां प्रश्नानां समाधानम्। तृतीयः, ऊर्जा, पर्यटनम्, व्यापारः तथा पुनर्निर्माण-परियोजनानां दृढसमयबद्धपरिणामेषु परिवर्तनम्। अतः वस्तुतः भारत-नेपालयोः मैत्र्याः वास्तविकं सामर्थ्यं साझाविरासत् अस्ति, तस्याः भविष्यं च परस्परविश्वासे आर्थिक-सहभागितां च आश्रितम् अस्ति। बालेनशाहस्य दिल्लीप्रवासः एतं ऐतिहासिकसम्बन्धं नवीनवंशसय आकाङ्क्षानुसारं अग्रे नेतुम् अवसरः अस्ति।
सर्वकाराः परिवर्तन्ते, राजनीतिकनेतृत्वं परिवर्तते, कूटनीतिकप्राथमिकताः अपि कालक्रमेण परिवर्तन्ते, किन्तु पशुपतिनाथतः काशीपर्यन्तं विस्तृता श्रद्धा, जनकपुरतः अयोध्यापर्यन्तं सम्बद्धा राम-जानकीस्मृतिः तथा उभयोः देशयोः परिवाराणां मध्ये वंशेभ्यः प्रवर्तमानाः सम्बन्धाः स्थायिनः सन्ति। वस्तुतः एतान् सम्बन्धान् अग्रे वर्धयितुम् अद्य उभयोः देशयोः सहभागदायित्वम् अस्ति। आशास्महे यत् यदि बालेनशाहस्य एषा यात्रा ऐतिहासिकात्मीयतां आधुनिकविकासे, ऊर्जासहयोगे, व्यापारविस्तारे तथा राजनैतिकविश्वासे परिवर्तयितुं सफलतां प्राप्नोति, तर्हि भारत-नेपालसम्बन्धेषु नवीनाध्यायस्य आरम्भः निश्चितः भविष्यति। एतदेव पुरातनसम्बन्धेन सम्बद्धानां नवीनाशानां वास्तविक: अर्थः अपि अस्ति।
Hindusthan Samachar / Divya Ranjan