Enter your Email Address to subscribe to our newsletters

देवदीपावल्यवसरे नमामि गङ्गे संस्थायाः जागरूकताभियानम्, नदीनां स्वच्छतायै सङ्कल्पः
वाराणसी, २४ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां देवदीपावल्याः पर्व केवलं दीपोत्सवस्य धार्मिकश्रद्धायाश्च प्रतीकं नास्ति, अपितु नदीनां, सरोवराणां, कुण्डानाम् अन्येषां जलस्रोतसां च संरक्षणस्य सन्देशमपि ददाति। एतदेव उद्दिश्य नमामि गङ्गे संस्थया मङ्गलवासरे श्रीकाशीविश्वनाथधाम्नि जागरूकताभियानं सञ्चालितम्। अस्मिन्नवसरे भगवान् शिवस्य (त्रिपुरारिणः) मातुर्गङ्गायाश्च आरतिं कृत्वा श्रद्धालवः जलसंरक्षणाय नदीनां स्वच्छतायै च जागरूकाः कृताः।
श्रीकाशीविश्वनाथधाम्नः गङ्गाद्वारे आयोजिते कार्यक्रमे नमामि गङ्गे संस्थायाः स्वयंसेवकैः भगवान् शिवस्य मातुर्गङ्गायाश्च अखण्डसम्बन्धं नत्वा प्रकृतेः जलस्रोतसां च प्रति कृतज्ञता प्रकटिता। अस्मिन्नवसरे द्वादशज्योतिर्लिङ्गानां गङ्गाष्टकस्य च पाठं कृत्वा श्रीकाशीविश्वनाथं मातरं गङ्गां च लोककल्याणाय जलस्रोतसां निर्मलतायाश्च संरक्षणार्थं प्रार्थितम्।
कार्यक्रमस्य नेतृत्वं कुर्वन् नगरनिगमस्य स्वच्छताब्राण्डदूतः गङ्गासेवकश्च राजेशशुक्लः अवदत् यत् देवदीपावली जलानुष्ठानानां महिम्नः मातरि गङ्गायाम् असीमश्रद्धायाश्च प्रकटीकरणस्य अनुपमं पर्व अस्ति। गङ्गया सह काश्याः सरोवरेषु कुण्डेषु च दीपप्रज्वालनस्य परम्परा अस्य तथ्यस्य प्रतीकम् अस्ति यत् प्रत्येकस्य जलस्रोतसः स्वकीयम् महत्त्वम् अस्ति तथा सः जीवनाय अनिवार्यः अस्ति।
अभियाने अर्चना, सुरभिः, भावना, रेनूकुमारी, पूनमकुमारी, रश्मिकुमारी, आर्या अदितिः, डॉ. एस.के. ठाकुरः, राकेशसिंहः इत्यादिभिः नमामि गङ्गे संस्थायाः अनेकैः स्वयंसेवकैः सहभागिता कृता।
Hindusthan Samachar / Dheeraj Maithani