Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 25 नवंबरमासः (हि.स.)।
केन्द्रीयमन्त्रिमण्डलेन देशे डाकसेवानां सञ्चालनाय आधारभूतसंरचनात्मकसुविधानां परिरक्षणाय च पृथक् पृथक् निर्णययोः अन्तर्गतं १,१४१ कोटिरूप्यकाणां तथा १,४९१ कोटिरूप्यकाणां च द्वयोः योजनयोः आगामीपञ्चवर्षाणां सञ्चालनाय अनुमोदनं प्रदत्तम्।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां बुधवासरे केन्द्रीयमन्त्रिमण्डलेन डाकविभागस्य योजनयोः अनुमोदनं कृतम्। मन्त्रिमण्डलस्य निर्णयानां विषये केन्द्रीयमन्त्री अश्विनी वैष्णवः राष्ट्रियमाध्यमकेन्द्रे आयोजितायां पत्रकारवार्तायां सूचितवान्।
वैष्णवः अवदत् यत् डाकसञ्चालनयोजना षोडशस्य वित्तायोगस्य पञ्चवर्षीयायाः अवधये अनुमोदिता अस्ति। अस्याः योजनायाः उद्देश्यम् ग्रामीणक्षेत्रेषु डाकसुविधानाम् उन्नयनम्, पत्राणां पार्सलसेवानां च सञ्चालनम्, ई-वाणिज्यस्य अन्ताराष्ट्रियडाकपरिवहनव्यवस्थायाश्च सुदृढीकरणम् तथा वितरणसुविधानां अङ्कीयपरिवर्तनमाध्यमेन तासां सेवासु वृद्धिः च अस्ति।
सम्पत्तिप्रबन्धनयोजनायाः अन्तर्गतं विभागस्य १९० नूतनानि डाकभवनानि निर्मास्यन्ते, ५,०५० डाककार्यालयाणाम् उन्नयनं करिष्यते, २०० ऐतिहासिकडाकभवनानि संरक्षिष्यन्ते, डाकसेवया सम्बद्धाः १५० आवासीयाः आवाससमूहाः नवीकरिष्यन्ते तथा च बेङ्गलूरुनगरे एकीकृतप्रौद्योगिकीकन्द्रस्य स्थापना करिष्यते।
-----------
Hindusthan Samachar / Dheeraj Maithani