नेपालस्य प्रधानमन्त्रिणो बालेंद्रशाहस्य राष्ट्रपतिभवने औपचारिकं स्वागतम्।
नव दिल्ली, 23 नवंबरमासः (हि.स.)। नेपालस्य प्रधानमन्त्रिणो बालेंद्रशाहस्य अद्य अत्र राष्ट्रपतिभवने भव्यं औपचारिकं स्वागतं कृतम्। राष्ट्रपतिभवनं प्राप्ते सति प्रधानमन्त्री नरेन्द्रमोदी तस्य स्वागतं कुर्वन् अभ्यागतवान्। अस्मिन्नवसरे बालेंद्रशाहः राष
प्रधानमंत्री मोदी और नेपाल के प्रधानमंत्री एक-दूसरे से मुलाकात करते हुए।


नव दिल्ली, 23 नवंबरमासः (हि.स.)।

नेपालस्य प्रधानमन्त्रिणो बालेंद्रशाहस्य अद्य अत्र राष्ट्रपतिभवने भव्यं औपचारिकं स्वागतं कृतम्। राष्ट्रपतिभवनं प्राप्ते सति प्रधानमन्त्री नरेन्द्रमोदी तस्य स्वागतं कुर्वन् अभ्यागतवान्। अस्मिन्नवसरे बालेंद्रशाहः राष्ट्रपतिभवनस्य प्राङ्गणे आयोजितस्य सम्मानरक्षकदलस्य (गार्ड् ऑफ् ऑनर्) निरीक्षणं कृतवान्। अस्मिन् समये प्रधानमन्त्री मोदी अपि तेन सह उपस्थितः आसीत्।

स्वागतसमारोहानन्तरं प्रधानमन्त्री नरेन्द्रमोदी तथा नेपालस्य प्रधानमन्त्री बालेंद्रशाहः क्रमशः भारतीयप्रतिनिधिमण्डलस्य नेपालीप्रतिनिधिमण्डलस्य च सदस्यैः सह मिलितवन्तौ। अस्मिन्नवसरे शाहः राजघाटं प्राप्य राष्ट्रपितुः महात्मागान्धिनः समाधौ श्रद्धाञ्जलिम् अर्पितवान्।

बालेंद्रशाहः स्वकीयायाः प्रथमायाः भारतयात्रायाः कृते ह्यः नवदेहलीम् आगतवान्। उभे देशे स्वयोः समग्रद्विपक्षीयसम्बन्धान् नव्यरूपेण सुदृढीकर्तुं, ऊर्जा, सम्पर्कव्यवस्था, रेलमार्गः, आधारभूतसंरचना, प्रौद्योगिकी, मानवसंसाधनविकासः तथा जलवायुपरिवर्तनम् इत्यादिषु प्रमुखक्षेत्रेषु सहकारितां वर्धयितुं महत्त्वपूर्णान् समझौतान् कर्तुं च प्रयत्नशीलौ स्तः। षट्त्रिंशद्वर्षीयस्य बालेंद्रशाहस्य इयं प्रथमद्विपक्षीयविदेशयात्रा अपि अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह अद्य तस्य सम्भाव्यमानया वार्तया भविष्ये द्विपक्षीयसहकारितायाः रूपरेखा निर्धारिता भविष्यति तथा च सहकारितायाः नूतनाः मार्गाः उद्घाटिताः भविष्यन्तीति अपेक्षा अस्ति।

बालेंद्रशाहेन सह पञ्चत्रिंशत्सदस्यात्मकः उच्चस्तरीयः प्रतिनिधिमण्डलः अपि भारतम् आगतः अस्ति। अस्याः यात्रायाः अवधौ नेपाल-भारतव्यापारमञ्चस्य अपि आयोजनं भविष्यति। भारत-नेपालयोः मध्ये मुक्तसीमा, परस्परविश्वासः, साझा परम्पराः तथा जनानां मध्ये गाढसम्बन्धाः इत्येतैः आधारिताः विशिष्टाः व्यापकाः सम्बन्धाः सन्ति। विभिन्नक्षेत्रेषु सहकारितां प्रवर्धयितुं द्वयोः देशयोः मध्ये चत्वारिंशदधिकाः द्विपक्षीयसंस्थागततन्त्राणि कार्यं कुर्वन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani