छात्राः संविधानस्य भावनां व्यवहारे अवतारयेयुः - प्रो. राकेशसिंहः
जौनपुरम्, २५ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदे स्थिते वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालये संविधानदिवसस्य पूर्वसन्ध्यायां बुधवासरे जनसञ्चार एवं पत्रकारिताविभागस्य तत्त्वावधाने विशेषकार्यक्रमः आयोजितः। स्वामीविवेकानन्दकेन्द्रीयपुस्तकाल
संविधान की मूल किताब का अवलोकन करते हुए कुलपति प्रो राकेश कुमार सिंह


जौनपुरम्, २५ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदे स्थिते वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालये संविधानदिवसस्य पूर्वसन्ध्यायां बुधवासरे जनसञ्चार एवं पत्रकारिताविभागस्य तत्त्वावधाने विशेषकार्यक्रमः आयोजितः। स्वामीविवेकानन्दकेन्द्रीयपुस्तकालये आयोजिते कार्यक्रमे कुलपतिः प्रो. राकेशकुमारसिंहः भारतीयसंविधानस्य मूलप्रतिम् अवलोकितवान्। अस्मिन् अवसरे सः छात्रान् संविधानस्य मूल्यानां लोकतान्त्रिकव्यवस्थायां नागरिकाणां भूमिकायाश्च विषये जागरूकान् कृतवान्।

कुलपतिः प्रो. राकेशकुमारसिंहः अवदत् यत् संविधानं देशस्य एकतायाः, अखण्डतायाः लोकतान्त्रिकमूल्यानां च आधारः अस्ति। छात्रैः संविधाने प्रदत्तै: अधिकारै: सह स्वकर्तव्यानाम् अपि ज्ञानं प्राप्तव्यम्। समानता, न्यायः, स्वतन्त्रता, बन्धुत्वम् इत्यादीनि संवैधानिकमूल्यानि स्वव्यवहारे आचरित्वैव राष्ट्रनिर्माणे सार्थकं योगदानं दातुं शक्यते।

सः अवदत् यत् युवापीढिः संविधानस्य भावनां व्यवहारे अवतार्य सशक्तस्य, संवेदनशीलस्य उत्तरदायिनश्च लोक-तन्त्रस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नोति। जनसञ्चार एवं पत्रकारिता-विभागस्य अस्याः पहलस्य प्रशंसां कुर्वन् सः अवदत् यत् एतादृशाः कार्यक्रमाः छात्रेषु संवैधानिकचेतनायाः विकासं कुर्वन्ति तथा च तान् लोकतान्त्रिकव्यवस्थां प्रति उत्तरदायिनः कुर्वन्ति।

कार्यक्रमे दन्तोपन्तठेंगडीविधिसंस्थानस्य सहायकप्राध्यापकः राहुलरायः तथा डॉ. राजितरामसोनकरः छात्रेभ्यः संविधानस्य मूलप्रतिविषये विस्तरेण जानकारीं दत्तवन्तौ। तौ संविधानस्य प्रस्तावनायाः, मूलसंरचनायाः तथा स्वतन्त्रतायाः अनन्तरं समये समये कृतानां संवैधानिक-संशोधनानां प्रक्रियायाश्च विषये अवबोधितवन्तौ। तौ अवदताम् यत् संविधानं केवलं विधिसम्बद्धं दस्तावेजं नास्ति, अपितु लोकतन्त्रस्य, न्यायस्य, स्वतन्त्रतायाः, समानतायाः नागरिकाधि-काराणां च सजीवः आधारः अस्ति।

वक्तारः अवदन् यत् पत्रकारितायाः छात्राणां कृते संविधानस्य ज्ञानम् विशेषतया आवश्यकम् अस्ति, यतः अभिव्यक्ति-स्वातन्त्र्यस्य, नागरिकाधिकाराणां लोक-तान्त्रिकमूल्यानां च पत्रकारितया सह गहनः सम्बन्धः अस्ति।

कार्यक्रमस्य उद्देश्यम् आसीत् यत् संविधानदिवसात् पूर्वं छात्रान् संविधानस्य मूलप्रतिना, तस्य प्रस्तावनया तथा संवैधानिकसंशोधनानां प्रक्रियया च परिचितान् कारयितुम्। अस्मिन् अवसरे कुलसचिवः डॉ. विनोदकुमारसिंहः, प्रो. मनोजमिश्रः, डॉ. सुनीलकुमारः, डॉ. दिग्विजयसिंहराठौरः, डॉ. इन्द्रेशकुमारः इत्यादयः अन्ये शिक्षकाः केन्द्रीय-पुस्तकालये अध्ययनरताः छात्राश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan