Enter your Email Address to subscribe to our newsletters






सारणम्, २४ नवम्बरमासः (हि.स.)। विश्वप्रसिद्धे हरिहरक्षेत्रे सोनपुरे कार्तिकपूर्णिमायाः पावनावसरे गतस्य रात्रेः मध्यरात्रौ १२ वादनम् १५ निमेषे बाबा हरिहरनाथस्य उपविग्रहः पारम्परिकवाद्य-यन्त्राणां घोषेण वैदिकमन्त्राणां च उच्चारणेन सह नारायणीगण्डकीनद्यां दिव्यराजकीयस्नानाय मन्दिरपरिसरात् बहिः नीतः। यथा एव सार्धद्वादशवादने मन्दिरस्य द्वारात् बाबा इत्यस्य उपविग्रहः बहिरागतः, तथैव सम्पूर्णः परिसरः हर-हर-महादेव, जय बाबा हरिहरनाथ इत्यादिभिः जयघोषैः प्रतिध्वनितः अभवत्। शोभायात्रायाः अग्रे अग्रे ढोल-नगाडानां, शङ्खानां पारम्परिकवाद्ययन्त्राणां च मधुरध्वनिः वातावरणं भक्तिरसमयं चकार।
मन्दिरस्य मुख्यपुजारिणां तथा आचार्याणां समूहः वैदिकमन्त्राणाम् उच्चारणस्य मध्ये विधिविधानपूर्वकं बाबा इत्यस्य उपविग्रहं शिरसि धृत्वा नारायणीगण्डक्याः कालीघाटस्य दिशि अनयत्। अस्य दिव्यस्नानस्य दर्शनार्थं सहस्रशः श्रद्धालवः समागताः। अस्य ऐतिहासिकक्षणस्य साक्षिणः भवितुं रात्रौ सार्धैकादशवादनादेव जिलाधिकारी वैभवश्रीवास्तवः वरिष्ठारक्षकाधीक्षकः रौशनकुमारः च मन्दिरपरिसरात् कालीघाटपर्यन्तं भगवतः उपविग्रहस्य शोभायात्रायां दिव्यस्नाने च सम्मिलितौ अभवताम्। स्नानस्य विशेषपूजनस्य च अवसरे मुख्ययजमानः बाबू झूनझूनसिंहः सपरिवारं सम्मिलितः अभवत्।
सम्पूर्णानुष्ठानस्य शोभायात्रायाश्च समये बाबा हरिहरनाथमन्दिरन्याससमितेः सचिवः विजयकुमारसिंहः ‘लल्ला’ मध्यरात्रेः आरभ्य स्वयम् उपस्थितः आसीत्। तस्य निरीक्षणे सर्वाणि व्यवस्थाः सुचारुरूपेण सम्पन्नाः। परम्परानुसारं बाबा हरिहरनाथस्य उपविग्रहस्य दिव्यस्नानानन्तरं विशेषशृङ्गारस्य आरत्याश्च अनन्तरं श्रद्धालूनां दर्शनार्थं बाबा हरिहरनाथमन्दिरस्य द्वाराणि उद्घाटितानि। तदा मध्यरात्रौ एव श्रद्धालवः स्नानं कृत्वा बाबा हरिहरनाथाय जलाभिषेकं कर्तुं पङ्क्तिबद्धाः अभवन्। राजकीयपूजनस्य अनन्तरं श्रद्धालवः पूर्णश्रद्धया बाबा इत्यस्य जलाभिषेकम् आरब्धवन्तः।
पौराणिकमान्यतानुसारं कार्तिक-पूर्णिमायाः दिने भगवान् हरिः अर्थात् विष्णुः तथा भगवान् हरः अर्थात् शिवः अनयोः पवित्रमिलनस्थले स्नानं कृत्वा समस्तपापेभ्यः मुक्तिः प्राप्यते तथा मोक्षस्य प्राप्तिः भवति। हरिहरक्षेत्रस्य प्रसिद्धा पौराणिकी कथा भगवान् विष्णोः भक्तस्य गजराजस्य (गजस्य) ग्राहस्य (मकरस्य) च सम्बन्धिता अस्ति। पुराणानुसारं पूर्वजन्मनि ग्राहः एकः गन्धर्वः आसीत्, यः ऋषेः शापेन मकरयोनिं प्राप्तवान्। अपरतः गजराजः एकः धर्मात्मा राजा आसीत्, यः शापवशात् गजरूपं प्राप्तवान्।
एकदा यदा गजराजः सङ्गमस्थले नारायणीगण्डकीनद्यां जलक्रीडां स्नानं च कर्तुम् अवतीर्णः, तदा ग्राहः तस्य पादं स्वदन्तैः दृढतया अगृह्णात्। वर्षपर्यन्तं प्रवृत्ते अस्मिन् भीषणसङ्घर्षे यदा गजराजस्य सम्पूर्णा शारीरिकशक्तिः क्षीणा अभवत् तथा च तस्य प्राणाः सङ्कटे पतिताः, तदा सः पूर्णसमर्पणेन निर्मलभावेन च भगवन्तं विष्णुं स्मृतवान्। मान्यता अस्ति यत् भक्तस्य आह्वानं श्रुत्वा भगवान् विष्णुः स्वयं सुदर्शनचक्रेण सह प्रकटितवान् तथा ग्राहस्य उद्धारं कृत्वा गजराजं बन्धनात् मुक्तवान्।
यस्मिन् स्थाने एषा दिव्यलीला अभवत्, तत् क्षेत्रम् एव अनन्तरं हरिहरक्षेत्रसोनपुरम् इति नाम्ना प्रसिद्धम् अभवत्। अत्र हरिः भगवान् विष्णुः तथा हरः भगवान् शिवः अनयोः एकीकृतस्वरूपस्य निवासः इति मन्यते। पौराणिककथानुसारं भगवत: शिवस्य विष्णोश्च अस्य समन्वयेन एषा भूमिः अद्वितीयया आध्यात्मिकशक्त्या सम्पन्ना अभवत्। अतः अत्र कृतं स्नानं पूजनं च सहस्राश्वमेधयज्ञानां समानं फलदायकं मन्यते।
Hindusthan Samachar / Divya Ranjan