Enter your Email Address to subscribe to our newsletters

शङ्घाई, २३ नवम्बरमासः (हि.स.)। पुर्तगालस्य प्रख्यातः फुटबॉलक्रीडकः क्रिस्टियानो रोनाल्डो इत्यस्मै समर्पितं संग्रहालयं नवम्बरमासस्य २१ दिनाङ्के शङ्घाईनगरे उद्घाटितम्। चीनस्य मुख्यभूमौ एतत् स्वप्रकारस्य प्रथमं संग्रहालयम् अस्ति, यत्र रोनाल्डो इत्यस्य क्रीडाजीवनं उपलब्धयश्च प्रदर्शिताः सन्ति।
सीआर७ संग्रहालयं शङ्घाई-नम्बर-१ शॉपिङ्ग्-केन्द्रे प्रायः ३,००० वर्गमीटर क्षेत्रफलस्य विस्तारे निर्मितम् अस्ति। संग्रहालयस्य बहिः रोनाल्डो इत्यस्य प्रसिद्धस्य ‘सिउ’ गोल-उत्सवमुद्रायां सप्तमीटर-उन्नता प्रतिमा स्थापिता अस्ति। एषा पुर्तगाली फुटबॉलक्रीडकस्य विश्वस्य सर्वाधिक-उन्नता पूर्णाकारप्रतिमा इति वर्णिता अस्ति।
संग्रहालयस्य अन्तः स्थापितायां प्रदर्शिनीं रोनाल्डो इत्यस्य बाल्यकालात् आरभ्य अन्ताराष्ट्रियफुटबॉलक्षेत्रे सुपरस्टाररूपेण प्रसिद्धिप्राप्तिपर्यन्तं जीवनयात्रा प्रदर्शिता अस्ति। प्रदर्शनीस्य एकस्मिन् भागे लिस्बननगरे स्पोर्टिङ्ग सीपी-दलस्य कृते क्रीडन् युवा-क्रीडकः रोनाल्डो यस्मिन् छात्रावासकक्षे निवसति स्म, तस्य पुनर्निर्माणं कृतम् अस्ति। तत्र गुलाबीवर्णीयवस्त्राच्छादितं शय्या तथा भित्तौ लिखितः सन्देशः तस्य स्वप्नस्य स्मरणं कारयतः, यस्मिन् सः उक्तवान् आसीत्—‘एकदा अहं विश्वस्य सर्वश्रेष्ठः सप्ताङ्कधारी क्रीडकः भविष्यामि।’
संग्रहालये सभाकक्षः, विभिन्न-क्रीडादलानां वस्त्रपरिवर्तनकक्षाः तथा सऊदी-अरबस्य अल-नासर्-दलस्य क्रीडकानां सुरङ्गमार्गः इत्यादीनां स्थानानां प्रतिकृतयः अपि निर्मिताः सन्ति।
अत्र पञ्चाशदधिकानि वस्तूनि प्रदर्शितानि सन्ति। तेषु पुरस्काराः, क्रीडावस्त्राणि तथा फुटबॉल-क्रीडायाः पादत्राणानि च सन्ति, यानि रोनाल्डो इत्यस्य जन्मस्थानात् मदीरातः शङ्घाईनगरम् आनीतानि सन्ति। एतेषु बहूनि वस्तूनि प्रथमवारं चीनस्य मुख्यभूमौ प्रदर्शितानि सन्ति।
प्रदर्शनीस्य प्रमुखाकर्षणेषु रोनाल्डो इत्यस्य २००८ तमवर्षस्य बैलन् डी’ओर् पुरस्कारः, यूरोपीय-चैम्पियनशिप्-प्रतियोगितायाः पुरस्कारः तथा एकस्मिन् क्रीडायां धृतानि फुटबॉल-पादत्राणानि च सन्ति। संग्रहस्य अन्तर्गतं रियल-माद्रिद्-दलस्य कृते तस्य ३५० तमगोलस्य स्मरणार्थं निर्मितं क्रीडावस्त्रम् अपि स्थापितम् अस्ति। अस्मिन् प्रशिक्षकस्य जिनेदिन-जिदानस्य तथा सम्पूर्णदलस्य हस्ताक्षराणि सन्ति। रोनाल्डो इत्यनेन शङ्घाईस्थितस्य अस्य संग्रहालयस्य कृते अपि एकस्मिन् क्रीडावस्त्रे हस्ताक्षरं कृतम् अस्ति।
संग्रहालये गोलरक्षणस्य एकः अन्तःक्रियात्मकः अभ्यासः अपि आयोजितः अस्ति। अस्मिन् आगन्तुकाः २०१८ तमवर्षे युवेन्टस्-दलस्य विरुद्धं रोनाल्डो इत्यनेन कृतस्य प्रसिद्धस्य ऊर्ध्वपादप्रहारस्य प्रेरणया निर्मितं आभासिकप्रहारं रक्षित्वा स्वप्रतिक्रियाक्षमतां परीक्षितुं शक्नुवन्ति। तस्यां स्पर्धायां गोल इति कर्तुं रोनाल्डो २.३८ मीटर् उन्नतिं प्रति उत्प्लुतवान् आसीत्। कथितम् अस्ति यत् तस्य मूलप्रहारस्य वेगः ७१.३ किलोमीटर प्रतिहोरा आसीत्, यदा तु संग्रहालयस्य अस्मिन् अभ्यासे प्रयुक्तस्य आभासिक-प्रहारस्य वेगः २८.१ किलोमीटर प्रतिहोरा निर्धारिता अस्ति।
शॉपिङ्ग्-केन्द्रस्य संचालनं कुर्वतः बैलियन-समूहस्य कृते एतत् संग्रहालयं खुदरा-वाणिज्यं सांस्कृतिकानुभवैः, पर्यटनैः तथा क्रीडानुभवैः सह संयोजयितुं कृतः अन्यः प्रयासः अस्ति। अस्मिन् वर्षे समूहस्य अन्येषु प्रयासेषु विश्वकप-विषयाधारितः उत्सवः अपि आयोजितः आसीत्।
Hindusthan Samachar / Divya Ranjan