सारणे गोदना-सेमरियानहानमेलापके कोसीपूरणस्य साटिका-आञ्चले लौण्डानृत्यस्य च अपूर्व: लोकाचारः
सारणम्, २४ नवम्बरमासः (हि.स.)। रिविलगञ्जे कार्तिकपूर्णिमायाः अवसरे सरयू-नद्याः तटे आयोज्यमाने गोदना-सेमरियानहानमेलापके श्रद्धायाः, भक्तेः लोकसंस्कृतेश्च सङ्गमः दृश्यते। ब्रह्ममुहूर्तादेव श्रद्धालवः पवित्रे सरयूजले स्नानं कर्तुं दीपदानं च कर्तुं घाट
सारण के गोदना-सेमरिया नहान मेला में कोसी भराई व आंचल पर लौंडा नृत्य की अनूठी परंपरा

सारणम्, २४ नवम्बरमासः (हि.स.)। रिविलगञ्जे कार्तिकपूर्णिमायाः अवसरे सरयू-नद्याः तटे आयोज्यमाने गोदना-सेमरियानहानमेलापके श्रद्धायाः, भक्तेः लोकसंस्कृतेश्च सङ्गमः दृश्यते। ब्रह्ममुहूर्तादेव श्रद्धालवः पवित्रे सरयूजले स्नानं कर्तुं दीपदानं च कर्तुं घाटेषु समागताः। मेलापके प्रमुखम् आकर्षणम् अस्ति शताब्देभ्यः प्रचलिता कोसीपूरणस्य परम्परा तथा मनोकामनापूर्त्यनन्तरं आयोज्यमानं पारम्परिकं लौण्डानृत्यम्। एताभ्यां सम्पूर्णं वातावरणं भक्तिमयं भवति।

सरयूतीरे रात्रौ दीपानां तथा इक्षुमण्डपानां मध्ये महिलानां समूहः पारम्परिकरीत्या कोसीपूरणं कुर्वन् दृश्यते स्म। श्रद्धालूनां कथनानुसारं गृहे सन्तानप्राप्तेः, विवाहस्य अथवा विशेषमनोकामनायाः पूर्तेः अनन्तरं कार्तिकपूर्णिमायां सरयूतीरे कोसीपूरणं कृत्वा साटिकाया: आञ्चले नर्तकं नृत्यं कारयितुं लोकपरम्परा प्रचलिता अस्ति।

घाटे पूजामर्चनां कर्तुम् आगता श्रद्धालुः रेणुसिंहः अवदत् यत् कार्तिकपूर्णिमायां स्नानस्य कोसीपूरणस्य च विशेषं महत्त्वम् अस्ति। विवाहसम्बद्धायाः अथवा सन्तानसुखस्य मनोकामनायाः पूर्तेः अनन्तरं परिवारजनाः श्रद्धया साड्याः आञ्चले नृत्यं कारयन्ति। स्थानीयभाषायाम् एतत् ‘आञ्चले नृत्यं कारयितुम्’ इति कथ्यते, यत् अत्यन्तं शुभं मन्यते।

मेलापके पारम्परिकवेषभूषणैः शृङ्गारैश्च सज्जिताः लोककलाकाराः ढोलकस्य झालवाद्यस्य च तालानुसारेण नृत्यं प्रस्तुत्य श्रद्धालूनां मनोकामनापूर्तौ सहभागीभवन्ति। सिमरियातः आगता कलाकारिका काजलः अवदत् यत् सा बाल्यकालादेव अस्यां परम्परायां संलग्ना अस्ति। तस्याः कथनानुसारं श्रद्धालवः स्वमनोकामनापूर्तेः हर्षेण स्वेच्छया नृत्यं कारयन्ति तथा च दक्षिणारूपेण १०, २०, ५० अथवा १०० रूप्यकाणि समर्पयन्ति। जनानां विश्वासः अस्ति यत् अनेन अनुष्ठानेन तेषां सर्वाः मनोकामनाः पूर्णाः भवन्ति।

मेलापकस्य भव्यतां दृष्ट्वा प्रशासनद्वारा घाटेषु अवरोधकव्यवस्था, प्रकाशव्यवस्था सुरक्षाप्रबन्धाश्च कृताः सन्ति। सांस्कृतिककार्यक्रमैः, पारम्परिक-लोकगीतैः, ढोल-नगाडानां निनादैः श्रद्धालूनां जयघोषैश्च युक्तः गोदना-सेमरियामेलापकः पुनरेकवारं समृद्धायाः सांस्कृतिकधरोहरस्य अटूटलोकश्रद्धायाश्च जीवन्तं स्वरूपं प्रदर्शयति।

Hindusthan Samachar / Divya Ranjan