Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ नवम्बरमासः (हि.स.)। गुरुनानकदेवस्य ५५७ तम्याः जयन्त्याः पावनावसरे भारतीयजनतापार्टी इत्यस्य राष्ट्रियाध्यक्षः नितिननवीनः मङ्गलवासरे दिल्लीस्थिते गुरुद्वारा रकाबगञ्जसाहिबे नतमस्तकः अभवत्। सः गुरुद्वारे अरदास-प्रार्थनां कृतवान् तथा कीर्तनम् अपि श्रुतवान्।
अस्मिन् अवसरे दिल्लीभाजपाध्यक्षः हर्षमल्होत्रा तथा दिल्लीसर्वकारस्य मन्त्री सरदारमनजिन्दरसिंहसिरसा अपि तेन सह उपस्थितौ आस्ताम्। गुरुद्वाराप्रबन्धन-समित्याः पक्षतः सिखपरम्परानुसारं नितिननवीनाय सम्मानस्वरूपं सरोपावस्त्रं प्रदत्तम्।
गुरुद्वारापरिसरे उपस्थितां सङ्गतिम् सम्बोधयन् नितिननवीनः अवदत् यत् गुरुनानकदेवः मानवतायै ‘एक ओंकार, एक ज्योतिः’ इति सन्देशं प्रदत्तवान्। सः जातिपातिभेदम्, उच्चनीचभावं तथा भेदभावं च दूरीकृत्य समाजाय ‘नाम जपो, कीरत करो, वण्ड छको’ इति मार्गं प्रदर्शितवान्। गुरुदेवस्य शिक्षाः अद्यापि मानवतायाः, समानतायाः, सेवायाः परोपकारस्य च प्रेरणां ददति।
सः अवदत् यत् मोदीसर्वकारः गुरुनानकदेवस्य आदर्शान् अनुसृत्य अन्त्योदयस्य ‘सबका साथ, सबका विकास’ इति मन्त्रस्य साकाररूपं दातुं कार्यं कुर्वन् अस्ति। गुरुनानकदेवस्य जयन्त्यवसरे एषा कामना अस्ति यत् तस्य दिव्यप्रकाशः सर्वेषां जीवनं करुणया, परिश्रमेण परोपकारेण च आलोकितं करोतु तथा भारतं विश्वगुरुः भवतु।
हर्षमल्होत्रा अपि गुरुनानकजयन्त्यवसरे दिल्लीवासिभ्यः शुभकामनाः दत्तवान्। सः अवदत् यत् गुरुदेवः प्रेम्णः, भ्रातृभावस्य सेवायाश्च सन्देशं प्रदत्तवान्। दिल्लीभाजपा तस्य आदर्शान् अनुसृत्य समाजस्य अन्तिमव्यक्तिपर्यन्तं सेवां प्रापयितुं प्रतिबद्धा अस्ति।
मन्त्री मनजिन्दरसिंहसिरसा सङ्गतिं प्रकाशपर्वणः शुभकामनाः प्रदाय अवदत् यत् गुरुनानकदेवस्य ‘सर्वेषां कल्याणम्’ इति सन्देशः एव सर्वकारस्य सङ्कल्पः अस्ति। गुरुद्वाराणां मर्यादायाः सिक्ख-परम्परायाः च संरक्षणाय सर्वकारः सदैव तत्परः अस्ति इति सः उक्तवान्।
अस्मिन् अवसरे दिल्लीसिखगुरुद्वारा-प्रबन्धनसमित्याः अध्यक्षः सरदारहरमीत-सिंहकालका नितिननवीनस्य स्वागतं कृतवान्। सः अवदत् यत् गुरुनानकदेवेन प्रदर्शिते मार्गे चलित्वा एव देशः एकतायाः भ्रातृभावस्य च सूत्रे आबद्धः भवितुम् अर्हति।
कार्यक्रमे भाजपायाः राष्ट्रियमाध्यम-संयोजकः आशीषऊषाअग्रवालः, विधायकः सरदारतरविन्दरसिंहमरवाहः, नगरनिगम-पार्षदा योगितासिंहः, पञ्जाबी-अकादम्याः उपाध्यक्षः सरदारइमप्रीतसिंहबख्शी, दिल्लीभाजपायाः प्रवक्ता यासिरजिलानी इत्यादयः बहुसङ्ख्यकाः दलकार्यकर्तारः सङ्गतिसदस्याश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan