राज्ये गोवधस्य अनुमतिर्नास्ति, नूतनं विधेयकं प्रस्तूयते : शुभेन्दु अधिकारी
कोलकाता, 23 नवंबरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु अधिकारी सोमवासरे घोषणां कृतवान् यत् राज्ये गोवधस्य अनुमतिः न प्रदास्यते तथा च अस्मिन् विषये शीघ्रमेव नवीनं विधेयकं प्रस्तूय विधिः निर्मीयते। नबन्ना-भवने मन्त्रिमण्डलस्य उपवेशनानन
शुभेंदु अधिकारी


कोलकाता, 23 नवंबरमासः (हि.स.)।

पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु अधिकारी सोमवासरे घोषणां कृतवान् यत् राज्ये गोवधस्य अनुमतिः न प्रदास्यते तथा च अस्मिन् विषये शीघ्रमेव नवीनं विधेयकं प्रस्तूय विधिः निर्मीयते। नबन्ना-भवने मन्त्रिमण्डलस्य उपवेशनानन्तरं वार्ताहरैः सह सम्भाषणं कुर्वन् मुख्यमन्त्री इदमपि घोषितवान् यत् वृद्धगवां संरक्षणाय पालनपोषणाय च राज्यस्य गोशालाभ्यः प्रतिवर्षं एकलक्षरूप्यकाणाम् अनुदानं प्रदास्यते।

मन्त्रिमण्डलस्य उपवेशनानन्तरं शुभेन्दु अधिकारी अवदत्, राज्ये गोमातुः वधः न अनुमन्यते, तस्य यथाकामं व्याख्या क्रियताम्। सः स्पष्टं कृतवान् यत् राज्ये १९५० तमवर्षस्य पशुधन-अधिनियमस्य प्रावधानानाम् आधारेण एव कार्यवाही क्रियते। वधशालासु पशुवधः अपि स्थगयिष्यते किम् इति पृष्टः मुख्यमन्त्री अवदत् यत् वधशालायाः सञ्चालनं गोमातुः वधश्च समानौ विषयौ न स्तः। यदि वधशालाभ्यः वैधम् अनुज्ञापत्रं प्राप्तम् अस्ति, तर्हि ताः नियमानुसारं कार्यं कर्तुं शक्नुवन्ति।

मुख्यमन्त्री अवदत् यत् विधेः प्रवर्तनस्य अनन्तरमपि राज्यस्य केषुचित् भागेषु गुप्तरूपेण गोवधस्य शिकायताः प्राप्यन्ते, तासां निवारणाय शीघ्रमेव उपायाः क्रियन्ते। कलकत्ता-उच्चन्यायालयस्य पूर्वनिर्देशस्य उल्लेखं कुर्वन् सः अवदत् यत् एतादृशी घटना न भवितुं दीयते। यदि कुत्रचित् गुप्तरूपेण एतत् कार्यं क्रियते, तर्हि तस्य विवरणं प्रेष्यताम्, तत् कार्यं तत्कालमेव स्थगयिष्यते।

उल्लेखनीयं यत् पश्चिमबङ्गराज्ये सत्तां प्राप्तानन्तरं भाजपासर्वकारेण १९५० तमवर्षस्य पशुधन-अधिनियमस्य नियमानां प्रभावी प्रवर्तनं कृतम् आसीत्। एतेषां नियमानाम् अनुसारं प्रशासनस्य अनुमतिं विना पशूनां वधः न कर्तुं शक्यते तथा च चतुर्दशवर्षेभ्यः न्यूनवयस्कानां पशूनां वधे पूर्णः प्रतिबन्धः अस्ति। एतदर्थं सम्बन्धितस्य स्थानीयप्राधिकरणस्य अथवा पश्चिमबङ्गराज्यस्य पशुसम्पद्विभागस्य लिखिता अनुमति अनिवार्या अस्ति।

अस्मिन् विषये उच्चन्यायालये याचिका प्रस्तुता आसीत्। तस्याः सुनवायाम् गतस्य मे-मासस्य २१ दिनाङ्के कलकत्ता-उच्चन्यायालयेन राज्यसर्वकारस्य मे-मासस्य १३ दिनाङ्कस्य अधिसूचना यथावत् स्थापिता आसीत्। न्यायालयेन स्पष्टं कृतं यत् वधयोग्यतायाः प्रमाणपत्रं विना पशुवधः कर्तुं न शक्यते। न्यायालयस्य अस्याः टिप्पणीं उद्धृत्य मुख्यमन्त्री घोषणां कृतवान् यत् राज्ये वृद्धगवां पालनपोषणाय चिकित्सोपचाराय च गोशालाभ्यः प्रतिवर्षम् एकलक्षरूप्यकाणाम् आर्थिकसहायता प्रदास्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani