Enter your Email Address to subscribe to our newsletters

पञ्चत्रिंशतमस्य श्रीरामचरितमानसस्य अखण्डपाठस्य पूर्णाहुत्यनन्तरं विशालः भण्डारः, शताधिकसन्तानां सत्कारः
फर्रुखाबादम्, २५ नवम्बरमासः (हि.स.)। देवदीपावल्याः पावनपर्वणि महाभारत-कालीनायां ऐतिहासिकायां हनुमानगढी-सिद्धपीठे मङ्गलवासरे श्रद्धायाः भक्तेश्च अद्भुतः सङ्गमः दृष्टः। प्रातःकालाद् रात्रेः विलम्बपर्यन्तं सहस्रशः श्रद्धालवः सङ्कटमोचनस्य हनुमतः मन्दिरे प्रणामं कृत्वा परिवारस्य सुखसमृद्ध्यै मङ्गलमयजीवनाय च प्रार्थनाम् अकुर्वन्। अस्मिन् अवसरे मन्दिरपरिसरः बजरङ्गबली-जयघोषैः, घण्टानां घण्टिकानां च निनादैः तथा रामनामसङ्कीर्तनेन च गुंजायमानः अभवत्। पञ्चत्रिंशतमस्य श्रीरामचरित-मानसस्य अखण्डपाठस्य पूर्णाहुत्यनन्तरं विशालभण्डारस्य आयोजनं कृतम्, यस्मिन् बहुसंख्याकैः श्रद्धालुभिः प्रसादः गृहीतः।
हनुमानगढीपरिसरे सोमवासराद् आरभ्यमाणस्य अखण्डरामचरितमानस-पाठस्य समापनं मङ्गलवासरे मध्याह्ने वैदिकमन्त्राणां घोषेण विधिविधानपूर्वकं च अभवत्। ततः श्रीहनुमानगढी-न्यासस्य पक्षतः भण्डारस्य आयोजनं कृतम्। सनातनपरम्परानुसारं सर्वप्रथमं शताधि-कानां साधूनां सन्तानां च कृते सन्तभोजस्य आयोजनं कृतम्। न्यासस्य पदाधिकारिभिः सन्तानां पूजनं सत्कारश्च कृत्वा तेभ्यः कम्बलानि दक्षिणा च समर्पिताः। तदनन्तरं सामान्यश्रद्धालूनां कृते भण्डारः प्रारब्धः, यः दीर्घकालं यावत् प्राचलत्।
देवदीपावल्यां समागतां जनसमर्दं दृष्ट्वा श्रद्धालूनां सुविधार्थं विशेषव्यवस्थाः कृताः आसन्। शिवालाभवनात् गङ्गाद्वारात् च मन्दिरपर्यन्तं गमनागमनाय निःशुल्क-यानानां व्यवस्था कृता आसीत्। एतेन वृद्धजनानां महिलानां दूरस्थग्रामेभ्यः आगच्छतां श्रद्धालूनां च सुविधा अभवत्।
अन्यत्र, हनुमानगढीतः प्रायः त्रिकिलोमीटर् दूरे स्थिते महाभारतकालीन-प्राचीन-सोनसर्वा-शिवमन्दिरेऽपि देवदीपावल्यां शिवभक्तानां महती सम्मर्दः अभवत्। श्रद्धालवः भगवत: भोलेनाथस्य जलाभिषेकं कृत्वा विधिविधानपूर्वकं पूजनम् अर्चनं च अकुर्वन्। ‘हर-हर महादेव’, ‘बम्-बम् भोले’ इति जयघोषैः मन्दिरपरिसरः गुंजायमानः अभवत्। आखूनपुरम्, मुडौलम्, टिलियाम्, गऊटोलम्, सुखानगलम्, पञ्चीनगलम्, जौराम्, पट्टियाम्, करीमनगरम्, लखनपुरम् इत्यादिभ्यः समीपस्थेभ्यः ग्रामेभ्यः च बहुसंख्याकाः भक्ताः उभयोः धार्मिकस्थलयोः समागताः।
आयोजनस्य सफलतायै श्रीहनुमानगढी-न्यासस्य पवनगुप्तः, दीपकराजअरोरा, सुधाकरदुबे, सुधीरगुप्तः, मुकेशदुबे, नरेन्द्रगुप्तः, रमाकान्तशुक्लः, हेमन्त-अरोरा, नीरजअग्रवालः इत्यादयः अन्ये कार्यकर्तारश्च सक्रियं सहयोगम् अकुर्वन्। देवदीपावल्यां उभयोः धार्मिकस्थलयोः समागतः जनसमर्दः क्षेत्रस्य धार्मिक-श्रद्धायाः सनातनपरम्परायाश्च जीवन्तं दर्शनम् अकारयत्।
Hindusthan Samachar / Divya Ranjan