Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 25 नवंबरमासः (हि.स.)।
असमस्य राज्यपालः लक्ष्मणप्रसादाचार्यः बुधवासरे गुवाहाटीविश्वविद्यालये त्रयोदशस्य प्लानर २०२६ सम्मेलनस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे तेन समावेशिन्याः स्थायिन्याः च ज्ञानव्यवस्थायाः निर्माणार्थम् उदीयमानप्रौद्योगिकीनां प्रभावपूर्णोपयोगे बलं प्रदत्तम्। इन्फ्लिबनेटकेन्द्रस्य गुवाहाटीविश्वविद्यालयस्य च संयुक्ततत्त्वावधाने आयोजितस्य त्रिदिवसीयसम्मेलनस्य विषयः 'सशक्तज्ञानव्यवस्था : सहयोगात्मिका, समावेशिनी स्थायिनी च पुस्तकालयव्यवस्था' इति निर्धारितः अस्ति।
कार्यक्रमं सम्बोधयन् राज्यपालः अवदत् यत् जीवन्तस्य, समावेशिनः, ज्ञानाधारितस्य च समाजस्य निर्माणे पुस्तकालयाः महत्त्वपूर्णां भूमिकां निर्वहन्ति। ज्ञानव्यवस्थायाः सुदृढीकरणाय सूचनायाः अनुसन्धानसंसाधनानां च व्यापकसुलभतां सुनिश्चितं कर्तुं विश्वविद्यालयानां, अनुसन्धानसंस्थानां, पुस्तकालयानां च मध्ये उत्तमसमन्वयस्य आवश्यकता अस्ति इति तेन प्रतिपादितम्। कृत्रिमबुद्धिमत्ता, यन्त्राधिगमः, अङ्कीयपुस्तकालयमञ्चाः इत्यादीनाम् उदीयमानप्रौद्योगिकीनां क्षमताम् उल्लिख्य तेन उक्तं यत् एताभिः अनुसन्धानस्य, नवाचारस्य, ज्ञानप्रसारस्य च नवगतिः सम्भवति।
आचार्यः पुस्तकालयान् बौद्धिकायाः, साहित्यिकायाः, सभ्यतागतायाश्च विरासतायाः महत्त्वपूर्णान् भाण्डागारान् इति वर्णयन् असमस्य समृद्धायाः सांस्कृतिकसाहित्यिकधरोहरायाः संरक्षणे अङ्कीयकरणे च बलं दत्तवान्। महापुरुषस्य श्रीमन्तशङ्करदेवस्य श्रीश्रीमाधवदेवस्य च अमूल्यरचनानां, सत्राणां नामघराणां च परम्पराणां, ऐतिहासिकसाहित्यस्य, स्वदेशीयज्ञानपद्धतीनां च संरक्षणस्य आवश्यकतायां तेन विशेषरूपेण बलं प्रदत्तम्।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृष्टिकोणस्य ज्ञानभारतमिशनस्य च उल्लेखं कुर्वन् राज्यपालः ज्ञानप्रबन्धने प्रौद्योगिक्याः विवेकपूर्णोपयोगेन सह युवसु पठनाभ्यासस्य बौद्धिकजिज्ञासायाश्च विकासाय आह्वानं कृतवान्। सम्मेलनस्य विचारविमर्शैः पुस्तकालयानाम् आधुनिकीकरणे विकसितभारतस्य राष्ट्रियलक्ष्यस्य च पूर्तौ महत्त्वपूर्णं योगदानं भविष्यति इति विश्वासं तेन प्रकटितम्।
कार्यक्रमे गुवाहाटीविश्वविद्यालयस्य कुलपतिः प्रो. ननीगोपालमहन्तः, इन्फ्लिबनेटकेन्द्रस्य निदेशिका प्रो. देविकापी. मदल्ली, सम्मेलननिदेशकः प्रो. मोसेसम्. नागा, आयोजनसचिवः प्रो. सञ्जयकुमारसिंहः इत्यादयः अनेकाः शिक्षाविदः, अनुसन्धानकर्तारः, विद्वांसश्च उपस्थिताः आसन्।
-----------
Hindusthan Samachar / Dheeraj Maithani