कर्नाटकसर्वकारः निवेशाकर्षणाय औद्योगिकविकासस्य प्रोत्साहनाय च प्रतिबद्धा - डी.के. शिवकुमारः
जापानदेशे टोयोटा मोटर कॉर्पोरेशन इत्यस्य संयन्त्रस्य निरीक्षणं कृतवान्, कम्पनी-अधिकारिभिः सह चर्चां च कृतवान्। ‘बियॉन्ड बेंगलुरु’ योजनया राज्यस्य सर्वेषु क्षेत्रेषु निवेशस्य रोजगारावसराणां च वृद्धेः लक्ष्यं निर्धारितम्। मोटोमाची (जापान), २३ नवम्ब
मुख्यमंत्री के नेतृत्व में कर्नाटक का एक प्रतिनिधिमंडल जापान के दौरे पर है।


जापानदेशे टोयोटा मोटर कॉर्पोरेशन इत्यस्य संयन्त्रस्य निरीक्षणं कृतवान्, कम्पनी-अधिकारिभिः सह चर्चां च कृतवान्।

‘बियॉन्ड बेंगलुरु’ योजनया राज्यस्य सर्वेषु क्षेत्रेषु निवेशस्य रोजगारावसराणां च वृद्धेः लक्ष्यं निर्धारितम्।

मोटोमाची (जापान), २३ नवम्बरमासः (हि.स.)। कर्नाटकसर्वकारः राज्ये नवीननिवेशान् आकर्षयितुं, बेंगलुरुनगरात् बहिरपि औद्योगिकविकासस्य विस्तारं कर्तुं च प्रतिबद्धः अस्ति। इति मुख्यमन्त्री डी.के. शिवकुमारः अवदत्।

मुख्यमन्त्रिकार्यालयस्य सञ्चारविभागेन सोमवासरे प्रकाशितस्य विज्ञप्तेः अनुसारम्, राज्ये निवेशाकर्षणस्य अभियानस्य अन्तर्गतं मुख्यमन्त्री डी.के. शिवकुमारः बृहन्मध्यमोद्योगस्य, आधारभूतसंरचनाविकासस्य तथा वाणिज्यमन्त्रिणा एम.बी. पाटिलेन प्रतिनिधिमण्डलेन च सह जापानदेशस्य मोटोमाचीस्थे टोयोटा मोटर कॉर्पोरेशनस्य संयन्त्रस्य निरीक्षणं कृतवान्। अस्मिन् अवसरे सः कम्पनीस्य वरिष्ठाधिकारिभिः सह चर्चां कृतवान्।

बैठके कर्नाटकराज्ये नवीननिवेशान् आकर्षयितुं, राज्यस्य युवभ्यः रोजगारावसरान् सृजितुं तथा प्रत्यक्षविदेशीनिवेशस्य प्रमुखकेन्द्ररूपेण कर्नाटकस्य स्थितिं अधिकं सुदृढं कर्तुं च विषये चर्चा अभवत्।

अस्मिन् अवसरे मुख्यमन्त्री टोयोटा कम्पनीस्य ‘ग्लोबल स्किल-अप’ कार्यक्रमस्य अन्तर्गतं जापानदेशे विशेषप्रशिक्षणं प्राप्यमाणैः बिदाडीस्थटोयोटासंयन्त्रस्य २०-ाधिकैः औद्योगिकप्रशिक्षणसंस्थानस्य प्रशिक्षुभिः सह अपि मिलितवान्। सः प्रशिक्षुभ्यः जापानदेशे प्रशिक्षणकाले प्राप्तानुभवानां विषये जानकारीं प्राप्तवान् तथा च तान् अस्य अवसरस्य पूर्णलाभं ग्रहीतुं, तकनीकीकौशलं विशेषज्ञतां च वर्धयितुं, भविष्ये कर्नाटकस्य विकासे योगदानं दातुं च प्रोत्साहितवान्।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारस्य ‘बियॉन्ड बेंगलुरु’ योजनया राजधानी-नगरात् बहिरपि क्षेत्रेषु औद्योगिकविकासं, निवेशं तथा रोजगारावसरान् विस्तारयितुं लक्ष्यं निर्धारितम् अस्ति। सर्वकारः राज्यस्य सर्वेषु क्षेत्रेषु सन्तुलितं औद्योगिकविकासं सुनिश्चितं कर्तुं प्रतिबद्धः अस्ति।

सः अवदत् यत् उद्योगानाम् आकर्षणम्, रोजगारावसराणां सृजनम् तथा बेंगलुरुनगरात् बहिरपि आर्थिक-सम्भावनानां विस्तारः राज्यसर्वकारस्य निवेशाभियानस्य प्रमुखोद्देश्येषु अन्त-र्भवन्ति। एतेन कर्नाटकस्य प्रत्येकं क्षेत्रं राज्यस्य विकासयात्रायाः सहभागितां कर्तुं प्रयासः क्रियते।

Hindusthan Samachar / Divya Ranjan