(अद्यतनम्) उज्जयिनी: महाकालमन्दिरे भस्मारत्यां साकारम् अभवत् हरिहरमिलनस्य अलौकिकं दृश्यम्।
अर्धरात्रौ गोपालमन्दिरं प्राप्तवान् महाकालः, विष्णवे सृष्टिसञ्चालनस्य दायित्वम् अर्पितवान्, प्रातः वैष्णवतिलकं धृत्वा दत्तवान् दर्शनम् उज्जयिनी, २३ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां वैकुण्ठचतुर्दश्याः पावनावसरे श्रद्धायाः परम्परायाश्
बाबा महाकाल का भस्म आरती में हुआ श्रृंगार


बाबा महाकाल की भस्म आरती


उज्जैन में गोपाल मंदिर में हुआ हरि-हर मिलन का अद्भुत दृश्य


गोपाल मंदिर जाते हुए महाकाल की सवारी


- अर्धरात्रौ गोपालमन्दिरं प्राप्तवान् महाकालः, विष्णवे सृष्टिसञ्चालनस्य दायित्वम् अर्पितवान्, प्रातः वैष्णवतिलकं धृत्वा दत्तवान् दर्शनम्

उज्जयिनी, २३ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां वैकुण्ठचतुर्दश्याः पावनावसरे श्रद्धायाः परम्परायाश्च अद्भुतः समन्वयः दृष्टः। रविवासरस्य अर्धरात्रौ देवाधिदेवः महादेवः शोभायात्रारूपेण गोपालमन्दिरं प्राप्य भगवान् श्रीकृष्णाय (श्रीहरये) सृष्टिसञ्चालनस्य दायित्वम् अर्पितवान्। सोमवासरे प्रातः महाकालमन्दिरस्य भस्मारत्यां भगवान् विष्णोः पूजनेन सह हरिहरमिलनस्य अलौकिकं दृश्यं साकारम् अभवत्। अस्मिन् अवसरे उपस्थिताः बहुसङ्ख्याकाः श्रद्धालवः दिव्यपरम्परायाः साक्षिणः अभवन्।

धर्मनगरी उज्जयिन्यां रविवासरस्य रात्रौ वैकुण्ठचतुर्दश्यां हरिहरयोः मिलनस्य अनूठा परम्परा निर्वाहिता। महाकालमन्दिरात् रविवासरे रात्रौ एकादशवादने बाबा महाकालः श्रीमन्महेशस्वरूपेण रजतपालक्यां विराजमानः सन् महाकालचौराहं, गुदरीचौराहं तथा पटनीबाजारमार्गेण गोपालमन्दिरं प्राप्तवान्। सम्पूर्णे शोभायात्रामार्गे श्रद्धालवः पुष्पवृष्टिं कृत्वा भगवतः स्वागतं कृतवन्तः। भगवतः आगमनात् पूर्वमेव जनाः मार्गेषु पुष्पाणि प्रसार्य तस्य प्रतीक्षां कुर्वन्तः दृष्टाः। आतिशबाजी निषिद्धा आसीत्, तथापि अनेकस्थानेषु बहुसङ्ख्यया स्फोटकानि विस्फोटितानि। प्रशासनं हिंगोटयुक्तेषु स्फोटकेषु प्रतिबन्धम् आरोपितवत्। सुरक्षाव्यवस्थायै सम्पूर्णमार्गे बहुसङ्ख्यकाः आरक्षिबलस्य सदस्याः नियोजिताः आसन्।

बाबा महाकालस्य शोभायात्रा रात्रौ द्वादशवादने गोपालमन्दिरं प्राप्ता। अत्र भगवान् द्वारकाधीशस्य बाबा महाकालस्य च हरिहरमिलनम् अभवत्। शासकीयपुरोहितस्य घनश्यामशर्मणः आचार्यत्वे वैदिकमन्त्राणां घोषमध्ये उभयोः देवयोः विधिवत् पूजनम् अर्चनं च कृतम्। परम्परानुसारं भगवान् महाकालः बिल्वपत्रमालां भगवान् विष्णवे समर्पितवान्, अपरतः भगवान् द्वारकाधीशः तुलसीमालां महाकालाय धारितवान्। अनेन चतुर्मासपर्यन्तं भगवान् शिवस्य समीपे स्थितस्य सृष्टिसञ्चालनस्य दायित्वस्य पुनः भगवान् विष्णवे समर्पणस्य प्रतीकात्मकः विधिः सम्पन्नः।

तुलसीबिल्वपत्रमालाभ्यां दायित्वस्य हस्तान्तरणम्

गोपालमन्दिरे भगवान् महाकालस्य भगवान् द्वारकाधीशस्य च दुग्धेन, दध्ना, घृतेन, मधुना, शर्करया च पञ्चामृताभिषेकः कृतः। ततः वैदिकमन्त्राणां घोषमध्ये भगवान् विष्णोः प्रियायाः तुलसीमालायाः महाकालाय तथा भगवान् शिवस्य प्रियायाः बिल्वपत्रमालायाः भगवान् द्वारकाधीशाय समर्पणं कृतम्। उभाभ्यां देवाभ्यां विशेषनैवेद्यमपि समर्पितम्। धार्मिकमान्यतानुसारं मालानाम् एषः विनिमयः सृष्टिसञ्चालनस्य दायित्वम् अन्यस्मै समर्पयितुं प्रतीकः मन्यते।

पूजनानन्तरं शोभायात्रा तेनैव मार्गेण पुनः महाकालेश्वरमन्दिरं प्रत्यागता। अस्यां शोभायात्रायां मन्दिरप्रबन्धसमितेः अध्यक्षः तथा जिलाधिकारी रोशन कुमार सिंह, प्रशासकः प्रथम कौशिक, आरक्षी अधीक्षकः प्रदीप शर्मा, मन्दिरस्य पुजारिणः पुरोहिताः, महाकालवाद्यवृन्दं तथा सुरक्षाबलस्य सैनिकाः सम्मिलिताः अभवन्।

भस्मारत्यामपि हरिहरमिलनम्, महाकालेन धृतं वैष्णवतिलकम्

रात्रौ भगवान् विष्णवे सृष्टेः कार्यभारं समर्प्य प्रातः महाकालेश्वरमन्दिरस्य नित्यभस्मारत्यामपि हरिहरमिलनस्य दिव्यं स्वरूपं दृष्टम्। अस्मिन् समये बाबा महाकालेन सह भगवान् श्रीहरिविष्णोः विशेषपूजनम् आरतिः च कृता। अस्मिन्नवसरे बाबा महाकालस्य विशेषशृङ्गारः कृतः। तेन ललाटे वैष्णवतिलकं (विष्णुतिलकं) धृतम् तथा कण्ठे तुलसीमाला अपि धारिता। ततः भस्मना अलङ्कृतः सन् भक्तेभ्यः दर्शनं दत्तवान्।

चतुर्मासपर्यन्तं महाकालः वहति सृष्टेः भारम्

पौराणिकमान्यतानुसारं देवशयनीएकादश्यां भगवान् विष्णुः योगनिद्रां प्रविशति। ततः चतुर्मासपर्यन्तं सृष्टिसञ्चालनस्य दायित्वं भगवान् शिवः निर्वहति। देवोत्थानीएकादश्यां भगवान् विष्णोः जागरणानन्तरं कार्तिकशुक्लचतुर्दश्याः रात्रौ भगवान् महाकालः गोपालमन्दिरं प्राप्य तस्मै सृष्टिसञ्चालनस्य दायित्वं समर्पयति। एषा एव परम्परा हरिहरमिलनम् इति कथ्यते। उज्जयिन्यां प्रतिवर्षम् एकवारं आयोज्यमानम् एतत् आयोजनं द्रष्टुं बहुसङ्ख्याकाः श्रद्धालवः आगच्छन्ति।

गोपालमन्दिरस्य पुजारी मधुरशर्मा अवदत् यत् हरिहरमिलनम् उज्जयिन्याः वर्षाणां पुरातनी अद्भुता च परम्परा अस्ति। एतत् नगरस्य प्रमुखेषु धार्मिक आयोजनेषु अन्यतमम् अस्ति। भगवान् महाकालः रजतपालक्यां विराजमानः सन् भगवान् द्वारकाधीशस्य प्राङ्गणं प्राप्तवान्। भगवान् श्रीहरिः तस्य स्नेहपूर्वकं स्वागतं कृतवान् तथा च स्वकीयां तुलसीमालां महाकालाय धारितवान्। अपरतः महाकालेन बिल्वपत्रमाला भग

वान् विष्णवे समर्पिता।

Hindusthan Samachar / Dheeraj Maithani