Enter your Email Address to subscribe to our newsletters

सारणम्, 23 नवंबरमासः (हि.स.)।
विश्वप्रसिद्ध हरिहरक्षेत्रसोनपुरमेलायां २०२६ तमे वर्षे कलासंस्कृतिविभागस्य पक्षतः सांस्कृतिकसन्ध्यानाम् आयोजनं क्रियते। एतेषां कार्यक्रमाणां माध्यमेन स्थानीयकलाकाराः स्वप्रतिभां प्रदर्शयिष्यन्ति। निर्धारितकार्यक्रमानुसारम् अद्य दरभङ्गायाः अमरशौर्यः भजनानि सुगमसङ्गीतं च, मुंगेरस्य अमितजीत आनन्दः गजल्गायनं तथा पूर्वक्षेत्रीयसांस्कृतिककेन्द्रस्य कलाकाराः लोकनृत्यं च प्रस्तुतं करिष्यन्ति।
२६ नवम्बर् दिनाङ्के पटनायाः प्रीतिकुमारी शास्त्रीयनृत्यं, उमाभारतीदासः लोकगायनं, महादेवसङ्गीतकलाकेन्द्रं सोनीकलाकेन्द्रं च लोकनृत्यस्य प्रस्तुतिं करिष्यतः।
२७ नवम्बर् दिनाङ्के अर्जुनकुमारचौधरी ‘रिदम ऑफ बिहार’ इत्यस्य वाद्यवादनं, शेखपुरायाः रियाचौधरी शास्त्रीयसुगमसङ्गीतं, कञ्चनपार्वती सुगमसङ्गीतं तथा सुरागिनी लोकनृत्यं च प्रस्तुतं करिष्यन्ति।
२ दिसम्बर् दिनाङ्के डॉ. सुष्मिताझा तथा कुमारी अभिलाषा शास्त्रीयगायनं, विष्णुकुमारथापा वाद्यवादनं तथा अमितसिंह एमपी सूफीगायनं च प्रस्तुतं करिष्यन्ति।
जिलाप्रशासनेन आगन्तुकाः कार्यक्रमेषु सम्मिलिताः भूत्वा कलाकाराणाम् उत्साहवर्धनं कुर्वन्तु इति आग्रहः कृतः।
---------------
Hindusthan Samachar / Dheeraj Maithani