भारत-कनाडादेशयोः व्यापारसन्धे: वार्तासमाप्ते: काल: समीप:
नवदिल्ली, २४ नवम्बरमासः (हि.स.)। भारतं कनाडादेशश्च व्यापक-आर्थिक-साझेदारी-सन्धि इत्यस्य वार्तां समाप्तुं अत्यन्तं समीपौ स्तः। उभयपक्षयोः लक्ष्यं वर्तते यत् अस्य वर्षस्य अन्तपर्यन्तं वार्ता पूर्णा भवेत्। आधिकारिकसूत्रैः मङ्गलवासरे प्रदत्त-सूचनानुसा
भारत और कनाडा के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, २४ नवम्बरमासः (हि.स.)। भारतं कनाडादेशश्च व्यापक-आर्थिक-साझेदारी-सन्धि इत्यस्य वार्तां समाप्तुं अत्यन्तं समीपौ स्तः। उभयपक्षयोः लक्ष्यं वर्तते यत् अस्य वर्षस्य अन्तपर्यन्तं वार्ता पूर्णा भवेत्।

आधिकारिकसूत्रैः मङ्गलवासरे प्रदत्त-सूचनानुसारं भारतं कनाडादेशश्च प्रस्तावितस्य ‘व्यापक-आर्थिक-सह-भागिता-सन्धि’ इत्यस्य विषये वार्तां समाप्तुं ‘अत्यन्तं समीपौ’ स्तः। नवदिल्ल्यां सम्पन्नस्य वार्तायाः षष्ठचक्रस्य अनन्तरं उभयोः देशयोः दलानि २०२६ तमवर्षस्य अन्तपर्यन्तम् अस्य सन्धे: अन्तिमरूपं निर्धारयितुं प्रतिदिनं चर्चां कुर्वन्ति।

आधिकारिकसूत्रैः उक्तं यत्, ‘उभे दलं प्रतिदिनं वार्तां कुर्वतः। वयं लक्ष्यस्य अत्यन्तं समीपम् आगतवन्तः।’ एताः सभा: अत्यन्तं महत्त्वपूर्णाः सन्ति, यतः उभयपक्षयोः लक्ष्यं वर्तते यत् अस्य वर्षस्य अन्तपर्यन्तं वार्ता पूर्णा भवेत्। गतसप्ताहे (११-२० नवम्बर) उभयोः देशयोः मध्ये अस्य सन्धे:9 षष्ठचरणस्य वार्ता सम्पन्ना। अस्य उद्देश्यं व्यापारनिवेशयोः नूतनावसराणाम् उद्घाटनं तथा आपूर्तिशृङ्खलानां विविधीकरणम् अस्ति।

प्राप्तसूचनानुसारं वाणिज्यसचिवः राजेशअग्रवालः अपि वार्तायाः प्रगतेः समीक्षार्थं कनाडादेशस्य अन्ताराष्ट्रिय-व्यापारस्य उपमन्त्री ग्लेनपरवेसः तस्य प्रतिनिधिमण्डलेन च सह सभां कृतवान्। अस्यां चर्चायां वस्तूनां व्यापारः, सेवानां व्यापारः, उत्पत्तिनियमाः, व्यापारसम्बद्धाः उपचाराः, बौद्धिकसम्पत्तिः तथा निवेशप्रोत्साहनम् इत्यादयः प्रमुखाः विषयाः समाविष्टाः आसन्।

उल्लेखनीयम् अस्ति यत् भारत-कनाडादेशयोः व्यापक-आर्थिक-सहभाग-सन्धे: (सीईपीए) प्रक्रिया प्रधानमन्त्रिणा नरेन्द्रमोदिना कनाडादेशस्य प्रधान-मन्त्रिणा मार्ककार्नी इत्यनेन च मार्चमासे, २०२६ तमे वर्षे प्रारब्धा आसीत्। उभयोः देशयोः अधिकारिणां अनुसारम् अस्य सन्धे: २०२६ तमवर्षस्य अन्तपर्यन्तम् अन्तिमरूपं निर्धारयितुं लक्ष्यम् अस्ति।

Hindusthan Samachar / Divya Ranjan