Enter your Email Address to subscribe to our newsletters

कोलकाता, 24 नवंबरमासः (हि.स.)।
पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु अधिकारी मङ्गलवासरे सिखधर्मस्य संस्थापकस्य प्रथमस्य च गुरोः गुरुनानकदेवस्य ५५७ तम्याः जयन्त्याः अवसरे डानकुनीस्थितं गुरुद्वारम् अगच्छत्। तत्र तेन गुरुनानकदेवाय विनम्रा श्रद्धाञ्जलिः समर्पिता तथा सिखसमुदायस्य सर्वेभ्यः जनेभ्यः प्रकाशपर्वणः शुभकामनाः प्रदत्ताः।
अस्मिन्नवसरे मुख्यमन्त्रिणा गुरुद्वारे आयोजितेषु सिखसमुदायस्य धार्मिकानुष्ठानेषु कार्यक्रमेषु च सहभागितापि कृता।
एतद्पूर्वं प्रातःकाले मुख्यमन्त्रिणा सामाजिकमाध्यमे सन्देशं प्रेष्य गुरुनानकदेवस्य आदर्शाः स्मारिताः तथा सर्वेभ्यः गुरुपर्वणः शुभकामनाः प्रदत्ताः। स्वसन्देशे तेन उक्तं यत् सिखधर्मस्य प्रवर्तकाय परमपूज्याय गुरुनानकदेवाय ५५७ तम्यां जन्मजयन्त्यां सः विनम्रां श्रद्धाञ्जलिं प्रणामं च समर्पयति। तेन लिखितं यत् गुरुनानकदेवेन प्रदर्शिताः सत्यस्य, समानतायाः, मानवतायाः, भ्रातृत्वस्य, सेवायाश्च आदर्शाः सर्वान् शान्तेः, सद्भावस्य, मानवकल्याणस्य च मार्गे अग्रे गन्तुं प्रेरयन्ति। सन्देशस्य अन्ते तेन सिखसमुदायस्य पवित्रघोषेण ‘वाहे गुरु जी का खालसा, वाहे गुरु जी की फतेह’ इत्यनेन स्वकीयां श्रद्धां प्रकटितम्।
मुख्यमन्त्री शुभेन्दु अधिकारी पूर्वमपि अनेकवारं विभिन्नान् गुरुद्वारान् सन्दर्शितवान् अस्ति। राज्यसर्वकारस्य पक्षतः गुरुद्वारेभ्यः आवश्यकं सहकार्यमपि प्रददाति।
उल्लेखनीयं यत् गुरुनानकदेवस्य जन्म १४६९ तमे वर्षे वर्तमानपाकिस्तानदेशस्य ननकानासाहिबे अभवत्। सः सिखधर्मस्य संस्थापकः दशसु सिखगुरुषु च प्रथमः इति मन्यते। तस्य उपदेशेषु ईश्वरभक्तेः, सत्यस्य, समानतायाः, मानवसेवायाः, परस्परभ्रातृत्वस्य च विशेषः आग्रहः कृतः अस्ति। तस्य जयन्ती गुरुनानकगुरुपर्व अथवा प्रकाशपर्व इति रूपेण आचर्यते। अस्मिन्नवसरे देशविदेशेषु स्थितेषु गुरुद्वारेषु विशेषप्रार्थना, कीर्तनम्, नगरकीर्तनं, लङ्गरस्य च आयोजनं क्रियते।
----------
Hindusthan Samachar / Dheeraj Maithani