ग्रामीणपेयजलयोजनानां परिरक्षणाय कुशलकार्यबलस्य निर्माणार्थं प्रयासः।
नवदिल्ली, 25 नवंबरमासः (हि.स.)।केन्द्रीयजलशक्तिमन्त्री सी. आर. पाटिलस्य उपस्थितौ बुधवासरे अत्र जलशक्तिमन्त्रालयस्य कौशलविकासोद्यमितामन्त्रालयस्य च मध्ये एकस्मिन् सममतिपत्रे हस्ताक्षराणि कृतानि। अस्मिन् अवसरे कौशलविकासोद्यमिताराज्यमन्त्री (स्वतन्त्
नई दिल्ली में एमओयू पर हस्ताकर के दौरान जलशक्ति मंत्री सीआर पाटिल, जयंत चौधरी और अन्य।


नवदिल्ली, 25 नवंबरमासः (हि.स.)।केन्द्रीयजलशक्तिमन्त्री सी. आर. पाटिलस्य उपस्थितौ बुधवासरे अत्र जलशक्तिमन्त्रालयस्य कौशलविकासोद्यमितामन्त्रालयस्य च मध्ये एकस्मिन् सममतिपत्रे हस्ताक्षराणि कृतानि।

अस्मिन् अवसरे कौशलविकासोद्यमिताराज्यमन्त्री (स्वतन्त्रप्रभारः) जयन्तचौधरी, जलशक्तिराज्यमन्त्री वी. सोमण्णा तथा उभयोः मन्त्रालययोः वरिष्ठाधिकारिणः उपस्थिताः आसन्।

मन्त्रालयस्य अनुसारम् अस्य समझौतायाः प्रमुखम् उद्देश्यम् ग्रामीणपेयजलयोजनानां नियमितसञ्चालनाय परिरक्षणाय च स्थानीयस्तरे कुशलमानवसंसाधनस्य निर्माणम् अस्ति। अस्य माध्यमेन ग्रामीणयुवभ्यः आवश्यकं प्राविधिकप्रशिक्षणं कौशलविकासस्य अवसराश्च प्रदास्यन्ते। अनेन तेभ्यः स्थानीयस्तरे जीविकानां सम्भावनाः अपि वर्धिष्यन्ते।

सहमत्यनुसारं ग्रामीणपेयजलापूर्तिव्यवस्थानां प्रभाविसञ्चालनाय परिरक्षणाय च प्रशिक्षितकार्यबलस्य विकासे बलं प्रदास्यते। अनेन ग्रामीणक्षेत्रेषु पेयजलयोजनानां निरन्तरता, कार्यक्षमता दीर्घकालिकस्थिरता च सुनिश्चितुं साहाय्यं भविष्यति।

जलशक्तिमन्त्रालयस्य अनुसारं देशस्य प्रत्येकस्मै ग्रामीणपरिवाराय नियमितरूपेण दीर्घकालपर्यन्तं च स्वच्छपेयजलस्य उपलब्धतां सुनिश्चितुं निर्धारितस्य लक्ष्यस्य दिशि मोदीसर्वकारस्य एषा पहलः महत्त्वपूर्णा अस्ति। एषः समझौता ग्रामीणपेयजलव्यवस्थां सुदृढां कर्तुं युवानां कौशलविकासं जीविकासृजनं च प्रोत्साहयितुं साहाय्यं करिष्यति।

-----------

Hindusthan Samachar / Dheeraj Maithani