Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 24 नवंबरमासः (हि.स.)। पञ्जाबराज्यस्य राज्यपालः तथा चण्डीगढकेन्द्रशासितप्रदेशस्य प्रशासकः गुलाबचन्दकटारिया प्रथमस्य गुरोः श्रीगुरुनानकदेवस्य पावनप्रकाशपर्वणि पञ्जाबस्य चण्डीगढस्य च जनान् हार्दिकशुभकामनाः अयच्छत्।
सः अवदत् यत् श्रीगुरुनानकदेवः केवलं सिक्खसम्प्रदायस्य प्रथमः गुरुः नासीत्, अपितु सम्पूर्णमानवतायाः गुरुः आसीत्। तेन समस्तमानवजात्याः कल्याणस्य परिकल्पना कृता तथा च सर्वे मानवाः समानाः सन्ति इति सन्देशः प्रदत्तः। श्रीगुरुनानकदेवेन नारीसम्मानस्य तासां सशक्तीकरणस्य च विषये विशेषः बलः प्रदत्तः।
श्रीगुरुनानकदेवस्य प्रसिद्धासु शिक्षासु इदं प्रमुखं विचारतत्त्वम् अस्ति यत् ईश्वरः एकः एव अस्ति तथा च प्रत्येकः व्यक्तिः कमपि कर्मकाण्डं पुरोहितं वा माध्यमं विना साक्षात् ईश्वरेण सह सम्बन्धं स्थापयितुं शक्नोति।
तेन समाजे प्रचलितायाः जातिप्रथायाः दृढतया विरोधः कृतः तथा च प्रत्येकः व्यक्तिः समानः अस्ति, सः कस्यामपि जातौ अथवा लिङ्गे जातः भवतु इति शिक्षा प्रदत्ता। तस्य दर्शनं ‘सर्वत् दा भला’ अर्थात् सर्वेषां कल्याणस्य भावना अद्यापि सम्पूर्णविश्वस्य कृते प्रासङ्गिकम् अभिप्रेरणास्रोतश्च अस्ति। एतत् दर्शनं सीमाः अतिक्रम्य मानवतायाः ऐक्यस्य सन्देशं प्रसारयति।
राज्यपालः जनान् आहूतवान् यत् ते श्रीगुरुनानकदेवस्य शिक्षाणाम् अनुसरणं कुर्वन्तु तथा च मानवतायाः सेवायां सत्कर्म, करुणा, सत्यनिष्ठा च इत्येतेषां मार्गे निरन्तरं प्रवर्तन्ताम्।
----------------------------------
Hindusthan Samachar / Dheeraj Maithani