चलचित्रनिर्माणस्य छायाङ्कनाय प्रियं गन्तव्यस्थानं भविष्यति पश्चिमबङ्गः, ‘वेव्स फिल्म बाजार’ इत्यत्र राज्यसर्वकारेण नूतना रूपरेखा प्रस्तुता
कोलकाता, २३ नवम्बरमासः (हि.स.)। गोवायाम् आयोजितस्य सप्तपञ्चाशत्तमस्य भारतीयान्ताराष्ट्रियचलचित्रमहोत्सवस्य प्रमुखाकर्षणेषु अन्यतमस्य ‘वेव्स् फिल्म बाजार’ इत्यस्य आयोजने पश्चिमबङ्गस्य चलचित्रोद्योगस्य सम्भावनाः प्रमुखतया प्रस्तुताः। नवम्बरमासस्य २२
पूर्णिमा चक्रवर्ती


कोलकाता, २३ नवम्बरमासः (हि.स.)। गोवायाम् आयोजितस्य सप्तपञ्चाशत्तमस्य भारतीयान्ताराष्ट्रियचलचित्रमहोत्सवस्य प्रमुखाकर्षणेषु अन्यतमस्य ‘वेव्स् फिल्म बाजार’ इत्यस्य आयोजने पश्चिमबङ्गस्य चलचित्रोद्योगस्य सम्भावनाः प्रमुखतया प्रस्तुताः। नवम्बरमासस्य २२ दिनाङ्के आयोजिते अस्मिन् कार्यक्रमे पश्चिम-बङ्गस्य सूचनासंस्कृतिपर्यटन-राज्यमन्त्री पूर्णिमा चक्रवर्ती राज्यस्य प्रतिनिधित्वम् अकरोत्। अस्मिन् अवसरे विधायकः डॉ. हिरणचटर्जी अपि उपस्थितः आसीत्।

‘वेव्स् फिल्म् बाजार्’ इत्यत्र स्थापिते पश्चिमबङ्गस्य प्रदर्शनीमण्डपे देश-विदेशेभ्यः आगतान् निर्मातॄन्, निर्देशकान् तथा चलचित्रकर्मिणः सम्बोधयन्ती राज्यमन्त्री प्रस्तावितस्य चलचित्रनीतेः रूपरेखाम् उपस्थापितवती। तया राज्ये चलचित्रनिर्माणस्य प्रोत्साहनाय शीघ्रानु-मतिप्रदानव्यवस्था, चलचित्र-निर्मातृभ्यः प्रस्तावितानुदानम् तथा चलचित्रोद्योगस्य समग्रविकासाय राज्य-सर्वकारस्य विविधयोजनानां प्रयत्नानां च विषये सूचनाः प्रदत्ताः।

अस्मिन्नवसरे पूर्णिमा चक्रवर्ती महोत्सवे भागं गृहीतवद्भिः अन्यराज्यानां प्रति-निधिभिः सह अपि संवादम् अकरोत्। चर्चायां विभिन्नराज्यानां चलचित्रनीतीनां, चलचित्रनिर्माणसम्बद्धस्य आधारभूत-संरचनायाः तथा चलचित्रोद्योगस्य प्रोत्साह-नाय स्वीक्रियमाणानाम् उपायानां विषये विचारविनिमयः अभवत्।

राज्यमन्त्री अवदत् यत् पश्चिमबङ्गः प्रथमवारम् अस्मिन् महत्त्वपूर्णे राष्ट्रियस्तरीये चलचित्रविपणनमञ्चे भागं गृह्णाति। राज्यस्य अस्याः पहलस्य विषये विभिन्नराज्यानां चलचित्रनिर्मातॄणां, निर्देशकानां तथा चलचित्रप्रेमिणां मध्ये उत्साहः दृश्यते।

सा विश्वासं प्रकटितवती यत् ‘वेव्स् फिल्म् बाजार्’ इत्यत्र पश्चिमबङ्गस्य सहभागितया राज्यस्य चलचित्रोद्योगाय राष्ट्रियस्तरे नूतनं परिचयं प्राप्स्यते। एतेन निवेशस्य नवीनाः अवसराः अपि उद्घाटिताः भविष्यन्ति तथा पश्चिमबङ्गः चलचित्राणां छायाङ्कनाय आकर्षकं गन्तव्यस्थान-रूपेण उद्भविष्यति।

Hindusthan Samachar / Divya Ranjan