भोपालनगरे देशस्य तृतीया ल्यूमिनेसेन्स-कालनिर्धारण-प्रयोगशाला प्रारब्धा, दश लक्षवर्षेभ्यः प्राचीनानां मृत्तिकाशिलानां च ज्ञातुं शक्ष्यते इतिहासः।
भोपालम्, 23 नवंबरमासः (हि.स.)। लक्षावधिवर्षेभ्यः पूर्वं पृथिव्यां मानवाः कथं जीवनं यापयन्ति स्म, तस्मिन् काले पर्यावरणं कीदृशम् आसीत् तथा च जलवायौ के परिवर्तनाः अभवन्, इत्येतेषां प्रश्नानाम् उत्तराणि अधुना वैज्ञानिकपरीक्षणेन ज्ञातुं शक्यानि। मध्य
भोपाल के विज्ञान भवन में डॉ. विष्णु श्रीधर वाकणकर ल्यूमिनेसेंस डेटिंग प्रयोगशाला का अवलोकन करते हुए मुख्यमंत्री मोहन यादव


भोपाल के विज्ञान भवन में महाकाल : द मास्टर ऑफ टाइम कॉफी टेबल बुक का विमोचन करते हुए मुख्यमंत्री डॉ. मोहन यादव


भोपाल के विज्ञान भवन में डॉ. विष्णु श्रीधर वाकणकर ल्यूमिनेसेंस डेटिंग प्रयोगशाला का उद्घाटन करते हुए मुख्यमंत्री डॉ. मोहन यादव


भोपाल के विज्ञान भवन में डॉ. विष्णु श्रीधर वाकणकर ल्यूमिनेसेंस डेटिंग प्रयोगशाला का अवलोकन करते हुए मुख्यमंत्री मोहन यादव


भोपालम्, 23 नवंबरमासः (हि.स.)।

लक्षावधिवर्षेभ्यः पूर्वं पृथिव्यां मानवाः कथं जीवनं यापयन्ति स्म, तस्मिन् काले पर्यावरणं कीदृशम् आसीत् तथा च जलवायौ के परिवर्तनाः अभवन्, इत्येतेषां प्रश्नानाम् उत्तराणि अधुना वैज्ञानिकपरीक्षणेन ज्ञातुं शक्यानि। मध्यप्रदेशस्य राजधानी भोपालनगरे प्रदेशस्य प्रथमा तथा च देशस्य तृतीया ल्यूमिनेसेन्स-कालनिर्धारण-प्रयोगशाला प्रारब्धा अस्ति। मुख्यमन्त्री डॉ. मोहन यादवः सोमवासरे भोपालनगरे मध्यप्रदेशविज्ञानप्रौद्योगिकीपरिषदः (मैपकास्ट) परिसरे देशस्य तृतीयायाः अत्याधुनिकायाः ‘डॉ. विष्णु श्रीधर वाकणकर ल्यूमिनेसेन्स-कालनिर्धारण-प्रयोगशालायाः’ तथा च वीथिकायाः उद्घाटनम् अकरोत्। अस्याः प्रविध्याः माध्यमेन प्रायः दश लक्षवर्षपर्यन्तं प्राचीनानां नमूनानां कालनिर्धारणं सम्भवम् अस्ति।

मुख्यमन्त्रिणा मैपकास्ट-परिसरे प्रसिद्धस्य पुरातत्त्ववेत्तुः डॉ. वाकणकरस्य जीवनं, अनुसन्धानं, उपलब्धयः च आधारीकृत्य विशेषा वीथिका अपि प्रारब्धा। कार्यक्रमे राष्ट्रियस्वयंसेवकसङ्घस्य पूर्वसहसरकार्यवाहः सुरेश सोनी अपि उपस्थितः आसीत्। अस्मिन् अवसरे ‘महाकालः द मास्टर ऑफ टाइम’ इति कॉफी टेबल पुस्तिकायाः विमोचनमपि कृतम्।

कार्यक्रमं सम्बोधयन् मुख्यमन्त्री अवदत् यत् एषा प्रयोगशाला प्रायः दश लक्षवर्षपर्यन्तं प्राचीनानाम् अवशेषाणां घटनानां च वैज्ञानिकपरीक्षणे समर्था अस्ति। अस्याः माध्यमेन प्राचीनसभ्यतानां कालखण्डः, मानवविकासस्य परम्परा तथा च तत्कालीना जलवायुपरिस्थितयः ज्ञातुं शक्यन्ते। भूमौ निहिताः अवशेषाः अन्तिमवारं कदा सूर्यस्य प्रकाशं प्राप्तवन्तः, इत्यस्य वैज्ञानिकमूल्याङ्कनमपि अस्याः प्रविध्याः माध्यमेन सम्भवम् अस्ति।

सः अवदत् यत् पद्मश्री डॉ. विष्णु श्रीधर वाकणकरः सीमितसंसाधनानाम् अभावेऽपि पुरातत्त्वक्षेत्रे स्वकीयां विशिष्टां परिचितिं स्थापितवान्। भीमबेटका इत्यस्य ऐतिहासिकधरोहरस्य प्रकाशने तस्य योगदानम् अत्यन्तं महत्त्वपूर्णम् आसीत्। तस्य नाम्ना प्रयोगशालायाः स्थापनं तस्य कार्यस्य अनुसन्धानपरम्परायाश्च अग्रे संवर्धनस्य प्रयासः अस्ति। अस्याः प्रयोगशालायाः प्रमुखं वैशिष्ट्यम् अस्ति अस्याः परीक्षणप्रक्रिया। अत्र परीक्षणार्थं पूर्णतया अन्धकारः स्थाप्यते तथा च वैज्ञानिकाः रक्तप्रकाशे नमूनानां परीक्षणं कुर्वन्ति।

मैपकास्ट-संस्थायाः अनुसन्धानसहयोगी हलधरकुमारस्य अनुसारम्, अत्र अवसादयुक्तानां मृत्तिकास्तराणां तेषु विद्यमानानां खनिजानां च आयुः निर्धार्यते। एतदर्थं प्रयोगशालायां अन्धकारः स्थाप्यते। सामान्यप्रकाशस्य स्थाने मन्दे रक्तप्रकाशे वैज्ञानिकाः नमूनानां परीक्षणं कुर्वन्ति। विशिष्टयन्त्राणां वैज्ञानिकप्रविधीनां च साहाय्येन सम्बन्धितं नमूनं कति सहस्रवर्षाणि अथवा लक्षवर्षाणि प्राचीनम् अस्ति, इति ज्ञायते। एतेन पुरातात्त्विकस्थलस्य आयुः निर्धारयितुं तत्र प्राप्तान् साक्ष्यान् ऐतिहासिककालक्रमेण सम्बद्धुं च साहाय्यं भविष्यति।

प्रयोगशालायाः महत्त्वं केवलं प्राचीनवस्तूनाम् आयुः ज्ञातुं सीमितं नास्ति। अस्याः माध्यमेन लक्षवर्षेभ्यः पूर्वस्य पर्यावरणस्य जलवायौ च अभवतां परिवर्तनानाम् अध्ययनमपि कर्तुं शक्यते। वैज्ञानिकाः नमूनानाम् आयुः निर्धार्य तान् तत्कालीनेभ्यः पर्यावरणीयपरिस्थितिभ्यः सह सम्बद्ध्य अध्ययनं कर्तुं शक्ष्यन्ति। अनेन विभिन्नेषु कालेषु जलवायुः कीदृशी आसीत्, पृथिव्यां के परिवर्तनाः अभवन् तथा च मानवजीवनं कीदृशीषु परिस्थितिषु विकसितम् अभवत्, इति ज्ञातुं शक्यते। अनुसन्धानसहयोगी हलधरकुमारस्य अनुसारम्, अस्यां प्रयोगशालायां प्राप्तानि आँकडानि पर्यावरणस्य जलवायुपरिवर्तनस्य च अध्ययनैः सह सम्बद्धानि करिष्यन्ते। एतेन प्राचीनानां भूगर्भीयघटनानां मानवेतिहासस्य च अवगमने साहाय्यं भविष्यति।

प्रयोगशालया सह प्रारब्धायां डॉ. विष्णु श्रीधर वाकणकर-वीथिकायां तस्य जीवनस्य पुरातात्त्विकयोगदानस्य च परिचयः प्रदर्शितः भविष्यति। अत्र तेन निर्मितानां चित्राणां प्रतिकृतयः, प्रकाशितानि पुस्तकानि, अनुसन्धानसाहित्यं तथा च भारतीयकलाभवनम्, उज्जयिनीतः प्रकाशिताः सामग्रीः स्थापिताः सन्ति।

पद्मश्रीपुरस्कृतः पुरातत्त्ववेत्ता डॉ. नारायण व्यासः अवदत् यत् डॉ. वाकणकरेण सह कार्यं कुर्वन् तेन सह सम्बद्धाः अनेकाः स्मृतयः सामग्रीश्च तेन सुरक्षिताः स्थापिताः आसन्। तासु आदिमानवैः निर्मितानि लघूनि बृहन्ति च प्रस्तरनिर्मितानि उपकरणानि, हस्तकुठाराः, प्रस्तरच्छेदकानि तथा च प्रस्तरनिर्मिताः कुठाराः अपि सन्ति। एतानि वस्तूनि अपि वीथिकायां प्रदर्शितानि सन्ति। डॉ. व्यासस्य कथनानुसारं तेन डॉ. वाकणकरेण सह भीमबेटकायां भोपालनगरस्य समीपवर्तिषु क्षेत्रेषु च पुरातात्त्विकसर्वेक्षणं अनुसन्धानकार्यं च कृतम् आसीत्। वीथिकायाम् एतासां वस्तूनां स्थापनस्य उद्देश्यम् अस्ति यत् नवसन्ततिः डॉ. वाकणकरस्य कार्येण प्राचीनमानवसभ्यतायाः साक्ष्यैश्च परिचिता भवेत्।

अस्यां प्रयोगशालायां देशस्य विभिन्नेभ्यः भागेभ्यः नमूनानि आनीय तेषामपि परीक्षणं कारयितुं शक्यते। डॉ. नारायण व्यासस्य अनुसारं देशे एतादृश्यः प्रयोगशालाः पूर्वमपि विद्यमानाः सन्ति, किन्तु मध्यप्रदेशे अस्याः आरम्भः अनुसन्धानस्य दृष्ट्या महत्त्वपूर्णं सोपानम् अस्ति। भविष्ये अत्र कार्बन-कालनिर्धारण-प्रयोगशालायाः स्थापनायाः योजना अपि अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani