पटना-नगरस्य ज्ञानभवने नवम्बरमासस्य २६ दिनाङ्के संविधानगौरवदिवससमारोहः, नितिननवीनः उद्घाटनं करिष्यति
विपक्षस्य संविधानप्रेम केवलं राज-नैतिकाडम्बरम्, द्वैधमानदण्डानां पराकाष्ठा च : गुरुप्रकाशपासवानः पाटलिपुत्रम्, २४ नवम्बरमासः (हि.स.)। भारतीयजनतापार्टी (भाजपा) इत्यस्य राष्ट्रियप्रवक्ता तथा संविधानगौरव-दिवसस्य राष्ट्रियदलस्य सदस्यः गुरुप्रकाशपासवान
पत्रकार वार्ता


विपक्षस्य संविधानप्रेम केवलं राज-नैतिकाडम्बरम्, द्वैधमानदण्डानां पराकाष्ठा च : गुरुप्रकाशपासवानः

पाटलिपुत्रम्, २४ नवम्बरमासः (हि.स.)। भारतीयजनतापार्टी (भाजपा) इत्यस्य राष्ट्रियप्रवक्ता तथा संविधानगौरव-दिवसस्य राष्ट्रियदलस्य सदस्यः गुरुप्रकाशपासवानः विपक्षस्य संविधानं तस्य मूल्यानि च प्रति द्वैधव्यवहारस्य आरोपम् अकरोत्। सः अवदत् यत् विपक्षस्य संविधानस्य तस्य मूल्यानां च विषये कदापि वास्तविकः अनुरागः नासीत्। अद्य काङ्ग्रेसः तस्य सहयोगिदलानि च संविधानस्य रक्षणस्य चर्चा कुर्वन्ति, परन्तु आपत्कालस्य समये एतस्यैव संविधानस्य आत्मा प्रस्तावना च पददलिता कृता आसीत्। विपक्षस्य संविधानं प्रति प्रेम केवलं राजनैतिकम् आडम्बरम् अस्ति।

भाजपाप्रदेशकार्यालये मङ्गलवासरे आयोजितायां पत्रकारवार्तायां गुरुप्रकाश-पासवानः अवदत् यत् नवम्बरमासस्य २६ दिनाङ्के पाटलिपुत्रनगरस्य ज्ञानभवने संविधानगौरवदिवससमारोहः आयोजयिष्यते। अस्य उद्घाटनं भाजपायाः राष्ट्रियाध्यक्षः नितिननवीनः करिष्यति। समारोहाय शिक्षाक्षेत्रस्य, विधिक्षेत्रस्य, उद्योगक्षेत्रस्य, वाणिज्यक्षेत्रस्य, क्रीडाक्षेत्रस्य च प्रतिनिधयः सहितं समाजस्य विविधक्षेत्रेभ्यः जनाः भागं ग्रहीष्यन्ति। दलस्य वरिष्ठनेतारः प्रबुद्धजनाश्च संविधानस्य आदर्शानां, मूल्यानां सामाजिकन्यायस्य च सङ्कल्पानां विषये स्वविचारान् प्रस्तुतं करिष्यन्ति।

सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी संविधानं प्रति सम्मानस्य गौरवस्य च भावं न अद्य आरभ्य धारयति। गुजरातस्य मुख्यमन्त्रित्वकाले अपि तेन संविधानगौरवयात्रायाः आयोजनं कृतम् आसीत्। प्रधानमन्त्रीपदं प्राप्त्यानन्तरं संसद्भवने प्रवेशसमये तेन संविधानं प्रणम्य तस्य मार्गदर्शने कार्यं कर्तुं सङ्कल्पः कृतः। भाजपा संविधानं राजनैतिकविषयं न, अपितु राष्ट्र-सञ्चालनस्य सामाजिकसमरसता-याश्च आधारं मन्यते।

पासवानः अवदत् यत् बाबासाहेबः डॉ. भीमरावाम्बेडकरः संविधानस्य प्रवर्तन-समये एव सामाजिक-आर्थिक-समानतायाः आवश्यकतायाः विषये बलं दत्तवान् आसीत्। तस्य मतम् आसीत् यत् राजनैतिकसमानतया सह समाजस्य पृष्ठवर्गाणां वञ्चितवर्गाणां च सम्मानं अवसराश्च प्रदातुं आवश्यकम् अस्ति। सः कथनम् अकरोत् यत् प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारः एतं सङ्कल्पम् अग्रे नयति। विगतेषु १२ वर्षेषु ५० कोट्यधिकाः जनाः निर्धनतायाः सीमायाः बहिः नीताः इति तथ्यं विश्वबैङ्क इत्यस्य प्रतिवेदनेऽपि प्रकाशितम् अस्ति। सामाजिक-आर्थिक-सशक्तीकरणस्य दिशि एषा महत्त्वपूर्णा उपलब्धिः अस्ति।

भाजपाप्रवक्ता काङ्ग्रेसदलेन बाबासाहेबाय उचितसम्मानं न प्रदत्तम् इति आरोपं कुर्वन् अवदत् यत् तस्य निधनानन्तरं दीर्घकालपर्यन्तं तस्मै भारतरत्नसम्मानः न प्रदत्तः तथा च नवदिल्ल्यां तस्य राष्ट्रियस्मारकमपि न निर्मितम्। तद्विपरीतम्, प्रधानमन्त्रीनरेन्द्रमोदिनः नेतृत्वे महू, नागपुरम्, लण्डनम्, अलीपुरमार्गः, मुम्बई च स्थितानां पञ्चतीर्थानां विकासं कृत्वा बाबासाहेबस्य धरोहराय राष्ट्रियसम्मानः प्रदत्तः। सः अवदत् यत् डॉ. आम्बेडकरस्य विचारान् अग्रे नयता राष्ट्रियपृष्ठवर्गायोगाय संवैधानिकमान्यतां प्रदातुं, नीट्-परीक्षायाम् अन्यपिछडावर्गाणां आरक्षणं कार्यान्वयितुं तथा विविधासु संवैधानिकासु प्रशासनिकासु च संस्थासु सामाजिक-प्रतिनिधित्वं सुनिश्चितं कर्तुं कार्यं कृतम्।

गुरुप्रकाशपासवानः अनुच्छेदस्य ३७० इत्यस्य निरसनं राष्ट्रियैकतायाः दिशि ऐतिहासिकं पदक्षेपम् अवदत्। सः उक्तवान् यत् बाबासाहेबः समाननागरिकसंहितायाः अपि समर्थकः आसीत्। अधुना विभिन्नेषु राज्येषु अस्मिन् विषये विचारविमर्शः कार्यान्वयनञ्च आरब्धम् अस्ति। तेन आरोपितं यत् काङ्ग्रेसशासनकाले संविधानस्य उपयोगः सत्तायाः सुविधानुसारं कृतः, परन्तु भाजपासर्वकारेण तस्य मूलोद्देशान् सुदृढान् कर्तुं कार्यं कृतम्।

पासवानः अवदत् यत् संविधानदिवसस्य अवसरे भाजपा देशव्यापिनः व्यापक-कार्यक्रमान् आयोजयति। अस्यैव क्रमे नवम्बरमासस्य २६ दिनाङ्के अपराह्णे द्विवादने पाटलिपुत्रनगरस्य ज्ञानभवने संविधानगौरवदिवससमारोहः भविष्यति। दिल्लीतः भोपालपर्यन्तं तमिलनाडुपर्यन्तं च दलस्य वरिष्ठनेतारः केन्द्रीयमन्त्रिणश्च संविधानं प्रति भाजपायाः प्रतिबद्धतां तस्य कार्याणि च जनानां समक्षं प्रस्तोष्यन्ति।

सः अवदत् यत् संविधानं न कस्यापि राजनैतिकदलस्य न च कस्यापि परिवारस्य निजीसम्पत्तिः अस्ति। राहुलगान्धी, तेजस्वीयादवः, अखिलेश-यादवः इत्यादयः परिवाराधारितराजनीतिं कुर्वन्तः दलाः एतत् अवगच्छेयुः। बिहारभूमिः लोकतान्त्रिकान्दोलनानां साक्षिणी अस्ति। यदा यदा संविधानस्य लोकतन्त्रस्य च संकटम् उत्पन्नम्, तदा तदा पाटलिपुत्रस्य ऐतिहासिकात् गान्धीमैदानात् लोकतान्त्रिकचेतनायाः स्वरः मुखरितः अभवत्।

भाजपाप्रवक्ता अवदत् यत् संविधानस्य सनातनसंस्कृतेश्च मध्ये किमपि विरोधः नास्ति। रामजन्मभूमिसम्बद्धः विषयः अपि संवैधानिकमर्यादानां न्यायिकप्रक्रियायाश्च अन्तर्गतं पूर्णतां प्राप्तवान्। उभे अपि राष्ट्रनिर्माणस्य भारतीयसांस्कृतिक-चेतनायाश्च महत्त्वपूर्णे पक्षे स्तः।

पत्रकारवार्तायां कुम्हरारस्य विधायकः सञ्जयगुप्तः, प्रदेशमहामन्त्री तथा संविधानगौरवदिवसस्य प्रदेशदलस्य संयोजकः सरोजरञ्जनपटेलः, प्रदेशमन्त्री तथा कार्यक्रमस्य प्रदेशसहसंयोजिका सुषमासाहू, प्रदेशमीडियासहप्रभारी अमित-प्रकाशबबलु च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan