Enter your Email Address to subscribe to our newsletters

विहारः, 23 नवंबरमासः (हि.स.)।
अन्ताराष्ट्रियपर्यटननगरे राजगीरे आयोज्यमानस्य त्रिदिवसीयस्य राजगीरमहोत्सवस्य २०२६ इत्यस्य सांस्कृतिकसन्ध्या सङ्गीतनृत्ययोः मनोहारिण्या समन्वितप्रस्तुत्या सराबोरा भविष्यति।
२८ नवम्बर् दिनाङ्के आयोज्यमाने सांस्कृतिककार्यक्रमे लोकप्रियगायिका रिया भट्टाचार्या तथा देशस्य प्रसिद्धः नृत्यसमूहः एमजे-५ इत्याख्यः स्वकीयाभिः उत्कृष्टाभिः प्रस्तुतिभिः दर्शकान् मनोरञ्जयिष्यतः।
अस्याः सन्ध्यायाः प्रमुखाकर्षणं गायिका रिया भट्टाचार्या भविष्यति। सा स्वकीयेन गायनकौशलेन मधुरस्वरेण च परिचिता अस्ति। सा स्वकीयया सङ्गीतमय्या प्रस्तुत्या श्रोतॄन् मन्त्रविमुग्धान् करिष्यति। तस्याः प्रस्तुतौ स्वरस्य, सङ्गीतस्य मनोरञ्जनस्य च विशेषः समन्वयः द्रष्टुं मिलिष्यति।
अपरतः मञ्चे स्वकीयया विशिष्टया परिचित्या ऊर्जस्विन्या नृत्यशैल्या च प्रसिद्धः एमजे-५ नृत्यसमूहः अपि दर्शकानां विशेषाकर्षणस्य केन्द्रं भविष्यति।
अनेन समूहेन उत्कृष्टेन सामञ्जस्येन, आधुनिकनृत्यशैल्या विशिष्टाभिः प्रस्तुतिभिश्च देशव्यापिनी परिचितिः प्राप्ता अस्ति। अस्य समूहस्य प्रस्तुतिषु पॉपिङ्ग्, लॉकिङ्ग्, मूनवॉक् तथा विविधासु आधुनिकनृत्यशैलीषु अद्वितीयः समन्वयः द्रष्टुं मिलति। तस्य ऊर्जस्विनी प्रस्तुति मनोहारिणी मञ्चप्रस्तुतिश्च दर्शकाणां कृते विशेषाकर्षणं भविष्यति।
उल्लेखनीयं यत् राजगीरमहोत्सवः २०२६ तमवर्षस्य नवम्बरमासस्य २६ तः २८ दिनाङ्कपर्यन्तम् आयोज्यते। महोत्सवस्य माध्यमेन बिहारस्य समृद्धायाः सांस्कृतिकधरोहरायाः, कलायाः, सङ्गीतस्य पर्यटनस्य च व्यापकपरिचितिं प्रदातुं प्रयासः क्रियते। विभिन्नानां सांस्कृतिकप्रस्तुतीनां माध्यमेन महोत्सवः देशस्य विविधासां कलात्मकविधीनाम् एकस्मिन् मञ्चे समागमनस्य महत्त्वपूर्णम् अवसरं प्रददाति।
जिलाप्रशासनेन जनपदवासिभ्यः, पर्यटकेभ्यः सङ्गीतप्रेमिभ्यश्च आग्रहः कृतः यत् ते राजगीरमहोत्सवस्य अन्तिमायां सांस्कृतिकसन्ध्यायां समागत्य कलाकाराणां प्रस्तुतिभिः आनन्दं प्राप्नुवन्तु।
---------------
Hindusthan Samachar / Dheeraj Maithani