Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 23 नवंबरमासः (हि.स.)।
पवित्रा जीवनदायिनी च मन्यमाना गङ्गानदी जनपदे सम्प्रति वर्धमानेन प्रदूषणेन मानवीयेन हस्तक्षेपेण च गम्भीरम् पारिस्थितिकसङ्कटं सम्मुखीकुर्वती अस्ति। सुल्तानगञ्जतः कहलगांवपर्यन्तं विस्तृतम् देशस्य एकमात्रं ‘विक्रमशिला गांगेय डॉल्फिन अभयारण्यं’ संरक्षणप्रयासानां फलस्वरूपं डॉल्फिनमत्स्यानां सङ्ख्यायां सुधारस्य साक्षी अभवत्, तथापि नद्याः जलस्य अवनता गुणवत्ता जलीयजीवानाम् अस्तित्वविषये पुनः नवीनान् प्रश्नान् उत्पन्नान् करोति।
नमामि गङ्गे परियोजनायाः विभिन्नानां जनजागरणाभियानानां च अनन्तरमपि जनपदस्य नगरीयघट्टेषु औद्योगिकक्षेत्रेषु च गङ्गायाः जलं तीव्रगतया प्रदूषितं भवति। नदीजले जैवरासायनिकस्य प्राणवायुमागधायाः स्तरः वर्धते तथा च विलीनप्राणवायोः मात्रा न्यूनीभवति। वर्षाकालानन्तरं जलस्तरस्य न्यूनतायां नद्याः तटे सञ्चिता पङ्कमलिनतायाः च स्थितिः अधिकं भयावहा भवति।
उल्लेखनीयं यत् नगरस्य बहूनां लघुमहानां च नालानां दूषितं जलं पूर्णतया शोधयित्वा विना साक्षात् गङ्गायां पात्यते। अपि च, घाटेषु प्लास्टिकवस्तूनि, पूजासामग्री, ठोसकचराश्च राशीभवन्ति। नद्याः तटवर्तिषु क्षेत्रेषु कृषिकार्ये प्रयुक्तानां रासायनिकानाम् उर्वरकाणां कीटनाशकानां च प्रवाहेण नदीजले मिश्रणं जलं विषाक्तं करोति। नद्याः तटेषु प्रचलितेन अवैधवालुकाखननेन नद्याः प्राकृतिकगभीरता संरचना च विकृतं भवति। नद्यां मोटरचालितनौकानां बृहन्मालवाहकपोतानां च वर्धमानया आवागमनप्रक्रियया तैलस्य स्रावः भवति, जले च अन्तः तीव्रः ध्वनिप्रदूषणः उत्पद्यते।
उल्लेखनीयं यत् जनपदस्य सुल्तानगञ्जतः कहलगांव-मनिहारीपर्यन्तं प्रायः द्विशततः द्विशतपञ्चदशपर्यन्ताः गांगेयडॉल्फिनमत्स्याः दृश्यन्ते, याः नद्याः स्वास्थ्यस्य प्रमुखं मानदण्डं सन्ति। प्रदूषणस्य मानवीयव्यतिक्रमस्य च तासु प्रत्यक्षः प्रभावः भवति। गांगेयडॉल्फिनमत्स्याः जन्मनैव दृष्टिहीनाः भवन्ति तथा च आहारान्वेषणाय मार्गपरिज्ञानाय च ध्वनितरङ्गेषु निर्भराः भवन्ति। पोतानां कोलाहलेन वालुकाखननयन्त्राणां ध्वनिना च तासां प्राकृतिकक्षमता बाधिता भवति।
प्रदूषणस्य कारणेन देशीयमत्स्यप्रजातीनां तासां सङ्ख्यायाश्च महती न्यूनता जाता, येन डॉल्फिनमत्स्यानां भोजनस्य सङ्कटम् उत्पन्नम् अस्ति। अपि च, मत्स्यानां शरीरे सञ्चिताः भारीधातवः रसायनानि च आहारशृङ्खलया डॉल्फिनमत्स्यानां कच्छपानां च शरीरे प्रविश्य तेषां प्रजननक्षमताम् प्रभावितं कुर्वन्ति। केवलं डॉल्फिनमत्स्याः एव न, अपितु गङ्गायां प्राप्यमाणानां दुर्लभानां मृदुकवचयुक्तानां कच्छपानां, घडियालानां तथा हिल्सा-रोहू इत्यादीनां देशीयमत्स्यानां प्रजननस्थानानि अपि पङ्केन प्रदूषणेन च विनश्यन्ति। पर्यावरणस्य जलीयजीवानां च विशेषज्ञाः मन्यन्ते यत् केवलं सङ्ख्यायाः वृद्धिः सन्तोषजनका नास्ति, अपितु तेषाम् आवासस्य संरक्षणमेव महती चुनौती अस्ति। तेषां कथनम् अस्ति यत् गङ्गायाः डॉल्फिनमत्स्याः पारिस्थितिकीतन्त्रस्य शीर्षस्थाने सन्ति। यदि नद्याः जलं स्वच्छं प्रवहमानं च भविष्यति, तर्हि एव डॉल्फिनमत्स्याः सुरक्षिताः भविष्यन्ति। नगरीयनालानां जलस्य साक्षात् नद्यां पतनम्, प्लास्टिककचराः मत्स्यग्रहणाय प्रयुक्तानि सूक्ष्मजालानि च एतेषाम् अस्तित्वस्य महान्तः संकटाः सन्ति। यदि समये एव मलजलशोधनसंयन्त्राणां क्षमतायाः पूर्णोपयोगः न भविष्यति, तर्हि जलीयजैवविविधतायाः अपूरणीया क्षतिः भविष्यति। विशेषज्ञैः पर्यावरणविद्भिश्च प्रशासनात् आग्रहः कृतः यत् अभयारण्यक्षेत्रे अवैधखननस्य निषिद्धजालानां प्रयोगस्य च कठोरतया प्रतिबन्धः क्रियताम्, सर्वाणि मलजलशोधनसंयन्त्राणि पूर्णक्षमतया सञ्चाल्येरन् तथा स्थानीयमत्स्यजीविनः नागरिकाश्च नद्याः स्वच्छताकार्ये सहभागीक्रियेरन्।
---------------
Hindusthan Samachar / Dheeraj Maithani