Enter your Email Address to subscribe to our newsletters

बाराबङ्की, २२ नवम्बरमास: (हि.स.)।श्रीरामजन्मभूमिमन्दिरान्दोलनं जनान्दोलनस्य स्वरूपं प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहणं कृतवत: श्रद्धेयस्य अशोकसिंघलस्य जन्मशताब्दिवर्षस्य तथा विश्वहिन्दुपरिषदः हितचिंतकाभियानस्य शुभारम्भः रविवासरे नगरस्य सहाय-लॉज इत्यत्र अभवत्। शिवयोगपीठमाश्रमस्य सन्तः स्वामी चेतनानन्दमहाराजः, विश्वहिन्दुपरिषदः पूर्वोत्तरप्रदेशक्षेत्रस्य धर्मप्रसारप्रमुखः राजेशः तथा प्रदेशसर्वकारस्य राज्यमन्त्री नितिन-अग्रवालः दीपप्रज्वलनं कृत्वा अभियानस्य शुभारम्भं कृतवन्तः। अस्मिन् अवसरे देशस्य, धर्मस्य संस्कृतेः च रक्षणार्थं हिन्दूसमाजं एकीकृत्य सङ्गठितं कर्तुं सङ्कल्पः कृतः।
कार्यक्रमे क्षेत्रधर्मप्रसारप्रमुखः राजेशः अवदत् यत् पूज्यसन्तानां मार्गदर्शने अशोकसिंघलः श्रीरामजन्मभूम्यान्दोलनं जनान्दोलनस्य स्वरूपं प्रदत्तवान्। एकविंशतिमासपर्यन्तं कारागारे स्थित्वापि तस्य लक्ष्यं संघर्षश्च निरन्तरं प्रचलितः। सः स्वसम्पूर्णं जीवनं हिन्दूसमाजस्य उत्थानाय भारतीयसंस्कृतेः संरक्षणाय च समर्पितवान्। बजरङ्गदलस्य, मातृशक्तेः, दुर्गावाहिन्याः, विशेषसम्पर्ककार्यस्य, सेवाकार्यस्य तथा गोसंरक्षणस्य इत्यादीनां महत्त्वपूर्णकार्याणां संस्थापने तस्य महती भूमिका आसीत्। श्रीरामजन्मभूम्या-न्दोलनम्, रामसेतुआन्दोलनम्, बाबा-अमरनाथयात्रा तथा हिन्दुसम्मेलनानां माध्यमेन समाजं जागरयितुं तस्य प्रयासाः सदैव स्मरणीयाः भविष्यन्ति।
स्वामी चेतनानन्दमहाराजः आशीर्वचनानि दत्त्वा अवदत् यत् अशोकसिंघलस्य सम्पूर्णं जीवनं हिन्दूसमाजस्य कृते संघर्षस्य समर्पणस्य च प्रतीकम् आसीत्। सः विश्वहिन्दुपरिषदः कार्यपद्धतिं गतिविधीं च नवीनां दिशां प्रदत्तवान्, येन हिन्दूसमाजस्य चेतनाजागरणं गतिम् अलभत।
राज्यमन्त्री नितिन-अग्रवालः अवदत् यत् अशोकसिंघलस्य जीवनम्, कार्याणि आन्दोलनानि च सदैव हिन्दूसमाजस्य चेतनायाः केन्द्रे स्थास्यन्ति। अयोध्यायां श्रीरामजन्मभूमौ भव्यराममन्दिरस्य निर्माणं हिन्दूसमाजस्य जागृतचेतनायाः परिणामः अस्ति। सः आह्वानं कृतवान् यत् हिन्दूसमाजः जागरूकः, एकीकृतः, सङ्गठितः च भवेत् तथा सामाजिक-समरसतायै निरन्तरं कार्यं कुर्यात्। एतदर्थं सर्वैः विश्वहिन्दुपरिषदः हितचिंतकाभियाने सहभागिता करणीयम्।
कार्यक्रमे उपस्थितैः जनैः सङ्कल्पः कृतः यत् हितचिंतकाभियानं प्रत्येकं व्यक्तिं, गृहं, क्षेत्रं च प्रति प्रापयिष्यते। अभियानस्य उद्देश्यं केवलं सदस्यतावृद्धिः न, अपितु हिन्दूसमाजस्य संयोजनम्, जागरणम्, सङ्गठनं च अस्ति।
कार्यक्रमस्य अध्यक्षता जनपदाध्यक्षः रामनाथमौर्यः कृतवान्, सञ्चालनं च जिलमन्त्री राहुलकुमारः कृतवान्।
अस्मिन् अवसरे विभागसङ्गठनमन्त्री अखिलः, बृजेशवैश्यः, नेहामिश्रा, सन्तोष-सिंहः, रामसिंहः, भुल्लनवर्मा, अमितगुप्तः, ब्रह्मप्रकाशः, तुलसीरामः, वीरेन्द्रः, कमलेशशुक्लः, ज्ञानेश्वरी, विजयबजरङ्गी, मनीषकनौजिया इत्यादयः विश्वहिन्दु-परिषदः, बजरङ्गदलस्य, दुर्गावाहिन्याः तथा हिन्दूसमाजस्य बहवः जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan