Enter your Email Address to subscribe to our newsletters

लखनऊ, 23 नवंबरमासः (हि.स.)।उत्तरप्रदेशसर्वकारः विद्यार्थिनः लोकतान्त्रिकपरम्पराभिः संविधाननिर्माणस्य गौरवशालिन्या यात्रया च सह संयोजयितुं विशेषम् उपक्रमं कुर्वती अस्ति। अस्यैव क्रमे प्रदेशस्य सर्वेषु परिषद्विद्यालयेषु माध्यमिकविद्यालयेषु च संविधानदिवसे नवम्बरमासस्य षड्विंशतितमे दिनाङ्के विशेषाः कार्यक्रमाः आयोजयिष्यन्ते। विद्यार्थिनः शिक्षकाः च संविधानस्य प्रस्तावनायाः सामूहिकं वाचनं करिष्यन्ति, संविधानसभायाः सदस्यैः तेषां योगदानैश्च परिचिताः भविष्यन्ति तथा पोस्टरनिर्माणम्, चित्रकला, पुस्तकचिह्ननिर्माणम्, बैज निर्माणम्, कोलाज निर्माणम् इत्यादीनां सृजनात्मकगतिविधीनां माध्यमेन संविधानस्य विचारान् अभिव्यक्तं करिष्यन्ति।
अस्य उपक्रमस्य माध्यमेन योगी-सर्वकारः विद्यालयान् संवैधानिकचेतनायाः लोकतान्त्रिकमूल्यानां च विकासस्य सशक्तकेन्द्ररूपेण निर्मातुं प्रयतते। उद्देश्यं वर्तते यत् विद्यार्थिनः संविधानम् अधीयीरन्, तस्य आदर्शान् अवगच्छेयुः, तान् सम्मानयेयुः तथा स्वव्यवहारे जीवने च तान् आत्मसात्कर्तुं प्रेरिताः भवेयुः।
महानिदेशिका, विद्यालयशिक्षा मोनिका रानी अवदत् यत्, “संविधानदिवसः विद्यार्थिनः देशस्य संवैधानिकमूल्यैः लोकतान्त्रिकादर्शैश्च संयोजयितुं महत्त्वपूर्णः अवसरः अस्ति। विद्यालयेषु प्रस्तावनायाः सामूहिकवाचनस्य सृजनात्मकगतिविधीनां च माध्यमेन बालकेषु संविधानं प्रति सम्मानस्य, अधिकाराणां कर्तव्यानां च बोधस्य तथा उत्तरदायिनागरिकत्वस्य भावनायाः विकासः क्रियते।”
प्रस्तावनायाः सामूहिकवाचनेन संवैधानिकमूल्यानां शुभारम्भः भविष्यति
संविधानदिवसस्य अवसरे विद्यालयेषु प्रातःकालीनायाः प्रार्थनासभायाः विशेषव्यवस्था क्रियते। अस्यां सभायां शिक्षकाः विद्यार्थिनश्च एकत्र मिलित्वा संविधानस्य प्रस्तावनायाः वाचनं करिष्यन्ति। अस्याः गतिविधेः माध्यमेन बालकाः संविधानस्य मूलोद्देश्यैः तत्र निहितैः आदर्शैश्च परिचिताः भविष्यन्ति। ते एतदवगन्तुं अवसरं प्राप्स्यन्ति यत् न्यायः, स्वतन्त्रता, समता, बन्धुता च भारतीयलोकतन्त्रस्य आधारशिलाः सन्ति तथा प्रत्येकस्य नागरिकस्य जीवने एतेषां मूल्यानां विशेषं महत्त्वम् अस्ति।
संविधाननिर्माणस्य ऐतिहासिकयात्रया परिचिताः भविष्यन्ति विद्यार्थिनः
विद्यालयेषु संविधाननिर्माणस्य प्रक्रिया, संविधानसभायाः भूमिका, तस्याः सदस्याणां योगदानं च अधिकृत्य परिचर्चाः अन्याः शैक्षिकगतिविधयश्च आयोजयिष्यन्ते। विद्यार्थिभ्यः संविधाननिर्माणसम्बद्धानां ऐतिहासिकतथ्यानां महत्त्वपूर्णप्रसङ्गानां च सूचना प्रदास्यते। अस्य उद्देश्यं नवसन्ततिं संविधाननिर्माणस्य पृष्ठतः स्थितया विचारधारया, लोकतान्त्रिकविमर्शेन सामूहिकप्रयासैश्च परिचितां कारयितुम् अस्ति।
सृजनात्मकगतिविधिषु बालकानां संवैधानिकबोधः अभिव्यक्तः भविष्यति
संविधानदिवसं विद्यार्थिभ्यः रोचकं सहभागितापूर्णं च कर्तुम् उद्दिश्य पोस्टरनिर्माणम्, चित्रकला, पुस्तकचिह्ननिर्माणम्, बैज निर्माणम्, कोलाज निर्माणम् इत्यादयः गतिविधयः कारयिष्यन्ते। एतासां गतिविधीनां माध्यमेन बालकाः संविधानस्य मूलसिद्धान्तान्, नागरिकाधिकारान्, कर्तव्यानि, राष्ट्रियमूल्यानि च स्वकीयया सृजनात्मकाभिव्यक्त्या प्रस्तुतं करिष्यन्ति। अनेन तेषु विषयावबोधनस्य, विचाराभिव्यक्तेः सामूहिककार्यकरणस्य च क्षमता अपि विकसिताः भविष्यन्ति।
अधिकारैः सह कर्तव्यबोधस्य विकासे बलम्
संविधानदिवसस्य आयोजनानां महत्त्वपूर्णम् उद्देश्यम् अस्ति यत् विद्यार्थिनः स्वकीयाधिकारैः सह नागरिककर्तव्येष्वपि जागरूकाः भवेयुः। बालकेभ्यः लोकतान्त्रिकव्यवस्थायाः, सामाजिकसमरसतायाः, विविधतायाम् एकतायाः तथा राष्ट्रस्य एकतायाः अखण्डतायाश्च महत्त्वं बोधयिष्यते। विद्यालयस्तरे आयोज्यमानाः गतिविधयः तेभ्यः उत्तरदायिनागरिकत्वं स्वीकर्तुं प्रेरणां प्रदास्यन्ति।
Hindusthan Samachar / Dheeraj Maithani