Enter your Email Address to subscribe to our newsletters

अजमेरम्, २३ नवम्बरमासः (हि.स.)। अन्ताराष्ट्रियपुष्करमेलापके सोमवासरे श्रद्धायाः, संस्कृतेः, रोमाञ्चस्य मनो-रञ्जनस्य च विविधाः छटाः एकत्र दृष्टाः। ब्रह्मचतुर्दश्याः पावनावसरे यत्र पुष्कर-सरोवरस्य सप्तर्षिघाटसहितेषु विभिन्न-घट्टेषु साधुसन्तैः शाहीस्नानं कृत्वा लोककल्याणस्य समृद्धेः च कामना कृता, तत्रैव मेलाङ्गणे देशीयैः विदेशीयैश्च पर्यटकैः क्रिकेटक्रीडायां चतुष्काणि षट्काणि च प्रहार्य दर्शकानां करताडनानि प्राप्तानि। अस्मिन्नेव क्रमे महाराष्ट्रस्य ठाणेनगरात् आगता केवलं द्वौ पादौ उन्नतिः यस्याः सा ‘पिंकी’ नाम्नी महिषी अपि पर्यटकानाम् आकर्षणस्य केन्द्रं वर्तते।
प्रातःकालादेव पुष्करसरोवरस्य घाटेषु धार्मिकं वातावरणं विराजितम् आसीत्। विभिन्नमठेभ्यः, आश्रमेभ्यः, मन्दिरेभ्यश्च आगतैः साधुसन्तैः विधिविधानपूर्वकं शाहीस्नानं कृतम्। सन्तैः सरोवरे श्रद्धया स्नानं कृत्वा देशविदेशेषु शान्तेः, भ्रातृत्वस्य, समृद्धेश्च कामना कृता। सन्तैः श्रद्धालुभ्यः तीर्थस्य मर्यादां संरक्षितुं, सरोवरं स्वच्छं स्थापयितुं, मादकद्रव्येभ्यः प्लास्टिक-वस्तुभ्यश्च दूरे स्थातुं तथा मातापित्रोः सेवायाः, गोसेवायाः, पर्यावरणसंरक्षणस्य च सन्देशः अपि प्रदत्तः। तीर्थपुरोहितानाम् अनुसारं पुष्करस्य पवित्रसरोवरस्य जलं नारायणस्वरूपं मन्यते। कार्तिकमासे आयोज्यमानस्य पञ्चतीर्थमहास्नानस्य विशेषं धार्मिकं महत्त्वम् अस्ति।
ब्रह्मचतुर्दश्यां सन्तानां शाहीस्नाना-नन्तरम् अधुना मङ्गलवासरे कार्तिक-पूर्णिमायाः अवसरे अन्तिमं महास्नानं भविष्यति। धार्मिकवातावरणस्य मध्ये मेलाङ्गणे मनोरञ्जनस्य कार्यक्रमाः अपि आकर्षणस्य केन्द्रम् अभवन्। अत्र देशीयविदेशीयपर्यटकानां मध्ये ‘लगान’ चलचित्रस्य शैलीम् अनुसृत्य क्रिकेटप्रतियोगिता आयोजिता। विदेशीय-पर्यटकाः अपि हस्ते कन्दुकताडनदण्डं गृहीत्वा क्रीडाङ्गणे अवतीर्णाः तथा च चतुष्काणि षट्काणि च प्रहृत्य दर्शकानां मनोरञ्जनम् अकुर्वन्। तथापि विदेशीय-क्रीडकानां प्रतियोगितायां सहभागितायै पर्यटनविभागेन बहु प्रयासः कर्तव्यः अभवत्, येन क्रीडाङ्गणे विदेशीय-क्रीडकानां सङ्ख्या सीमिता एव आसीत्।
पुष्करपशुमेलायां यत्र विशालाः आकर्षकाः पशवः सर्वदा जनानाम् आकर्षणस्य केन्द्रं भवन्ति, तत्र अस्मिन् वर्षे केवलं द्विपादपरिमितोन्नतिः ‘पिंकी’ नाम्नी महिषी सर्वान् विस्मितवती। महाराष्ट्रस्य ठाणे-नगरात् आगतां पिंकीं द्रष्टुं देशीयविदेशीयपर्यटकानां समूहः समागच्छति। जनाः तया सह छायाचित्राणि स्वचित्राणि च गृह्णन्ति। पशुपालकस्य कथनानुसारं पिंकी इत्यस्याः लघुकायता जन्मजातम् अस्ति तथा च तस्याः मातुः उन्नतिरपि प्रायः त्रिपादपरिमिता आसीत्। स्वामी दावं करोति यत् पिंकी विश्वस्य लघुतमा महिषी अस्ति तथा च स्वस्य असाधारणकायाकृतेः कारणात् पूर्वम् अपि चर्चायाम् आसीत्।
मेलायां राजस्थानकुश्तीसंघस्य पक्षतः मल्लयुद्धप्रतियोगिता अपि आयोजिता। ब्यावर-किशनगढसहितेभ्यः राजस्थानस्य विभिन्नक्षेत्रेभ्यः आगतैः मल्लैः अखाडे विविधाः मल्लयुद्धकौशलयुक्ताः क्रियाः प्रदर्शिताः। विशेषता एषा आसीत् यत् विदेशीयपर्यटकाः अपि मल्लयुद्धक्षेत्रे अवतीर्य स्वबलस्य प्रदर्शनम् अकुर्वन्। देशीयविदेशीयमल्लानां मध्ये अभवन् स्पर्धाः दर्शकानाम् विशेषाकर्षणस्य केन्द्रम् अभवन्।
मेलायाः सायंकालः अपि विशेषः भविष्यति। राजस्थानीलोकगायकः स्वरूपखानः लोककलाकारैः सह मेलाङ्गणस्य मञ्चे स्वीयां प्रस्तुतिं दास्यति। तस्य गायने माङ्गणियारसङ्गीतपरम्परायाः, राजस्थानीलोकसङ्गीतस्य, सूफीशैल्याः लोकप्रियधुनानां च सङ्गमः द्रष्टुं श्रोतुं च शक्यते।
तस्य प्रस्तुति: पर्यटकानां कृते मेलायाः सायंकालस्य प्रमुखम् आकर्षणं भविष्यति। कार्तिकपूर्णिमायाः पूर्वसन्ध्यायां सोमवासरे सायंकाले जयपुरघाटे भव्यः महारार्तिकी-कार्यक्रमः आयोजयिष्यते। सप्तमञ्चेभ्यः एकस्मिन्नेव काले आयोज्यमानायाम् आरत्यां सम्पूर्णः घाटः दीपैः धार्मिकमन्त्रैश्च देदीप्यमानः भविष्यति। अस्याः आरत्याः पूर्वं तीर्थपुरोहितैः ब्रह्मसरोवरस्य दुग्धाभिषेकः पूजनं च करिष्यते।
पुष्करमेलायाः धार्मिकसमापनं मङ्गल-वासरे कार्तिकपूर्णिमायाः अवसरे आयोज्यमानेन पञ्चतीर्थस्य अन्तिम-महास्नानेन सह भविष्यति। तदनन्तरं मेलाक्रीडाङ्गणे समापन-समारोहः पुर-स्कारवितरणकार्यक्रमश्च आयोजयिष्यते।
समारोहे राजस्थानीलोककलाकाराः सांस्कृतिककार्यक्रमान् प्रस्तोष्यन्ति। देशीयविदेशीयपर्यटकानां मध्ये रज्ज्वाकर्षणं, घटधावनम् इत्यादयः अनेकाः रोचकाः प्रतियोगिताः अपि आकर्षणस्य केन्द्रं भविष्यन्ति।
पशुमेलायां रविवासरपर्यन्तं कुलम् १०,०८८ पशूनाम् आगमनं पञ्जीकृतम्, येषु ७०४ पशूनां विक्रयः सम्पन्नः। एतेषां विक्रयेन प्रायः ४ कोटि ४९ लक्ष ७२ सहस्र ५०० रूप्यकाणां व्यापारः अभवत्। रविवासरे मेलापके नूतनः कोऽपि पशुः नागतः, यदा तु षण्णां पशूनां विक्रयः अभवत्। अधुना मेलापकस्य अन्तिमचरणे पशुव्यापारस्य गतिः अपि मन्दीभूता अस्ति।
Hindusthan Samachar / Divya Ranjan