देशस्य भूमेः वैश्विकविपणीः यावत् पुष्पाणां यात्रा, निर्यातः २५८.२६ मिलियनडॉलर् यावत् प्राप्तः।
नवदिल्ली, 23 नवंबरमासः (हि.स.)। भारते पुष्पकृषिः अधुना केवलं पारम्परिकधार्मिककार्येषु एव सीमिता नास्ति, अपितु सा देशस्य कृषिनिर्यातस्य तीव्रगत्या वर्धमानं क्षेत्रम् अभवत्। भारतसर्वकारेण पुष्पकृषिः ‘उदीयमानोद्योगः’ इति रूपेण चिह्निता अस्ति। वित्त
फूलों की खेती के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, 23 नवंबरमासः (हि.स.)।

भारते पुष्पकृषिः अधुना केवलं पारम्परिकधार्मिककार्येषु एव सीमिता नास्ति, अपितु सा देशस्य कृषिनिर्यातस्य तीव्रगत्या वर्धमानं क्षेत्रम् अभवत्। भारतसर्वकारेण पुष्पकृषिः ‘उदीयमानोद्योगः’ इति रूपेण चिह्निता अस्ति। वित्तवर्षे २०२५-२६ देशस्य पुष्पनिर्यातः अधुना २५८.२६ मिलियन अमेरिकी डॉलर् यावत् प्राप्तः अस्ति।

भारतीयकृषौ कदाचित् तुलनया सीमितक्षेत्रमिदम् अधुना उद्यानकृषिक्षेत्रस्य गतिशीलः भागः भूत्वा विकसितम् अस्ति। एतत् क्षेत्रं कृषकाणाम् आयवृद्धौ, कृषिनिर्याते तथा ग्रामीणोद्यमानां विकासे योगदानं ददाति। तथैव आधुनिककृषिपद्धतीः प्रौद्योगिकीश्च शीघ्रतया स्वीकरोति। एकस्याः सर्वकारीयप्रतिवेदनस्य अनुसारम् अधुना पुष्पाणाम् उपयोगः केवलं सज्जायै अथवा पूजायै एव सीमितः नास्ति, अपितु इत्रनिर्माणे, सौन्दर्यप्रसाधननिर्माणे, औषधनिर्माणे तथा प्राकृतिकवर्णनिर्माणे च एतेषां मूल्यसंवर्धनं क्रियते, येन कृषकाणाम् आयः वर्धते। अद्य पुष्पकृषेः अन्तर्गतं विविधप्रकारकाः उत्पादाः, उत्पादनप्रणाल्यः तथा मूल्यवर्धितोपयोगाः समाविष्टाः सन्ति। उपभोक्तॄणां वर्धमाना मागः, विपणीनां विस्तरमाणाः सम्भावनाः, नीतिगतसहकारः तथा प्रौद्योगिकीयप्रगतिः अस्य क्षेत्रस्य निरन्तरवृद्धिं गतिं यच्छन्ति।

अनुकूलजलवायुपरिस्थितीनां तथा विपण्यां वर्धमानमागस्य सहकारेण देशस्य अनेकेषु क्षेत्रेषु पुष्पकृषेः विस्तारः अभवत्। २०२५-२६ तमस्य वर्षस्य तृतीयानाम् अग्रिमानुमानानाम् अनुसारं पुष्पकृष्यन्तर्गतं कुलं ४.१ लक्षहेक्टर्-परिमितं क्षेत्रम् आसीत्। अस्यामेव अवधौ ३६.५३ लक्षटनपरिमितानाम् मुक्तपुष्पाणां तथा १२.२९ लक्षटनपरिमितानां छिन्नपुष्पाणां उत्पादनम् अभवत्। पुष्पकृषेः कुलम् उत्पादनं ४८.८२ लक्षटनपरिमितम् आसीत्, यत् भारते अस्य क्षेत्रस्य व्यापकविस्तारं व्यावसायिकमहत्त्वं च प्रदर्शयति।

विगतकेषु वर्षेषु भारतस्य पुष्पकृषिजन्यनिर्याते स्पष्टा वृद्धिः दृष्टा, या भारतीयपुष्पोत्पादानां वर्धमानस्य अन्ताराष्ट्रियमागस्य सूचिका अस्ति। पुष्पनिर्यातस्य मूल्यं, यस्मिन् फलानां शाकानां च बीजानि अपि समाविष्टानि सन्ति, वित्तवर्षे २०२१-२२ मध्ये २१६.७४ मिलियन अमेरिकी डॉलर् इत्यस्मात् वर्धित्वा वित्तवर्षे २०२५-२६ मध्ये २५८.२६ मिलियन अमेरिकी डॉलर् अभवत्। एषा वृद्धिः भारतीयपुष्पोत्पादानां वर्धमानाम् अन्तरराष्ट्रीयमागं निर्यातप्रतिस्पर्धात्मकतायां च सुदृढतां प्रदर्शयति।

वित्तवर्षस्य २०२५-२६ तृतीयानाम् अग्रिमानुमानानाम् अनुसारं भारते प्रायः ४.१० लक्षहेक्टर्-परिमिते क्षेत्रे पुष्पकृषिः क्रियते, येन ४८.८२ लक्षमीट्रिकटनपरिमितानां पुष्पाणाम् उत्पादनम् अभवत्। आन्ध्रप्रदेशः राष्ट्रियस्तरे पुष्पोत्पादने अग्रस्थाने अस्ति। वैश्विकविपण्यां मुख्यतया गुलाबः, कार्नेशन, गुलदाउदी, जरबेरा, ग्लैडियोलस, जिप्सोफिला, ऑर्किड, एन्थ्यूरियम, ट्यूलिप तथा लिली इत्यादीनां पुष्पाणां निर्यातः क्रियते। एतदतिरिक्तं पारम्परिकमुक्तपुष्पाणां पुष्पबीजानां च महती मागः अस्ति।

क्षेत्रात् विमानपत्तनपर्यन्तं आपूर्तिशृङ्खला (शीतशृङ्खला)

पुष्पाणि अत्यन्तं सुकुमाराणि भवन्ति, अतः छेदनानन्तरं तेषां ताजगीं सुरक्षितां स्थापयितुं महती चुनौती भवति। छेदनानन्तरं पुष्पाणां वृन्तानि तत्क्षणमेव पोषकतत्त्वयुक्ते घोलद्रव्ये स्थाप्यन्ते तथा तानि प्रायः ४° सेल्सियस् तापमाने शीतभाण्डागारे शीतलीक्रियन्ते। अन्तरराष्ट्रीयमानकानुसारं पुष्पाणां चयनं, श्रेणीकरणं तथा विशेषपुटीकरणं क्रियते, येन दीर्घयात्रायां तानि न नश्येयुः। शीतशृङ्खलायुक्तैः वाहनैः एतानि समीपस्थानि अन्तरराष्ट्रीयविमानपत्तनानि यावत् प्राप्यन्ते। ततः मालवाहकविमानैः द्वितः चतुर्दिनाभ्यन्तरे एतानि विदेशीयविपणीः पुष्पविक्रेतॄणां आपणानि च प्राप्नुवन्ति।

वित्तवर्षे २०२५-२६ पुष्पबीजानां प्रमुखासु अन्तरराष्ट्रीयविपणीषु उत्तमा मागः आसीत्। अमेरिका ४५.९४ मिलियन अमेरिकी डॉलर् मूल्यस्य निर्यातेन प्रमुखं गन्तव्यस्थानम् अभवत्। तदनन्तरं पुष्पाणाम् अन्तरराष्ट्रीयव्यापारस्य महत्त्वपूर्णं केन्द्रं नीदरलैण्डदेशः आसीत्, यत्र ४२.१८ मिलियन अमेरिकी डॉलर् मूल्यस्य उत्पादानां निर्यातः कृतः। बाङ्ग्लादेशं प्रति १६.५१ मिलियन अमेरिकी डॉलर् मूल्यस्य पुष्पकृषिजन्यपदार्थानां निर्यातः कृतः।

संयुक्तअरब-अमीरात् तथा इटलीदेशौ क्रमेण १६.३५ मिलियन अमेरिकी डॉलर् तथा ९.६९ मिलियन अमेरिकी डॉलर् मूल्यस्य उत्पादानाम् आयातं कृतवन्तौ। एतत् भारतस्य पुष्पकृषिजन्यनिर्यातस्य पारम्परिकेषु उदयमानेषु च विपणनक्षेत्रेषु वर्धमानं प्रापणं प्रदर्शयति।

भारते पुष्पकृषेः अधिकांशः भागः कतिपयेषु प्रमुखराज्येषु केन्द्रितः अस्ति। वित्तवर्षस्य २०२५-२६ तृतीयानाम् अग्रिमानुमानानाम् अनुसारं देशस्य समग्रपुष्पोत्पादने आन्ध्रप्रदेशस्य योगदानं प्रायः ३१ प्रतिशतं आसीत्। तदनन्तरं तमिलनाडु (१४ प्रतिशतं), मध्यप्रदेशः (११ प्रतिशतं), कर्नाटकः (१० प्रतिशतं) तथा पश्चिमबङ्गालः (८ प्रतिशतं) च आसन्। पुष्पकृषेः अन्येषु प्रमुखोत्पादकराज्येषु छत्तीसगढः, गुजरातः, उत्तरप्रदेशः, ओडिशा, महाराष्ट्रः तथा तेलङ्गाना च अन्तर्भवन्ति। भारतस्य समग्रपुष्पोत्पादने पूर्वोत्तरराज्यानां संयुक्तं योगदानं प्रायः चतुर्प्रतिशतं आसीत्। विशेषतः छिन्नपुष्पाणाम् उत्पादनस्य दृष्ट्या नागालैण्डस्य स्थानम् अग्रगण्यम् आसीत्।

---------------

Hindusthan Samachar / Dheeraj Maithani