कार्तिकपूर्णिमायाम् अजगैबीनाथधाम्नि श्रद्धालूनां महती समागमः, लक्षाधिकैः श्रद्धालुभिः उत्तरवाहिन्यां गङ्गायां कृतं स्नानम्।
भागलपुरम्, 24 नवंबरमासः (हि.स.)। कार्तिकपूर्णिमायाः देवदीपावल्याश्च पावनावसरे मङ्गलवासरे सुल्तानगञ्जस्थिते विश्वप्रसिद्धे बाबा अजगैबीनाथधाम्नि उत्तरवाहिन्याः गङ्गायाः तटे श्रद्धालूनां अभूतपूर्वः जनसमागमः अभवत्। बिहारस्य विभिन्नजनपदेभ्यः, समीपस्था
स्नान करते श्रद्धालु


भागलपुरम्, 24 नवंबरमासः (हि.स.)।

कार्तिकपूर्णिमायाः देवदीपावल्याश्च पावनावसरे मङ्गलवासरे सुल्तानगञ्जस्थिते विश्वप्रसिद्धे बाबा अजगैबीनाथधाम्नि उत्तरवाहिन्याः गङ्गायाः तटे श्रद्धालूनां अभूतपूर्वः जनसमागमः अभवत्। बिहारस्य विभिन्नजनपदेभ्यः, समीपस्थात् झारखण्डराज्यात् नेपालदेशाच्च आगतैः लक्षाधिकैः श्रद्धालुभिः पवित्रायां गङ्गायाम् आस्थया स्नानं कृत्वा विधिविधानपूर्वकं दीपदानं कृतम्। सोमवासरस्य रात्रेः आरभ्य एव श्रद्धालूनां समूहाः सुल्तानगञ्जम् आगन्तुम् आरब्धवन्तः।

मङ्गलवासरे ब्रह्ममुहूर्तादेव नमामि गङ्गेघाटे सोपानघाटे च स्नानार्थं भक्तानां महती भीडः समुपस्थिता। पवित्रस्नानानन्तरं श्रद्धालुभिः बाबा अजगैबीनाथमन्दिरे जलाभिषेकं कृत्वा दर्शनपूजनं कृतम् तथा सुखसमृद्ध्योः कामनया दीपदानमपि कृतम्। अस्मिन्नवसरे सम्पूर्णं धामक्षेत्रं गङ्गाघाटाश्च ‘हर-हर महादेव’ तथा ‘हर-हर गङ्गे’ इति जयघोषैः गुञ्जायमानाः अभवन्। पञ्चाङ्गस्य ज्योतिषीयगणनायाश्च अनुसारम् अस्मिन् वर्षे कार्तिकपूर्णिमायाः तिथिः सोमवासरे रात्रौ ११ वादनात् १३ निमेषे प्रारब्धा, या मङ्गलवासरे रात्रौ ९ वादनात् २१ निमेषपर्यन्तं भविष्यति।

मन्दिरस्य महन्तः प्रेमानन्द गिरिः अवदत् यत् कार्तिकपूर्णिमा देवदीपावलीरूपेण आचर्यते। उत्तरवाहिन्यां गङ्गायां स्नानं, दानं, दीपदानं च कृत्वा सम्पूर्णस्य कार्तिकमासस्य स्नानस्य समतुल्यं पुण्यं प्राप्यते तथा समस्तपापानां नाशो भवति। मन्दिरस्य पुरोहितः लाल मोरिया पाण्डा इत्यस्य अनुसारं धार्मिकमान्यतानुसारम् अस्मिन्नेव दिने भगवान् विष्णुः मत्स्यावतारं धृतवान् आसीत्। कार्तिकपूर्णिमायां भगवान् विष्णोः भगवतः शिवस्य च संयुक्ताराधनया मनोकामनाः पूर्णाः भवन्ति। अपरतः गङ्गातटे दीपदानं कृत्वा पितॄणाम् आत्मनां शान्तिः भवति।

अपरतः लक्षाधिकश्रद्धालूनां सम्भावितं जनसम्मर्दं दृष्ट्वा भागलपुरजनपदप्रशासनं आरक्षिप्रशासनं च पूर्णतया सज्जम् आसीत्। घाटेषु किमपि अप्रियं घटनं न भवेत् इति हेतोः अवरोधकवेष्टनानि स्थापितानि आसन् तथा गभीरजले प्रवेशं निवारयितुं गोताखोराः राज्यापदाप्रतिक्रियाबलस्य (एसडीआरएफ) दलानि च नियोजितानि आसन्। मेलाक्षेत्रे मुख्यमार्गेषु च यातायातव्यवस्थां सुचारुरूपेण सञ्चालयितुं अतिरिक्तारक्षिबलं दण्डाधिकारिणश्च नियुक्ताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani