विद्युत्-यानानां नाम्ना एचआरटीसी-संस्थायाः तान्त्रिकपदानि समाप्तुं सज्जता - भाजपा
शिमला, २५ नवम्बरमासः (हि.स.)। भाजपादलेन हिमाचलप्रदेशपथपरिवहन-निगमाय विद्युत्-यानानां क्रयणस्य तेषां परिपालनस्य च कार्यं निजीनिर्माणीभ्यः समर्पयितुं प्रस्तावितायाः योजनायाः विषये प्रश्नाः उत्थापिताः। भाजपायाः प्रदेशप्रवक्ता सञ्जयशर्मा बुधवासरे आरोपि
भाजपा नेता संजय शर्मा


शिमला, २५ नवम्बरमासः (हि.स.)। भाजपादलेन हिमाचलप्रदेशपथपरिवहन-निगमाय विद्युत्-यानानां क्रयणस्य तेषां परिपालनस्य च कार्यं निजीनिर्माणीभ्यः समर्पयितुं प्रस्तावितायाः योजनायाः विषये प्रश्नाः उत्थापिताः। भाजपायाः प्रदेशप्रवक्ता सञ्जयशर्मा बुधवासरे आरोपितवान् यत् पर्यावरणसंरक्षणस्य नाम्ना सर्वकारः निजीसंस्थासु निर्भरता वर्धयति। अनेन निगमस्य यन्त्रज्ञानां तान्त्रिककर्मचारिणां च पदानि प्रभावितानि भवितुम् अर्हन्ति। सः सर्वकारात् १००० नवीनविद्युत्-यानानां क्रयणात् पूर्वं पूर्वं क्रीतानां २९७ विद्युत्-यानानां परिपालनसम्बद्धस्य अनुबन्धस्य सम्पूर्णं विवरणं सार्वजनिकं कर्तुं आग्रहं कृतवान्।

सञ्जयशर्मा अवदत् यत् एकस्य विद्युत्-यानस्य मूल्येन चत्वारि-पञ्च स्थायिनि डीजलयानानि क्रेतुं शक्यन्ते। पर्वतीयेषु दुर्गममार्गेषु च डीजलयानानां उपयोगि-तायाः विषये अपि सर्वकारेण उत्तरं दातव्यम्। निगमस्य स्वकीयस्य तान्त्रिकतन्त्रस्य सुदृढीकरणस्य स्थाने सर्वकारेण परिपालनकार्यं निजीसंस्थाभ्यः समर्पयितुं मार्गः किमर्थं स्वीकृतः, इति सः प्रश्नम् उत्थापितवान्।

भाजपाप्रवक्ता अवदत् यत् २९७ विद्युत्-यानानां परिपालनाय प्रस्ताविते द्वादशवर्षीयानुबन्धे निजीसंस्थायाः कृते प्रारम्भे प्रतिकिलोमीटर् ५.३१ रूप्यकाणि दातुं प्रावधानम् अस्ति। एषा दरः विभिन्नेषु चरणेषु वर्धमाना प्रतिकिलोमीटर् १८ रूप्यकाणि यावत् भविष्यति। दीर्घकाल-पर्यन्तं वर्धमानया अस्याः दरया सर्वकारीयकोषे कियत् वित्तीयभारः भविष्यति तथा च निगमस्य स्वकीय-संसाधनैः परिपालनं कारयितुं भवतः व्ययेन सह अस्य तुलनात्मकमूल्याङ्कनं कृतम् अस्ति वा, इति सः अपृच्छत्।

सञ्जयशर्मा अवदत् यत् एचआरटीसी-संस्थायाः प्रशिक्षिताः तान्त्रिककर्मचारिणः सन्ति तथा च कार्यशालानां स्वकीयम् अपि जालम् अस्ति। कर्मचारिभ्यः नवीन-प्रौद्योगिक्याः प्रशिक्षणं दातुं कार्यशालाश्च आधुनिकीकर्तुं स्थाने निजीसंस्थासु निर्भरता वर्धयितुं निगमस्य तान्त्रिक-तन्त्रस्य दृष्ट्या चिन्ताजनकः विषयः अस्ति। परिपालनकार्ये प्रमादेन अथवा तान्त्रिकदोषेण दुर्घटना भवति चेत् निजीसंस्थायाः निगमस्य च मध्ये उत्तरदायित्वं कथं निर्धारितं भविष्यति, इति अपि सः प्रश्नम् उत्थापितवान्। नवीन-यानानां क्रयणं, परिपालनव्ययः तथा कर्मचारिणां पदानां सुरक्षा इत्येतेषां विषयेषु सर्वकारः स्वस्थितिं स्पष्टां करोतु इति सः आग्रहं कृतवान्।

Hindusthan Samachar / Divya Ranjan