Enter your Email Address to subscribe to our newsletters


- मुख्यमन्त्री योगी आदित्यनाथः उत्तरप्रदेशस्य आरक्षकविभागस्य कर्म-चारिभ्यः तेषां परिजनेभ्यश्च ‘आरक्षक-ध्वजदिवसस्य’ शुभकामनाः अयच्छत्।
लखनऊ, २३ नवम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः उत्तरप्रदेशस्य सर्वेभ्यः आरक्षिभ्यः तेषां परिजनेभ्यश्च ‘आरक्षकध्वजदिवसस्य’ शुभकामनाः अयच्छत्। ‘आरक्षकध्वज-दिवसस्य’ अवसरे सोमवासरे आरक्षक-महानिदेशकः राजीवकृष्णः मुख्यमन्त्रिणः योगी आदित्यनाथस्य वक्षसि आरक्षकविभागस्य ध्वजचिह्नं स्थापितवान् तथा च स्मृतिचिह्नं प्रदत्तवान्।
अस्मिन् अवसरे मुख्यमन्त्री अवदत् यत् आरक्षकध्वजः कर्तव्यनिष्ठायाः, अदम्य-साहसस्य, अनुशासनस्य तथा जनसेवायाः अटूटसङ्कल्पस्य गौरवशाली प्रतीकः अस्ति। ‘आरक्षिध्वजदिवसः’ अस्माकं गौरवशालिनीं परम्परां, अनुशासनं, त्यागं तथा बलिदानस्य सङ्कल्पं च स्मारयति। उत्तरप्रदेशस्य सर्वेभ्यः कर्तव्यनिष्ठेभ्यः आरक्षक-कर्मचारिभ्यः तेषां परिजनेभ्यश्च ‘आरक्षिध्वजदिवसस्य’ हार्दिक्यः शुभकामनाश्च।
मुख्यमन्त्री योगी अवदत् यत् अयं ध्वजः प्रत्येकम् आरक्षकं सेवायाः समर्पणस्य च प्रेरणां ददाति तथा च सर्वेषां मनसि विश्वासस्य सुरक्षायाश्च भावं दृढीकरोति।
मुख्यमन्त्रिणः आवासे ध्वजचिह्न-स्थापनस्य अवसरे अपरमुख्यसचिवः सञ्जयप्रसादः, अपर-आरक्षक-महा-निदेशकः अमिताभयशः, भारतीय-आरक्षकसेवायाः अधिकारी सुनीलइ-मैनुएलः इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan