हनुमद्गढ्यां प्रणम्य श्रीरामललायाः मन्दिरं प्राप्तवान् मुख्यमन्त्री योगी आदित्यनाथः।
अयोध्या, 23 नवंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे एकदिवसीययात्रायै रामनगर्याः अयोध्यायाः आगमनम् अकरोत्। रामकथापार्कस्थिते हेलिपैडस्थले आगमने सति जनप्रतिनिधिभिः अधिकारिभिश्च तस्य स्वागतं कृतम्। ततः मुख्यमन्त्री साक्षात् हनुमद्गढ
हनुमानगढ़ी में  पहुंचे मुख्यमंत्री


  रामलला के दरबार पहुंचे मुख्यमंत्री


अयोध्या, 23 नवंबरमासः (हि.स.)।

मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे एकदिवसीययात्रायै रामनगर्याः अयोध्यायाः आगमनम् अकरोत्। रामकथापार्कस्थिते हेलिपैडस्थले आगमने सति जनप्रतिनिधिभिः अधिकारिभिश्च तस्य स्वागतं कृतम्। ततः मुख्यमन्त्री साक्षात् हनुमद्गढीं प्राप्तवान्। तत्र तेन संकटमोचनस्य हनुमतः दर्शनं पूजनं च कृत्वा आरती समर्पिता तथा प्रदेशस्य सुखसमृद्धेः जनकल्याणस्य च कामना कृता। मुख्यमन्त्री योगी अयोध्यायाः नेपालदेशस्य जनकपुरधाम्नश्च मध्ये प्रारप्स्यमानायाः सरयू-कमला-एक्सप्रेस् रेलयानसेवायाः शुभारम्भकार्यक्रमे भागं ग्रहीतुं रामनगर्याः आगतवान् आसीत्।

श्रीरामललायाः चरणयोः साष्टाङ्गप्रणामम् अकरोत्

हनुमद्गढ्यां दर्शनपूजनानन्तरं मुख्यमन्त्री योगी आदित्यनाथः श्रीरामजन्मभूमिमन्दिरं प्राप्तवान्। तत्र तेन प्रभोः श्रीरामललायाः दर्शनं कृतम्। मन्दिरे साष्टाङ्गदण्डवत्प्रणामं कृत्वा प्रभोः चरणयोः शिरः प्रणम्य प्रदेशवासिनां कल्याणस्य सुखसमृद्धेश्च प्रार्थना कृता। अस्मिन्नवसरे मन्दिरपरिसरे उपस्थितानां श्रद्धालूनां सामान्यजनानां च मुख्यमन्त्री हस्तचालनेन अभिवादनं स्वीकृतवान्। दर्शनपूजनसमये श्रीरामजन्मभूमितीर्थक्षेत्रन्यासेन सम्बद्धाः पदाधिकारिणः अपि उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani