जुबीनक्षेत्रस्य निर्माणकार्यं द्वित्रिमासाभ्यन्तरे प्रारप्स्यते, द्विवर्षपर्यन्तं तत्र वाहनानां स्थापनं निषिद्धं भविष्यति : मुख्यमन्त्री।
गुवाहाटी, 23 नवंबरमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वशर्मा सोमवासरे अवदत् यत् जुबीनगर्गस्य परिवारेण स्वीकृतेषु निर्णयेषु सर्वकारस्य किमपि हस्तक्षेपः नास्ति। तेन सूचितं यत् आगामीषु द्वित्रिमासेषु जुबीनक्षेत्रस्य निर्माणकार्यं प्रारप
Assam CM Dr Himanta Biswa Sarma Addressing A Press Conference on Monday.


गुवाहाटी, 23 नवंबरमासः (हि.स.)।

असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वशर्मा सोमवासरे अवदत् यत् जुबीनगर्गस्य परिवारेण स्वीकृतेषु निर्णयेषु सर्वकारस्य किमपि हस्तक्षेपः नास्ति। तेन सूचितं यत् आगामीषु द्वित्रिमासेषु जुबीनक्षेत्रस्य निर्माणकार्यं प्रारप्स्यते तथा निर्माणावधौ प्रायः सार्धैकवर्षतः द्विवर्षपर्यन्तं तत्र कस्यापि वाहनस्य स्थापनायाः अनुमतिः न भविष्यति।

नवदिल्लीस्थे आयोजिते वार्ताहरसम्मेलने मुख्यमन्त्री जुबीनगर्गस्य रेञ्जरोवर्-यानस्य विक्रयसम्बद्धे प्रश्ने एतद् वक्तव्यम् अददात्। तेन उक्तं यत् जुबीनगर्गस्य परिवारः यत्किमपि निर्णयं स्वीकरोति, तस्मिन् विषये सर्वकारेण किमपि वक्तुं न आवश्यकम्। मुख्यमन्त्री अवदत् यत् जुबीनक्षेत्रस्य निर्माणकार्यं शीघ्रमेव प्रारप्स्यते, अतः आगामीषु सार्धैकवर्षतः द्विवर्षपर्यन्तं तत्र वाहनस्थापनं सम्भवं न भविष्यति।

अन्यस्य प्रश्नस्य उत्तरे मुख्यमन्त्री नवदिल्लीस्थे द्वारकायां नवनिर्मितस्य असमभवनस्य उद्घाटनविषये सूचनां दत्त्वा अवदत् यत् चतुस्तलीये भवनस्य अतिथीनां कृते द्वौ अत्याधुनिकौ विशिष्टातिथिकक्षौ निर्मितौ स्तः।

तेन द्वारकायाः सेक्टर्-१७ इति क्षेत्रे विशालपरिसरे चतुर्थस्य असमभवनस्य निर्माणस्य घोषणापि कृता। एतदतिरिक्तं मुम्बय्यां, चेन्नै-नगरे तथा वेल्लूर्-नगरे अपि नूतनानि असमभवनानि निर्मीयन्ते।

-------------

Hindusthan Samachar / Dheeraj Maithani