Enter your Email Address to subscribe to our newsletters

— मुख्यमन्त्री योगी आदित्यनाथः ‘रिजर्व-पुलिस-लाइन्स’ मध्ये आयोजिते ‘एयर रेड्-ब्लैक् आउट् मॉकड्रिल्-२६’ कार्यक्रमे सम्मिलितः अभवत्
— षष्टि-जनपदेषु गठितं जातं नागरिक-सुरक्षा-सङ्घटनम्, १.०८ लक्षाधिकेभ्यः नागरिकेभ्यः, विद्यार्थिभ्यः, सुरक्षाबलेभ्यश्च दत्तं प्रशिक्षणम्
— मुख्यमन्त्री योगी अवदत्
— सङ्कटे आगते कूपः न खन्यते, आपदायाः पूर्वमेव सज्जता आवश्यकी
लक्ष्मणपुरम्, २२ नवम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् आपदायाः, दुर्घटनायाः, राष्ट्रस्य पुरतः कस्यापि प्रकारस्य सङ्कटस्य आगमने नागरिकाः किङ्कर्तव्यविमूढाः न तिष्ठेयुः, अपि तु प्रशिक्षितानां जागरूकाणां च नागरिकाणां रूपेण स्व-उत्तरदायित्वं निर्वहेयुः। एतदर्थं प्रदेशे प्रशिक्षितानां स्वयंसेवकानां सुदृढं जालं सज्जीक्रियते। आपदा कदापि पूर्वं सूचयित्वा नायाति, न वा काञ्चित् तिथिं दृष्ट्वा आगच्छति। प्रत्येक-नागरिकस्य कृते सङ्कट-परिस्थितीनां निवारणाय सजगः, सतर्कः, प्रशिक्षितश्च स्थातुम् आवश्यकम् अस्ति। आपत्काले समीचीनः निर्णयः, समयोपरि सूचना, प्रशिक्षिता प्रतिक्रिया च अनेकेषां जनानां प्राणान् रक्षितुं शक्नुवन्ति। कस्यामपि सङ्कट-स्थितौ एकः जागरूकः नागरिकः प्रथम-प्रतिक्रियाकर्तुः भूमिकां निर्वोढुं शक्नोति। एतदर्थम् आवश्यकम् अस्ति यत् सः साहसी भवितुं सहैव अनुशासितः उचित-प्रशिक्षण-प्राप्तश्च भवेत्। नागरिक-सुरक्षायाः कार्यपद्धतेः पृष्ठतः समाजं राष्ट्रं च प्रति निष्काम-सेवायाः समर्पणस्य च भावना भवेत्। यदा कोऽपि जनः विना स्वार्थेन स्वस्य सामाजिकं राष्ट्रियं च उत्तरदायित्वं निर्वहति, तदैव सः प्राकृतिक-आपदायाः, मानवीय-सङ्कटस्य, कस्याश्चित् अन्यायाः विपत्तेः वा समये प्रभावशालिनीं भूमिकां निर्वोढुं शक्नोति। एतानि वचनानि मुख्यमन्त्रिणा योगिना आदित्यनाथेन रविवासरे लक्ष्मणपुरे ‘रिजर्व-पुलिस-लाइन्स’ मध्ये आयोजितस्य ‘एयर रेड्-ब्लैक् आउट् मॉक् एक्सरसाइज्-२६’ इत्यस्य काले उक्तानि।
मुख्यमन्त्री अवदत् यत् १९६२ तमे वर्षे भारत-चीन-युद्धानन्तरं देशे सामान्य-नागरिकान् आपातकालीन-परिस्थितीनां प्रति जागरूकान् कर्तुम् उद्दिश्य नागरिक-सुरक्षा-सङ्घटनस्य गठनं कृतम् आसीत्। तथापि उत्तरप्रदेशे १९६२ वर्षात् आरभ्य २०१७ वर्षं यावत् इदं सङ्घटनं केवलं कतिपयेषु विरलेषु जनपदेष्वेव सीमितम् आसीत्। गतवर्षे ‘ऑपरेशन सिन्दूर’ इत्यस्य काले भारतीय-सेनायाः पराक्रमं देशस्य सुरक्षया सम्बद्धाः परिस्थितीश्च दृष्ट्वा प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रेरणया प्रदेशस्य सर्वेषु पञ्चसप्तति-जनपदेषु (७५) नागरिक-सुरक्षा-सङ्घटनस्य विस्तारं कर्तुं निर्णयः गृहीतः। वर्तमाने प्रदेशस्य षष्टि-जनपदेषु (६०) नागरिक-सुरक्षा-सङ्घटनस्य गठनं सम्पन्नम् अस्ति। एतेषु जनपदेषु जिलाधिकारिणः सङ्घटनस्य नियन्त्रकरूपेण कार्यं कुर्वन्तः सन्ति। सहैव सर्वेषु षष्टि-जनपदेषु (६०) आपातकालीन-परिस्थितीनां निवारणाय मुख्य-संकेत-यन्त्राणि अपि प्रापितानि सन्ति। इयं व्यवस्था युद्धस्य, प्राकृतिक-आपदायाः, आन्तरिक-सङ्कटस्य च सदृशीषु परिस्थितिषु नागरिकान् समये सति सतर्कान् कर्तुं सहायिका भविष्यति।
एकलक्षाधिकाः स्वयंसेवकाः जाताः सुरक्षायाः अतिरिक्त-प्राचीरः
मुख्यमन्त्री योगी न्यवेदयत् यत् प्रदेशे अद्यावधि १,०१,३६२ स्वयंसेवकाः नागरिक-सुरक्षायाः अनेन अभियानेन सम्बद्धाः जाताः सन्ति। एते स्वयंसेवकाः कस्यामपि आपात-स्थितौ सुरक्षा-व्यवस्थायाः अतिरिक्त-सुदृढीकरणेन सह समाजस्य सामूहिक-शक्तिरूपेण कार्यं करिष्यन्ति। आपदानन्तरं साहाय्य-रक्षण-कार्याणि महत्त्वपूर्णानि सन्ति, किन्तु तस्मादपि अधिकम् आवश्यकम् अस्ति यत् आपदायाः आगमनात् पूर्वमेव सज्जता क्रियेत। अस्माकं सज्जता एतादृशी भवेत् यत् प्रदेशस्य कोऽपि जनपदः, ग्रामः, नगर-निकायो वा आपदा-प्रबन्धनस्य व्यवस्थायाः वञ्चितः न तिष्ठेत्। मुख्यमन्त्री अकथयत् यत् अद्यावधि १,०८,६२७ नागरिकेभ्यः, विद्यालय-महाविद्यालयानां छात्र-छात्राभ्यः, ‘एनसीसी’, ‘एनएसएस’ छात्रेभ्यः, गृहरक्षि-सैनिकेभ्यश्च आपदा-प्रबन्धनस्य प्रशिक्षणम् प्रदत्तम् अस्ति। प्रशिक्षणस्य स्तरः एतादृशः भवेत् यत् स्वयंसेवकाः कस्यापि प्रकारस्य आव्हानस्य सम्मुखीकरणे समर्थाः भवेयुः, आपदा-कारणेन जायमाना जन-धन-हानिश्च न्यूनीकर्तुं शक्येत। सेनायाः ‘गोरखा-राइफल्स्’ इत्यस्य अधिकारिभिरपि नागरिक-सुरक्षायाः मुख्य-प्रशिक्षकेभ्यः (मास्टर-ट्रेनर्स) विशिष्टं प्रशिक्षणम् दत्तम् अस्ति।
कृत्रिम-अभ्यासेन (मॉक्-ड्रिल्) परीक्ष्यते सज्जतायाः यथार्थता
मुख्यमन्त्री अवदत् यत् कृत्रिम-अभ्यासः केवलम् एकः अभ्यासः नास्ति, अपि तु आपदायाः निवारणस्य सज्जतानां वास्तविकी परीक्षा अस्ति। अनेन ज्ञायते यत् अस्माकं व्यवस्था कियती तत्परा वर्तते तथा च केषु क्षेत्रेषु परिष्कारस्य आवश्यकता अस्ति। आपत्काले उचित-निर्णयेन, समये सूचना-दानेन, प्रशिक्षित-प्रतिक्रियया च महती हानिः निवारयितुं शक्यते। लक्ष्मणपुरे आयोजितः कृत्रिम-अभ्यासः सदृशाः अभ्यासाः प्रदेशस्य प्रत्येक-जनपदे नियमितरूपेण आयोजनीयाः। एतदर्थं विभिन्नानाम् आपदानां परिस्थितीनां च अनुसारम् अभ्यासस्य कार्ययोजना सज्जीकरणीया। जलप्लावनस्य, भूकम्पस्य, अग्निकाण्डस्य, आतङ्कवादी-घटनानां, युद्धस्य च सदृशीनां परिस्थितीनां निवारणाय विभिन्न-प्रकारकाः कृत्रिम-अभ्यासाः आयोजनीयाः, येन सम्बद्धानि अभिकरणानि नागरिकाश्च प्रत्येक-स्थितये सज्जाः तिष्ठेयुः।
आरक्षिबलम्, एनडीआरएफ, एसडीआरएफ, गृहरक्षिभिः च सह भविष्यति समन्वयः
मुख्यमन्त्री योगी अवदत् यत् आपदा-प्रबन्धनस्य सज्जतासु नागरिक-सुरक्षा-स्वयंसेवकैः सह ‘एनडीआरएफ’, ‘एसडीआरएफ’, उत्तरप्रदेश-आरक्षिबलम् (यूपी पुलिस), ‘पीएसी’, गृहरक्षि-सैनिकानां (होमगार्ड) च नियमितं प्रशिक्षणम् पारस्परिकः समन्वयश्चापि आवश्यकः अस्ति। एतैः सर्वैः अभिकरणैः एकत्र भूत्वा अभ्यासः करणीयः, येन वास्तविक-सङ्कटस्य समये साहाय्य-रक्षण-कार्येषु कस्यापि प्रकारस्य बाधा न भवेत्। प्रदेशे पर्वणाम् उत्सवानां च दीर्घायाः शृङ्खलायाः काले यदा पञ्चविंशति-कोटि-परिमिता जनसङ्ख्या उत्सवेषु सम्मिलिता भवति, तदा आरक्षकाः गृहरक्षि-सैनिकाश्च पूर्ण-तत्परतया स्व-कर्तव्यानि निर्वहन्ति। तथैव जलप्लावनस्य अन्यासाम् आपदानां वा समये आरक्षिबलम्, ‘एनडीआरएफ’, ‘एसडीआरएफ’, ‘पीएसी’ इत्यस्य जलप्लावन-घटकः, नागरिक-सुरक्षायाः स्वयंसेवकाश्च मिलित्वा सङ्कटस्य सम्मुखीकरणं कुर्वन्ति तथा च हानिं न्यूनीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।
नियमित-अभ्यासेन सुदृढः भविष्यति सामान्य-नागरिकस्य विश्वासः
मुख्यमन्त्री अकथयत् यत् गतेषु सार्ध-नव-वर्षेषु प्रदेशस्य सुरक्षायां तथा आपदा-प्रबन्धन-व्यवस्थायां व्यापकं परिवर्तनं द्रष्टुं लब्धम्। अनेन सामान्य-नागरिकस्य विश्वासः सुदृढः जातः। इमं विश्वासम् इतोऽपि सशक्तं कर्तुं कृत्रिम-अभ्यासाः प्रशिक्षण-कार्यक्रमाश्च नियमितरूपेण अग्रेसरणीयाः। आपदायाः आगमनानन्तरं सज्जताम् आरब्धुं स्थाने पूर्वमेव संसाधनानि, प्रशिक्षिताः स्वयंसेवकाः, समन्वित-व्यवस्था च सज्जा स्थापनीया। सङ्कटे सति कूपः न खन्यते। अत एव पिपासायाः आगमनात् पूर्वमेव सज्जता भवेत्। प्रदेशसर्वकारस्य लक्ष्यम् एतादृशीं व्यवस्थां विकसितुम् अस्ति, यस्यां कस्यामपि आपातकालीन-परिस्थितौ त्वरित-कार्याचरणं कुर्वता जन-धन-हानिः निवारयितुं शक्येत।
अस्मिन् अवसरे नागरिक-सुरक्षा-मन्त्री धर्मवीर-प्रजापतिः, लक्ष्मणपुरस्य महापौरः सुषमा-खर्कवाल, विधायकः डॉ. नीरज-बोरा, अमरीश-कुमारः, उत्तरप्रदेश-सर्वकारस्य अपर-मुख्य-सचिवः (गृह) सञ्जय-प्रसादः, आरक्षि-महानिदेशकः (डीजीपी) राजीव-कृष्णः, प्रमुख-सचिवः (नागरिक-सुरक्षा) संयुक्ता-समद्दार, नागरिक-सुरक्षा-महानिदेशकः (डीजी) अशोक-कुमारः इत्यादयः उपस्थिताः आसन्।
---------
Hindusthan Samachar / Divya Ranjan