Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 24 नवंबरमासः (हि.स.)।
ओडिशाराज्ये मङ्गलवासरे पवित्रा कार्तिकपूर्णिमा पारम्परिकश्रद्धया भक्तिभावेन उत्साहेन च आचरिता। अस्मिन् अवसरे राज्यस्य सर्वेषु भागेषु सहस्रशः जनाः नदिषु, सरस्सु अन्येषु जलाशयेषु च लघुलघूनि नौकायानानि प्रवाह्य प्राचीनकलिङ्गस्य गौरवशालिन्याः समुद्रीयव्यापारपरम्परायाः स्मरणम् अकुर्वन्।
कटकनगरे महानद्याः तीरे स्थिते गडगडिया-घट्टे प्रातःकालादेव सहस्रशः श्रद्धालूनां समागमः अभवत्। जनाः पारम्परिकरीत्या पूजामर्चनां च विधाय लघूनि नौकायानानि जले प्रवाहितवन्तः। तथैव राजधानीभुवनेश्वरे लिङ्गराजमन्दिरस्य समीपे स्थिते पवित्रे बिन्दुसागरेऽपि सूर्योदयात् पूर्वमेव श्रद्धालूनां समागमः अभवत्।
ओडिशायाः इतिहासेन सांस्कृतिकपरम्पराभिश्च गभीरतया सम्बद्धः अयं पर्वः प्राचीनकलिङ्गस्य समृद्धस्य समुद्रीयव्यापारस्य नौसञ्चालनस्य च गौरवशालिनीं परम्परां स्मारयति। इतिहासानुसारं कलिङ्गदेशस्य साधवः (प्राचीनाः समुद्रीयव्यापारिणः) व्यापारस्य सांस्कृतिकविनिमयस्य च उद्देश्येन समुद्रीयमार्गैः इण्डोनेशिया, जावा, सुमात्रा तथा बाली इत्यादीनि दूरस्थानि देशानि गच्छन्ति स्म।
कालान्तरे पारम्परिकः समुद्रीयव्यापारः समाप्तः अभवत्, तथापि ओडिशावासिनः अद्यापि अस्य पर्वणः माध्यमेन स्वपूर्वजानां गौरवशालिनीं समुद्रीयपरम्परां जीवन्तीं धारयन्ति। अस्मिन् दिने जनाः दीपैः, नागवल्लीपत्रैः, सुपारीभिश्च अलङ्कृतानि लघूनि नौकायानानि नदिषु सरस्सु च प्रवाहयन्ति। एषा परम्परा प्राचीनसाधवानां समुद्रीययात्राणां प्रतीकात्मकं स्मरणम् अस्ति। उल्लेखनीयं यत् प्राचीनकाले ओडिशायाः तटीयप्रदेशेभ्यः विशालैः काष्ठनिर्मितैः पोतैः (येषां बोइता इति नाम आसीत्) समुद्रीययात्रां कुर्वन्तः व्यापारिणः साधवः इति कथ्यन्ते स्म।
कार्तिकपूर्णिमायाः दिने श्रद्धालवः प्रातःकाले पवित्रेषु जलाशयेषु स्नानं कुर्वन्ति, यत् ‘कार्तिकस्नानम्’ इति कथ्यते। ततः मन्दिरेषु पूजामर्चनां च कुर्वन्ति। धार्मिकमान्यतानुसारम् अस्मिन् दिने स्नानस्य पूजनस्य च विशेषं महत्त्वम् अस्ति।
कार्तिकपूर्णिमया सह पवित्रस्य कार्तिकमासस्य समापनमपि भवति। कुमारपूर्णिमातः आरभ्य कार्तिकपूर्णिमापर्यन्तं प्रचलितः अयं मासः ओडियाधार्मिकायां सांस्कृतिकपरम्परायां च विशेषं महत्त्वं धारयति। अस्मिन् काले अनेके विशिष्टाः धार्मिकाः अनुष्ठानाः परम्पराश्च अनुष्ठीयन्ते।
---------------
Hindusthan Samachar / Dheeraj Maithani