मुख्यमन्त्री विष्णुदेवसायः अद्य कोण्डागांव-रायपुरजनपदयोः प्रवासे, विकासकार्याणाम् उद्घाटनं शिलान्यासं च करिष्यति।
रायपुरम् 23 नवंबरमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे कोण्डागांव-रायपुरयोः विभिन्नेषु कार्यक्रमेषु सम्मिलितः भविष्यति। मुख्यमन्त्री मध्याह्ने द्वादशवादने जशपुरात् रायपुरं प्रत्यागमिष्यति। ततः तत्कालमेव सः कोण्डागांव
मुख्यमंत्री विष्णुदेव साय


रायपुरम् 23 नवंबरमासः (हि.स.)।

छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे कोण्डागांव-रायपुरयोः विभिन्नेषु कार्यक्रमेषु सम्मिलितः भविष्यति। मुख्यमन्त्री मध्याह्ने द्वादशवादने जशपुरात् रायपुरं प्रत्यागमिष्यति। ततः तत्कालमेव सः कोण्डागांवजनपदस्य धनोरा इति स्थानं प्रति प्रस्थास्यति।

धनोरायां मुख्यमन्त्री सायः राजराजेश्वरभगवतः सहस्रबाहुअर्जुनस्य जयन्त्युत्सवे आयोजिते कलारसमाजमहोत्सवे सम्मिलितः भविष्यति। अस्मिन्नवसरे सः क्षेत्रे विविधविकासकार्याणाम् उद्घाटनं शिलान्यासं च करिष्यति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री अपराह्णे ३:३५ वादने धनोरातः रायपुरं प्रत्यागमिष्यति। ततः सायं ४:४५ वादने पण्डितरविशङ्करशुक्लविश्वविद्यालयं प्राप्य मानवतस्करी तथा घरेलुहिंसा इति विषययोः आयोज्यमाने राज्यस्तरीये प्रशिक्षणसहकार्यशालाकार्यक्रमे सम्मिलितः भविष्यति। कार्यक्रमे सहभागितायाः अनन्तरं मुख्यमन्त्री सायं षड्वादने मुख्यमन्त्रिणः निवासं प्रत्यागमिष्यति।

Hindusthan Samachar / Dheeraj Maithani