Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ नवम्बरमासः (हि.स.)। उपराष्ट्रपतिः सीपी राधाकृष्णनः, रक्षामन्त्री राजनाथसिंहः इत्येतै: च सह अनेके नेतारः मङ्गलवासरे देवदीपावल्याः कार्तिक-पूर्णिमायाश्च पावनावसरे सर्वेभ्यः देशवासिभ्यः हार्दिक्य: शुभकामनाः प्रदत्तवन्तः।
उपराष्ट्रपतिः एक्स इत्यत्र लिखितवान्, ‘‘कार्तिगईदीपम् अस्माकं प्राचीनासु सांस्कृतिकपरम्परासु अन्यतमम् अस्ति। एतत् अतीव प्राचीनकालात् दीप-प्रज्वलनेन, गृहाणां वीथीनां च प्रकाशनेन, जनानां हर्षेण परस्परं समीपं आनयनेन च आचर्यते। अन्धकारं दूरीकृत्य प्रकाशं प्रसारयन् अयं पर्वः अस्माकं जीवने ज्ञानं, प्रेम, शान्तिं, एकतां, सद्भावं च आनयतु। प्रत्येकस्मिन् गृहे सुखसमृद्धेः सुखशान्तेश्च वासः भवतु।’’
लोकसभाध्यक्षः ओमबिरला उक्तवान् यत्, हे मधुसूदन! देवानां श्रेष्ठ, सर्वेषां मासानां मध्ये कार्तिकमासः सर्वोत्तमः अस्ति। ‘नारायण’ इति नाम्ना प्रसिद्धं पवित्रं स्थानं कलियुगे प्राप्तुं अत्यन्तं कठिनेषु त्रिषु दुर्लभेषु वस्तुषु अन्यतमम् अस्ति। भारतस्य सनातनाध्यात्मिकपरम्परया जनश्रद्धया च सम्बद्धम् इदं पर्व भक्तेः, श्रद्धायाः, सांस्कृतिकपरम्परायाः च अद्वितीयः उत्सवः अस्ति। कार्तिकपूर्णिमायाः सायंकाले यदा मोक्षदायिनी काशीभूमौ मातृगङ्गायाः तटे घाटेषु च असंख्यदीपाः प्रज्वलिताः भवन्ति, तदा देवाः अपि स्वर्गात् पृथिवीं अवतीर्य अस्य दिव्यस्य उत्सवस्य दर्शनं कुर्वन्ति इति मन्यते।
सः उक्तवान् यत् भगवान् शिवस्य नगरी काशी, या अनादिकालात् आध्यात्मिक-साधनायाः मोक्षान्वेषणस्य च केन्द्रम् अस्ति, अस्मिन् अवसरे स्वस्य विशिष्टाः धार्मिकाः सांस्कृतिकाः च परम्पराः प्रदर्शयति। काश्यां देवदीपावली केवलं पर्व नास्ति, अपितु देशस्य प्राचीनसभ्यतायाः, सामूहिकश्रद्धायाः, ‘सर्वजनहिताय’ इति भावनायाः च उत्सवः अस्ति। एतत् अन्धकारात् प्रकाशं प्रति, अज्ञानात् ज्ञानं प्रति, निराशायाः आशां प्रति च अग्रसरितुं शाश्वतं सन्देशं ददाति। भगवत: श्रीकाशीविश्वनाथस्य मातृगङ्गायाश्च कृपया एषः पावनः अवसरः सर्वेषां जीवने सुखं, शान्तिं, समृद्धिं, सद्भावनां च आनयतु तथा राष्ट्रस्य सर्वाङ्गीण-कल्याणस्य मार्गं प्रशस्तं करोतु।
रक्षामन्त्री राजनाथसिंहः उक्तवान् यत् श्रद्धया, भक्त्या, भारतीयसंस्कृत्या च सम्बद्धम् इदं पवित्रं पर्व महादेवस्य नगरी काश्याः दिव्यपरम्पराणां देशस्य समृद्धसांस्कृतिकपरम्परायाश्च प्रतीकम् अस्ति। पवित्रस्नानस्य दीपदानस्य च इदं पर्व सर्वेषां जीवने सुखं, शान्तिं, समृद्धिं, नवीनाम् ऊर्जां च आनयतु इति महादेवं प्रार्थयामि।
केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः उक्तवान् यत् श्रद्धायाः प्रकाशस्य च इदं महान् पर्व सर्वेषां जीवने आनन्दं, शान्तिं, समृद्धिं, नवीनाम् ऊर्जां च आनयतु।
केन्द्रीयकृषिमन्त्री तथा कृषककल्याण-मन्त्री शिवराजसिंहचौहानः उक्तवान् यत् भगवान् श्रीत्रिपुरारी तथा भगवान् श्रीहरिविष्णुः सर्वेषां कृपां कुर्वन्तु। सुखस्य, समृद्धेः, सौभाग्यस्य च दीपः सदैव प्रज्वलितः भवतु, सर्वे उन्नतिं प्राप्नुवन्तु सुखिनश्च भवन्तु, इति प्रार्थना।
Hindusthan Samachar / Divya Ranjan