Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 23 नवंबरमासः (हि.स.)।उत्तराखण्डस्य पिथौरागढजनपदस्य धारचूलास्थिते छारछुमे काली-नद्याः उपरि निर्मितस्य भारत-नेपालयोः मोटरयानसेतोः प्रधानमन्त्री नरेन्द्रमोदी तथा नेपालस्य प्रधानमन्त्री बालेन्द्रशाहेन उद्घाटनं कृतम्। अस्मिन् अवसरे मुख्यमन्त्री पुष्करसिंहधामी प्रसन्नतां प्रकटितवान्। तेन एषा परियोजना उभयदेशयोः ऐतिहासिकमैत्रीसम्बन्धान् नवसुदृढतां प्रदातुं सीमावर्तिक्षेत्राणां विकासाय च गतिं प्रदातुं महत्त्वपूर्णा परियोजना इति वर्णिता।
मुख्यमन्त्री धामी अवदत् यत् अयं सेतुः केवलम् आवागमनस्य माध्यमं नास्ति, अपितु भारत-नेपालयोः शताब्दीप्राचीनस्य रोटी-बेटी-सम्बन्धस्य, सांस्कृतिकैकतायाः पारस्परिकविश्वासस्य च प्रतीकम् अस्ति। अनेन उभयदेशयोः सीमावर्तिक्षेत्राणां सम्पर्कः सुदृढः भविष्यति तथा च व्यापारस्य, पर्यटनस्य, सामाजिकसम्बन्धानां च संवर्धनं भविष्यति।
धामी अवदत् यत् तेन २०२२ तमवर्षस्य सितम्बरमासस्य १९ दिनाङ्के छारछुमे काली-नद्याः उपरि ११० मीटर् विस्तारयुक्तस्य द्विमार्गीयमोटरयानसेतोः शिलान्यासः कृतः आसीत्। अधुना अस्य सेतोः लोकार्पणं सीमावर्तिक्षेत्रस्य निवासिनां कृते हर्षस्य गौरवस्य च विषयः अस्ति। तेन उक्तं यत् सेतोः निर्माणेन सीमावर्तिक्षेत्राणां व्यापारिभ्यः, उद्यमिभ्यः, स्थानीयनिवासिभ्यश्च विशेषः लाभः भविष्यति। स्थानीयोत्पादानां विपणनस्य, व्यापारिकक्रियाकलापानां पर्यटनस्य च विस्ताराय सहैव रोजगारस्य स्वावलम्बनस्य च नवीनावसराः अपि उत्पद्यन्ते।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः सीमावर्तिक्षेत्रेषु मार्गाणां, सञ्चारस्य, स्वास्थ्यसेवायाः, शिक्षायाश्च आधारभूतसुविधानां विस्ताराय निरन्तरं कार्यं कुर्वन् अस्ति। प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे सीमावर्तिग्रामान् देशस्य प्रथमग्रामरूपेण विकसितुं महत्त्वपूर्णाः प्रयासाः अपि क्रियमाणाः सन्ति।
अस्याः परियोजनायाः लोकार्पणार्थं मुख्यमन्त्री प्रधानमन्त्रिणे कृतज्ञतां प्रकटयन् अवदत् यत् सुदृढाः सीमावर्तिक्षेत्राः एव सशक्तराष्ट्रस्य आधारशिलाः भवन्ति। छारछुमसेतुः भारत-नेपालमैत्रीं नवोन्नतिं प्रापयिष्यति तथा च सीमावर्तिक्षेत्रस्य आर्थिकसमृद्धेः मार्गमपि प्रशस्तं करिष्यति।
------------
Hindusthan Samachar / Dheeraj Maithani