Enter your Email Address to subscribe to our newsletters

प्रभारीमन्त्री पदाधिकारिभ्यः कार्यकर्तृभ्यश्च लिखितपत्राणि स्वीकृतवान्, समस्यानां शीघ्रसमाधानस्य आश्वासनं दत्तवान्
झांसी, २२ नवम्बरमासः (हि.स.)। भारतीयजनतापार्टी इत्यस्य सङ्घट-नात्मकसुदृढतायाः पृष्ठे लक्षशः कार्यकर्तृणां संघर्षः, त्यागः, समर्पणं च अस्ति। कार्यकर्तृणां परिश्रमस्य बलादेव दलम् अद्य अस्मिन् स्थानं प्राप्तवद् अस्ति। प्रत्येकं कार्यकर्ता सङ्घटनस्य मेरुदण्डः अस्ति, तस्य सम्मानः समस्यासमाधानं च सङ्घटनस्य प्राथमिकता भवितव्यम्। एतद् रविवारस्य जनपदप्रभारीमन्त्री तथा प्रदेशसर्वकारस्य कैबिनेटमन्त्री जयवीरसिंहः झांसीमध्ये भाजपा-पदाधिकारिभिः कार्यकर्तृभिश्च आयोजि-तायां सभायां उक्तवान्।
सभायां प्रभारीमन्त्री सङ्घटनात्मक-कार्याणां समीक्षां कृत्वा कार्यकर्तृभिः सह तेषां समस्याभिः च सम्बद्धं विस्तृतं चर्चां कृतवान्। सः अवदत् यत् भाजपा-दलस्य प्रत्येकं कार्यकर्ता दलस्य विचारधारां जन-जनं प्रति प्रसारयितुं तथा मतदान-केन्द्रस्तरपर्यन्तं सङ्घटनं सुदृढं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति। भूमिस्तरे कार्यं कुर्वतां कार्यकर्तृणां स्वक्षेत्रस्य समस्याणां वास्तविकज्ञानं भवति। अतः तेषां सुझावानां गम्भीरतया श्रवणं तेषाम् अनुपालनं च आवश्यकम्।
लिखितपत्राणि स्वीकृत्य समाधानस्य आश्वासनं दत्तम्
सभायां जयवीरसिंहः कार्यकर्तृभिः सह प्रत्यक्षं संवादं कृत्वा तेषां समस्याः श्रुतवान्। समस्याः सम्बन्धितविभागान् अधिकारिणः च प्रति सुव्यवस्थितरूपेण प्रेषयितुं कार्यकर्तृभ्यः लिखितपत्राणि अपि स्वीकृतवान्। सः आश्वासनं दत्तवान् यत् पत्रेषु उल्लिखितानां समस्याणां समाधानार्थम् आवश्यकाः कार्यवाहीः क्रियिष्यन्ते तथा तासां शीघ्रनिराकरणस्य प्रयासः भविष्यति। सः अवदत् यत् सङ्घटनस्य कार्यकर्तृणां च मध्ये निरन्तरं संवादः भवितव्यम्। कार्यकर्तृणां सम्मानः एव सङ्घटनस्य सुदृढतायाः आधारः अस्ति।
अस्मिन् अवसरे भाजपा-महानगराध्यक्षः सुधीरसिंहः, ग्रामीणाध्यक्षः प्रदीपपटेलः, बबीना-विधायकः राजीवसिंहपारीछा, विधानपरिषद्सदस्यः रामतीर्थसिंहः, बाबूलालतिवारी, जमुनाकुशवाहा, भारत-सिंहपटेलः, एसकेबाबा, बशीरअली, ब्रजमोहनसिंहः इत्यादयः बहुसंख्यकाः पदाधिकारी-कार्यकर्तारः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Divya Ranjan