(केन्द्रीयमन्त्रिमण्डलम्) असमराज्यस्य सिलचर-हरितक्षेत्रीयविमानपत्तनस्य विकासाय अनुमोदनम्।
नवदिल्ली, 25 नवंबरमासः (हि.स.)। केन्द्रसर्वकारः असमराज्यस्य सिलचरमण्डलस्य डोलूस्थाने द्विसहस्रचतुर्दशकोटिरूप्यकाणाम् अनुमानितव्ययेन हरितक्षेत्रीयविमानपत्तनस्य निर्माणं करिष्यति। अनेन विमानपत्तनेन पूर्वोत्तरभारतस्य राष्ट्रियैः अन्ताराष्ट्रियैः
Chennai airport


नवदिल्ली, 25 नवंबरमासः (हि.स.)।

केन्द्रसर्वकारः असमराज्यस्य सिलचरमण्डलस्य डोलूस्थाने द्विसहस्रचतुर्दशकोटिरूप्यकाणाम् अनुमानितव्ययेन हरितक्षेत्रीयविमानपत्तनस्य निर्माणं करिष्यति। अनेन विमानपत्तनेन पूर्वोत्तरभारतस्य राष्ट्रियैः अन्ताराष्ट्रियैः च विकासमार्गैः सह सम्पर्कव्यवस्था सुदृढा भविष्यति।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां बुधवासरे केन्द्रीयमन्त्रिमण्डलेन नागरिकविमाननमन्त्रालयस्य योजनायाः अनुमोदनं कृतम्। मन्त्रिमण्डलस्य निर्णयानां विषये केन्द्रीयमन्त्री अश्विनी वैष्णवः राष्ट्रियमाध्यमकेन्द्रे आयोजितायां पत्रकारवार्तायां सूचितवान्।

ते अवदन् यत् योजनायाः अन्तर्गतं प्रमुखमूलभूतसंरचनारूपेण द्वादशसहस्रत्रिशतैकपञ्चाशत् वर्गमीटरपरिमितायाः विमानपत्तनप्रस्थानभवनस्य निर्माणं करिष्यते। व्यस्ततमसमये विमानपत्तनस्य क्षमता अष्टशतं यात्रिकाणां भविष्यति। अस्मिन् द्विसहस्रसप्तशतपञ्चमीटरदीर्घं पञ्चचत्वारिंशत् मीटर् विस्तृतं च धावनमार्गं भविष्यति। अपि च षण्णां एयरबस ए-३२० विमानानां स्थापनायै विमानस्थानकक्षमता अपि भविष्यति।

ते अवदन् यत् एतद् विमानपत्तनं दक्षिणासमप्रदेशस्य बराकघाट्याश्च नूतनं प्रवेशद्वारं भविष्यति। अनेन वर्तमानस्य सिलचरविमानपत्तनस्य सञ्चालनसम्बद्धाः स्थानसम्बद्धाश्च न्यूनताः दूरीभविष्यन्ति। दक्षिणासमप्रदेशे समीपस्थानां प्रतिवेशिराज्यानां च क्षेत्रेषु वायुमार्गेण यात्रायाः वर्धमानायाः आवश्यकतायाः पूर्तिः भविष्यति। एतदतिरिक्तं क्षेत्रीयव्यापारस्य, पर्यटनस्य, आर्थिकसम्भावनानां च विकासः भविष्यति।

------------

Hindusthan Samachar / Dheeraj Maithani