Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 23 नवंबरमासः (हि.स.)।
उपराष्ट्रपतिना सी.पी. राधाकृष्णनेन, प्रधानमन्त्रिणा नरेन्द्रमोदिना, रक्षामन्त्रिणा राजनाथसिंहेन च सह अनेकेभिः नेतृभिः सोमवासरे लोकसभाध्यक्षस्य ओमबिरलावर्यस्य जन्मदिवसावसरे हार्दिक्यः शुभकामनाः प्रदत्ताः।
उपराष्ट्रपतिना एक्स् माध्यमे लिखितं यत् संसदीयलोकतन्त्रस्य सुदृढीकरणे, संसदीयसंस्थानां गरिमायाः संरक्षणे तथा लोकसभायाः कार्यसञ्चालनं प्रभावीरूपेण सुनिश्चित्य ओमबिरलावर्यस्य योगदानं प्रशंसनीयम् अस्ति। ईश्वरः तेभ्यः उत्तमं स्वास्थ्यं, सुखं तथा राष्ट्रसेवायां निरन्तरसफलतां च प्रददातु। अहं तेषां दीर्घायुषः सुखमयजीवनस्य च कामनां करोमि।
प्रधानमन्त्रिणा मोदीना उक्तं यत् ओमबिरलावर्यस्य मिलनसारः स्वभावः तथा संविधानस्य गहनम् अवगमनं सदनस्य सुचारुसञ्चालने महत्त्वपूर्णां भूमिकां निर्वहतः। लोकतान्त्रिकमूल्यानां संरक्षणं प्रति तेषां दृढा प्रतिबद्धता सर्वान् प्रेरयति। ईश्वरः तेभ्यः दीर्घायुः प्रददातु तथा सदैव स्वस्थं रक्षतु।
राजनाथसिंहेन उक्तं यत् संसदीयपरम्पराणां संरक्षणे लोकतान्त्रिकसंस्थानां सुदृढीकरणे च ओमबिरलावर्यस्य अखण्डा प्रतिबद्धता भारतस्य संसदीययात्रां निरन्तरं समृद्धां कुर्वती अस्ति।
केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहेन उक्तं यत् स्वकीयेन व्यापकानुभवेन सूक्ष्मबुद्ध्या च भवान् (ओमबिरला) सदनस्य कार्यवाहीं सार्थकां दिशं प्रदातुं लोकतान्त्रिकमूल्यानां संसदीयपरम्पराणां च सुदृढीकरणे महत्त्वपूर्णां भूमिकां निर्वहति।
विदेशमन्त्रिणा डॉ. एस्. जयशङ्करेण उक्तं यत् भवतः (बिरला) कुशलनेतृत्वे विभिन्नदेशानां संसद्भिः सह संवादस्य आदानप्रदानस्य च नूतना गतिः प्राप्ता, येन वैश्विकमञ्चे भारतस्य प्रतिष्ठा स्थितिश्च अधिकं सुदृढा अभवत्।
केन्द्रीयकृषिमन्त्रिणा कृषककल्याणमन्त्रिणा च शिवराजसिंहचौहानेन उक्तं यत् भवान् सरलस्वभावः सहजव्यक्तित्वयुक्तश्च अस्ति। लोकसभाध्यक्षरूपेण भवतः नेतृत्वं भारतस्य लोकतान्त्रिकसंसदीयपरम्पराश्च निरन्तरं सुदृढाः कुर्वन्ति।
केन्द्रीयसंस्कृतिपर्यटनमन्त्रिणा गजेन्द्रसिंहशेखावतेन उक्तं यत् ओमबिरलावर्यस्य शान्तं मिलनसारं व्यक्तित्वं जनान् सहजताम् अनुभवितुं प्रेरयति। भवता सह समयव्यतीतः सुखदः भवति। ईश्वरः भवन्तं सर्वदा सुखिनं स्वस्थं च करोतु।
केन्द्रीयसंसदीयकार्यमन्त्रिणा अल्पसंख्यककार्यमन्त्रिणा च किरेनरिजिजुना तथा केन्द्रीयवस्त्रोद्योगमन्त्रिणा गिरिराजसिंहेन अपि ओमबिरलावर्याय जन्मदिवसस्य हार्दिक्यः शुभकामनाः प्रदत्ताः।
---------------
Hindusthan Samachar / Dheeraj Maithani