Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्री योगी आदित्यनाथः ‘जनतादर्शने’ गोंडाजनपदात् आगताय अष्टमकक्षायाः छात्राय मार्गदर्शनं प्रदत्तवान्।
लखनऊ, २३ नवम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे ‘जनतादर्शने’ भिन्नरूपेण दृष्टः। तस्य समीपम् अष्टमकक्षायाः छात्रः प्रिन्सः क्रिकेटक्रीडायै आर्थिकसहायतां प्रशिक्षणं च प्राप्तुं प्रार्थनां कर्तुं प्राप्तवान्। मुख्यमन्त्री तस्य सम्पूर्णां वार्तां श्रुतवान्, ततः च प्रायः ४-५ निमेषपर्यन्तं तस्य समीपे स्थित्वा परामर्शं दत्तवान्। मुख्यमन्त्री अवदत्, “पुत्र! तव नाम प्रिन्स इति अस्ति, अतः सम्यक् अध्ययनं कृत्वा ‘प्रिन्स’ भव। वयं क्रिकेटप्रशिक्षणाय तव प्रवेशमपि कारयिष्यामः।”
सर्वैः सह मिलितवान् मुख्यमन्त्री, अधिकारिभ्यः अवदत्—समस्यानां समाधानं कारयन्तु
मुख्यमन्त्री ‘जनतादर्शने’ आसन्दिकासु उपविष्टानां सर्वेषां समीपं गतवान्। सः एकैकस्य प्रार्थनापत्रं स्वीकृतवान्, तेषां समस्याः च श्रुतवान्। ततः समीपे स्थितेभ्यः अधिकारिभ्यः आवश्यकानि निर्देशानि दत्तवान्। प्रार्थनापत्राणि सम्बन्धित-विभागेभ्यः प्रेषयन् सः निर्देशितवान् यत् सर्वासां समस्यानां समाधानं पूर्णसंवेदन-शीलतया, निर्धारितसमये, निष्पक्षतया, सन्तोषजनकरूपेण च करणीयम्।
यथेच्छं क्रीडन्तु, किन्तु अध्ययनमपि आवश्यकम्
गोंडाजनपदस्य इटियाथोकक्षेत्रान्तर्गतस्य पड़री पारासरायग्रामस्य निवासी प्रिन्ससाहू अष्टमकक्षायां पठति। सः सोमवासरे ‘जनतादर्शनम्’ आगतवान्। जनानां प्रार्थनाः शृण्वन् मुख्यमन्त्री प्रिन्सस्य समीपं प्राप्तवान्। बालकं दृष्ट्वा मुख्यमन्त्री तस्य आगमनस्य कारणम् अपृच्छत्। प्रिन्सः अवदत् यत् तस्य मनसि बाल्यकालादेव क्रिकेटक्रीडां प्रति महत् आकर्षणम् अस्ति। सः क्रिकेटक्रीडाक्षेत्रे ख्यातिं प्राप्तुम् इच्छति, किन्तु परिवारस्य दुर्बलायाः आर्थिकस्थितेः कारणात् शुल्कं दातुं क्रीडासामग्रीं च क्रेतुं न शक्नोति।
अस्यां स्थितौ मुख्यमन्त्री तस्य परामर्शं कृतवान्। सः अवदत्, “पुत्र! अधुना त्वम् अष्टमकक्षायां पठसि। क्रीडया सह एकाग्रतया अध्ययनमपि कुरु तथा च उत्तमैः अङ्कैः अस्य शैक्षणिकसत्रस्य परीक्षाम् उत्तीर्णः भव। ततः वयं क्रिकेटप्रशिक्षणकेन्द्रे तव प्रवेशं कारयिष्यामः।”
धनाभावात् चिकित्सा न स्थगिता भविष्यति
मुख्यमन्त्री समस्यां निवेदयितुं समागतान् जनान् अवदत् यत् चिन्ता मा कुरुत। सर्वासु समस्यासु सर्वकारः प्रभाविणीं कार्यवाहीं कारयिष्यति। आर्थिक-सहायतायाः याचनां कर्तुं समागतेभ्यः जनेभ्यः सः आश्वासनं दत्तवान् यत् धनाभावात् कस्यापि जनस्य चिकित्सा न स्थगिता भविष्यति। ये आवश्यकताग्रस्ताः सन्ति, तेषां चिकित्साव्ययस्य प्राक्कलन-पत्रं प्राप्तमात्रेण सर्वकारः तत्कालं धनराशिं प्रदास्यति।
सः आरक्षकविभागेन, राजस्वविभागेन, शिक्षाविभागेन, विद्युत्विभागेन च सम्बद्धानां समस्यानां प्रार्थनापत्राणि सम्बन्धितविभागेभ्यः प्रेष्य तेषां समाधानाय निर्देशान् दत्तवान्।
Hindusthan Samachar / Divya Ranjan