भारत-यूरोपीय-सङ्घयोः मध्ये १६ दिसम्बर्-दिनाङ्के व्यापार-सन्धौ भवितुं शक्नोति स्वीकृतिः
नवदेहली, २२ नवम्बरमासः (हि.स.)। भारतस्य सप्तविंशति-देशानां यूरोपीय-सङ्घस्य च मध्ये मुक्त-व्यापार-सन्धौ १६ दिसम्बर्-दिनाङ्के ब्रुसेल्स्-नगरे हस्ताक्षर-करणस्य सम्भावना वर्तते। उभाभ्यां पक्षाभ्याम् अस्मिन् वर्षे २७ जनवरी-दिनाङ्के अस्याः सहमतेः कृते वा
भारत-ईयू के लोगो का प्रतीकात्मक चित्र


नवदेहली, २२ नवम्बरमासः (हि.स.)। भारतस्य सप्तविंशति-देशानां यूरोपीय-सङ्घस्य च मध्ये मुक्त-व्यापार-सन्धौ १६ दिसम्बर्-दिनाङ्के ब्रुसेल्स्-नगरे हस्ताक्षर-करणस्य सम्भावना वर्तते। उभाभ्यां पक्षाभ्याम् अस्मिन् वर्षे २७ जनवरी-दिनाङ्के अस्याः सहमतेः कृते वार्तालापः पूर्णः कृतः आसीत्।

​आधिकारिक-सूत्रैः रविवासरे प्रदत्तायां सूचनायां निवेदितं यत् भारतस्य यूरोपीय-सङ्घस्य च मध्ये मुक्त-व्यापार-सन्धौ १६ दिसम्बर्-दिनाङ्के ब्रुसेल्स्-नगरे हस्ताक्षराणि भवितुं शक्नुवन्ति। एतानि हस्ताक्षराणि प्रधानमन्त्रिणः नरेन्द्रमोदिनः दिसम्बर्-मासे प्रस्तावितायाः ब्रुसेल्स्-यात्रायाः काले भवितुं शक्नुवन्ति।

​भारते यूरोपीय-सङ्घस्य राजदूतः जीन-एरिक पाके-महोदयः अधुनैव एकस्मिन् कार्यक्रमे उक्तवान् आसीत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः दिसम्बर्-मासे ब्रुसेल्स्-प्रवासस्य समये सन्धौ हस्ताक्षराणि करिष्यन्ते, अयं च आगामिनि २०२७ तमे वर्षे प्रवर्तिष्यते।

​प्राप्त-सूचनानुसारं यूरोपीय-आयोगेन सन्धौ हस्ताक्षर-करणाय एतस्मै च अन्तिम-रूप-प्रदानस्य स्वीकृतये यूरोपीय-सङ्घस्य परिषदं प्रति प्रस्तावाः प्रेषिताः सन्ति। एतेन सह सहमतेः अन्तिमं विधिक-प्रारूपं शुल्क-सम्बद्धं विवरणम् अपि समर्पितम् अस्ति।

​उल्लेखनीयम् अस्ति यत् अस्य व्यापार-सन्धेः अन्तर्गतं भारतस्य त्रिनवति-प्रतिशतं (९३%) निर्याताय सप्तविंशति-देशानां (२७) यूरोपीय-सङ्घे शुल्क-मुक्तः प्रवेशः लप्स्यते। तत्रैव, यूरोपीय-सङ्घात् (ईयू-तः) आयातितानि विलासि-यानानि मदिरा च अल्पमूल्ययुक्तानि भविष्यन्ति।

---------------

Hindusthan Samachar / Divya Ranjan