Enter your Email Address to subscribe to our newsletters




अयोध्या, 23 नवंबरमासः (हि.स.)।
अयोध्या-मिथिलयोः शताब्दीप्राचीना सांस्कृतिकाध्यात्मिकपारिवारिकधरोहरा आधुनिकरेलसम्पर्कमाध्यमेन नवां सुदृढतां प्राप्स्यति। अयोध्याधाम-जनकपुरधामयोः मध्ये प्रारब्धा सरयू-कमला एक्सप्रेस रेलसेवा भारत-नेपालयोः ऐतिहासिकसम्बन्धान् नूतनोन्नतिं प्रदास्यति। अनया रेलसेवया उभयदेशयोः श्रद्धालूनां, व्यापारिणां सामान्यनागरिकाणां च आवागमनं सुगमं भविष्यति। एषा केवलं धार्मिकनगरद्वयस्य संयोजिका रेलसेवा नास्ति, अपितु साझा-धरोहरस्य, जनश्रद्धायाः आर्थिकसम्भावनानां च संयोजिका महत्त्वपूर्णा कडी अस्ति।
एताः उक्तीः मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे अयोध्याधामरेलस्थानके सरयू-कमला एक्सप्रेस रेलयानस्य शुभारम्भकार्यक्रमे उक्तवान्। सः रेलयानस्य शुभारम्भं प्रधानमन्त्री नरेन्द्रमोदिनः ‘धरोहरः विकासश्च’ इति दृष्टिकोणस्य उदाहरणम् अवदत्। अस्मिन् कार्यक्रमे दिल्लीस्थानात् प्रधानमन्त्री मोदी, नेपालस्य प्रधानमन्त्री बालेन्द्र शाहः, केन्द्रीयरेलमन्त्री अश्विनी वैष्णवश्च आभासीयमाध्यमेन उपस्थिताः आसन्। प्रधानमन्त्री मोदी तथा नेपालस्य प्रधानमन्त्री च आभासीयमाध्यमेन सरयू-कमला एक्सप्रेस रेलयानाय हरितध्वजं प्रदर्शितवन्तौ।
मुख्यमन्त्री योगी अवदत् यत् मातुः सरय्वाः पवित्रजलधारया सिञ्चिता अयोध्या तथा मातुः कमलायाः जलेन अभिसिञ्चिता मातुः जानक्याः भूमिः जनकपुरम् इत्यनयोः सम्बन्धः उभयदेशयोः सहस्रवर्षप्राचीनान् सम्बन्धान् नवविस्तारं प्रदास्यति। अस्याः ऐतिहासिकपहलस्य माध्यमेन नेपालस्य श्रद्धालवः साक्षात् अयोध्याम् आगत्य रामललायाः दर्शनं कर्तुं शक्ष्यन्ति। तथैव भारतस्य श्रद्धालुभ्यः जनकपुरधाम्नि मातुः जानक्याः दर्शनस्य सुविधा प्राप्स्यते। एषा व्यवस्था उभयदेशयोः चिरस्थायिमैत्रीं पारस्परिकविश्वासं च अधिकं सुदृढं करिष्यति।
सः अवदत् यत् भारत-नेपालयोः सम्बन्धः केवलं द्वयोः समीपस्थदेशयोः राजनैतिकः भौगोलिकश्च सम्बन्धः नास्ति, अपितु सः सहस्रवर्षाणां साझाश्रद्धया, आत्मीयतया, संस्कृत्या पारिवारिकसम्बन्धैश्च निर्मितः अस्ति। रामजानक्याः परम्परायाम् अयं सम्बन्धः ‘रोटी-बेटी-सम्बन्धः’ इति कथ्यते। महर्षिणा विश्वामित्रेण सह भगवान् श्रीरामः लक्ष्मणश्च मिथिलां गतवन्तौ तथा विवाहानन्तरं महाराजदशरथस्य विवाहयात्रा अयोध्यातः जनकपुरं प्राप्तवती इति प्रसङ्गः अद्यापि उभयोः क्षेत्रयोः सांस्कृतिकस्मृतिषु जीवन्तः अस्ति। विवाहपञ्चमी इत्यादिषु विविधेषु पारम्परिकेषु आयोजनेषु अयं प्रसङ्गः उत्सवरूपेण आचर्यते। अयोध्यायाः जनाः अद्यापि जनकपुरं स्वकीयां श्वशुरभूमिं मन्यन्ते तथा च मिथिलाक्षेत्रे भगवान् श्रीरामः पाहुनः इति मत्वा तस्मै विशेषात्मीयतया सम्मानभावेन च व्यवहारः क्रियते।
योगी अवदत् यत् यदा जनकपुरस्य रामजानकीविवाहमण्डपे विवाहपञ्चमी-महोत्सवः आचर्यते, तदा अयोध्यायामपि मङ्गलगितानि गुञ्जन्ति। गतवर्षे विवाहपञ्चम्याः अवसरे एव श्रीरामजन्मभूमिमन्दिरस्य शिखरे धर्मध्वजायाः स्थापना अभवत्। श्रीरामजन्मभूम्याः आन्दोलनस्य प्रायः पञ्चशतवर्षाणां दीर्घसंघर्षस्य उल्लेखं कुर्वन् सः अवदत् यत् अस्मिन् यात्राकाले नेपालस्य सन्तानां, युवानां, मातॄणां भगिनीनां सामान्यश्रद्धालूनां च त्यागः सहकारिता च सदैव स्मरणीया भविष्यति। रामललायाः प्राणप्रतिष्ठायाः अवसरे मातुः जानक्याः मातृगृहात् जनकपुरधामतः शताधिकाः श्रद्धालवः मङ्गलोपहारान् नीत्वा स्नेहेन अयोध्याम् आगतवन्तः आसन्।
मुख्यमन्त्री योगी भारत-नेपालयोः धार्मिकान् आध्यात्मिकान् च सम्बन्धान् उल्लिख्य अवदत् यत् नेपालस्य पशुपतिनाथमन्दिरस्य काश्याः बाबा विश्वनाथधाम्नश्च मध्ये शताब्देभ्यः आध्यात्मिकः सम्बन्धः अस्ति। उत्तरप्रदेशस्य श्रद्धालवः पीढीभ्यः मुक्तिनाथं पशुपतिनाथं च द्रष्टुं यात्रां कुर्वन्ति। मकरसंक्रान्तौ गोरक्षनाथमन्दिरे नेपालतः प्रेषितायाः खिचड्याः समर्पणस्य परम्परा तथा चैत्रनवरात्रौ नेपालतः देवीपाटनशक्तिपीठं प्रति श्रद्धालूनां यात्रा उभयदेशयोः मध्ये विद्यमानम् एतमेव श्रद्धासम्बन्धं प्रदर्शयति।
सः अवदत् यत् भारत-नेपालयोः मुक्तसीमा विश्वस्मिन् पारस्परिकविश्वासस्य अद्वितीयम् उदाहरणम् अस्ति। प्रतिदिनं सहस्रशः जनाः व्यापाराय, रोजगाराय, शिक्षायै, स्वास्थ्यसेवायै पारिवारिकसम्बन्धार्थं च उभयदेशयोः मध्ये आवागमनं कुर्वन्ति। सुखदुःखयोः प्रत्येकस्मिन् अवसरे भारतं नेपालश्च परस्परं सहायतार्थं तिष्ठतः। सः अवदत् यत् केन्द्रसर्वकारस्य प्रदेशसर्वकारस्य च नीतिः ‘पड़ोसी प्रथमः’ इति भावनायाः अनुरूपा अस्ति। तेन सूचितं यत् उत्तरप्रदेशस्य सप्त जनपदाः पीलीभीत्, लखीमपुरखीरी, बहराइच, श्रावस्ती, बलरामपुर, सिद्धार्थनगर तथा महाराजगञ्जः नेपालदेशेन सह प्रायः षट्शत-किलोमीटर्-दीर्घां सीमां साझां कुर्वन्ति।
मुख्यमन्त्री योगी २०१८ तमे वर्षे प्रधानमन्त्री मोदिना जनकपुरस्य मातुः जानक्याः मन्दिरपरिसरात् जनकपुर-अयोध्या बससेवायाः हरितध्वजप्रदर्शनस्य प्रसङ्गम् उल्लिखितवान्। सः अवदत् यत् तस्मिन् समये अयोध्यायां प्रथमयानस्य स्वागतस्य अवसरः तस्मै प्राप्तः आसीत्। अधुना रेलसम्पर्कस्य माध्यमेन उभयोः धाम्नोः सम्बन्धः अधिकं विस्तृतः भवति। नेपालसीमया सम्बद्धेषु उत्तरप्रदेशस्य क्षेत्रेषु विकसितानाम् आधारभूतसंरचनानां विषये सूचनां ददन् सः अवदत् यत् रुपईडीहायां नेपालसीमायां प्रदेशस्य प्रथमः स्थलपत्तनः (लैण्डपोर्ट) सज्जः अस्ति। भारततः नेपालं प्रति निर्यातितानां वस्तूनां विशालः भागः अनेन मार्गेण गच्छति। रुपईडीहासीमायाः समीपे औद्योगिकस्य रसदपरिवहनस्य च गलियारस्य विकासाय कार्ययोजनायामपि कार्यं प्रचलति। तेन सूचितं यत् लखनऊ-रुपईडीहा-गलियारेण अन्तर्गतं बाराबङ्की-बहराइच-चतुर्मार्गीय-राजमार्गस्य निर्माणेन रुपईडीहातः नेपालगञ्जपर्यन्तं यात्रायां लग्नः समयः प्रायः अर्धः भविष्यति।
सोमवासरे सायंकाले अयोध्यातः जनकपुरं प्रति प्रस्थास्यमानं सरयू-कमला एक्सप्रेस (यानसंख्या १५५९६) अयोध्याकैण्ट-रेलस्थानकात् प्रत्येकस्मिन् सोमवासरे सायं ५:५० वादने प्रस्थास्यति। अयोध्याधाम, मनकापुर, बस्ती, गोरखपुर, नरकटियागञ्ज, रक्सौल, सीतामढी, शीशो, मधुबनी तथा जयनगरमार्गेण गत्वा मङ्गलवासरे मध्याह्ने १२:४० वादने नेपालीसमयानुसारं जनकपुरधामं प्राप्स्यति।
प्रत्यागमने यानसंख्या १५५९५ प्रत्येकस्मिन् शनिवासरे मध्याह्ने १:१० वादने नेपालीसमयानुसारं जनकपुरधामतः प्रस्थास्यति। जयनगर, मधुबनी, शीशो, सीतामढी, रक्सौल, नरकटियागञ्ज, गोरखपुर, बस्ती, मनकापुर तथा अयोध्याधाममार्गेण गत्वा रविवासरे प्रातः ८:१० वादने अयोध्याकैण्ट-रेलस्थानकं प्राप्स्यति।
१७ कक्षयुक्तेन आधुनिकेन एलएचबी रेलयानसमूहेन सञ्चालनम्
सरयू-कमला एक्सप्रेस रेलयानस्य सञ्चालनं १७ कक्षयुक्तेन आधुनिकेन एलएचबी रेलयानसमूहेन भविष्यति। अस्मिन् अष्टौ वातानुकूलितकक्षाः, सप्त शयनयानश्रेण्याः कक्षाः, एकः एलएसएलआरडी-कक्षः तथा एकः एलडब्ल्यूएलआरआरएम-कक्षः समाविष्टाः सन्ति। द्वितीयवातानुकूलितश्रेण्याः द्वयोः कक्षयोः प्रत्येकस्मिन् ५२ शय्याः, तृतीयवातानुकूलितश्रेण्याः त्रिषु कक्षेषु प्रत्येकस्मिन् ७२ शय्याः तथा तृतीयवातानुकूलित-इकोनॉमी-श्रेण्याः त्रिषु कक्षेषु प्रत्येकस्मिन् ८० शय्याः भविष्यन्ति। सप्तसु शयनयानकक्षेषु प्रत्येकस्मिन् ८० शय्याः तथा एलएसएलआरडी-कक्षे ३८ आसनानि उपलब्धानि भविष्यन्ति। एलडब्ल्यूएलआरआरएम-कक्षः विद्युतुत्पादनार्थं संयोजितः अस्ति।
दश मध्यवर्तिस्थानेषु भविष्यति विरामव्यवस्था
अस्यां रेलसेवायां जयनगर, मधुबनी, शीशो, सीतामढी, रक्सौल, नरकटियागञ्ज, गोरखपुर, बस्ती, मनकापुर तथा अयोध्याधाम इत्येतेषु दश मध्यवर्तिषु रेलस्थानकेषु वाणिज्यिकविरामस्य व्यवस्था कृता अस्ति। अनेन एतेषु क्षेत्रेषु निवसतां यात्रिकाणामपि प्रत्यक्षरेलसेवा प्राप्स्यते।
--------------
Hindusthan Samachar / Dheeraj Maithani