Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 25 नवंबरमासः (हि.स.)।
असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसरमा राज्यवासिभ्यः बिहू-पर्वणः उपहाररूपेण जागीरोड्-स्थितायाः अर्धचालकपरियोजनायाः उद्घाटनम् आगामिवर्षस्य एप्रिलमासे करिष्यते इति घोषणां कृतवान्। मुख्यमन्त्री अवदत् यत् अस्याः परियोजनायाः उद्घाटनं प्रधानमन्त्री नरेन्द्रमोदी करिष्यति। मुख्यमन्त्री बुधवासरे एकस्य कार्यक्रमस्य अनन्तरं पत्रकारैः सह वार्तालापं कुर्वन् आसीत्।
मुख्यमन्त्री अन्याम् एकां घोषणां कुर्वन् अवदत् यत् ओडिशाराज्यस्य पारादीपबन्दरगाहात् नलिकामार्गेण तैलं नुमालीगढपर्यन्तं आनीयते। तेन सूचितं यत् नुमालीगढपरिष्करणागारे (एनआरएल) षट् मेट्रिकटनमितस्य तैलस्य परिष्करणं कृत्वा भारतीयविपण्यां विक्रयणं करिष्यते।
मुख्यमन्त्रिणः एताः घोषणाः राज्यस्य औद्योगिकविकासस्य ऊर्जाक्षेत्रस्य च दिशि महत्त्वपूर्णाः पदक्षेपाः इति मन्यन्ते।
-------------
Hindusthan Samachar / Dheeraj Maithani