‘इफ्फी’-महोत्सवे प्रदर्शिता ‘पाञ्चजन्य’ इत्यस्य वृत्तचित्रम् ‘अमिट अटल’, अटल-बिहारी-वाजपेयी-महोदयस्य जीवनस्य अस्पृष्ट-पक्षाः प्रस्तुताः
पणजी, २५ नवम्बरमासः (हि.स.)। गोवा-राज्ये आयोजिते सप्तपञ्चाशत्तमे (५७) भारतीय-अन्ताराष्ट्रिय-चलच्चित्र-महोत्सवे (इफ्फी) बुधवासरे ‘पाञ्चजन्य’ इत्यस्य वृत्तचित्रस्य (डॉक्यूमेण्ट्री-चलच्चित्रस्य) ‘अमिट अटल’ इत्यस्य प्रदर्शनं विहितम्। भारत-रत्न-सम्मानित
पूर्व प्रधानमंत्री एवं भारत रत्न अटल बिहारी वाजपेयी की जीवन यात्रा पर आधारित डॉक्यूमेंट्री ‘अमिट अटल’ का प्रदर्शन 57वें भारत अंतरराष्ट्रीय फिल्म महोत्सव (इफ्फी) में किया गया।


पूर्व प्रधानमंत्री एवं भारत रत्न अटल बिहारी वाजपेयी की जीवन यात्रा पर आधारित डॉक्यूमेंट्री ‘अमिट अटल’ का प्रदर्शन 57वें भारत अंतरराष्ट्रीय फिल्म महोत्सव (इफ्फी) में किया गया।


पणजी, २५ नवम्बरमासः (हि.स.)। गोवा-राज्ये आयोजिते सप्तपञ्चाशत्तमे (५७) भारतीय-अन्ताराष्ट्रिय-चलच्चित्र-महोत्सवे (इफ्फी) बुधवासरे ‘पाञ्चजन्य’ इत्यस्य वृत्तचित्रस्य (डॉक्यूमेण्ट्री-चलच्चित्रस्य) ‘अमिट अटल’ इत्यस्य प्रदर्शनं विहितम्। भारत-रत्न-सम्मानितस्य पूर्व-प्रधानमन्त्रिणः च अटल-बिहारी-वाजपेयी-महोदयस्य जीवनम्, व्यक्तित्वं, कृतित्वं चाधिकृत्य निर्मितस्य अस्य चलच्चित्रस्य निर्देशनम् पाञ्चजन्यस्य सम्पादकेन हितेश-शङ्कर-महोदयेन कृतम् अस्ति। चलच्चित्रे वाजपेयी-महोदयस्य स्वयंसेवकतः, प्रचारकतः, कवितः, पत्रकारतः, सम्पादकतः, प्रधानमन्त्री-पदारोहणं यावत्याः यात्रायाः विविधाः पक्षाः प्रस्तुताः।

चलच्चित्रे अटल-बिहारी-वाजपेयी-महोदयेन सम्बद्धानाम् ऐतिहासिक-घटनानां तेन सह कार्यं कृतवतां जनानां संस्मरणानां च माध्यमेन तस्य जीवनम् अवगन्तुं प्रयासः कृतः अस्ति। पाञ्चजन्यस्य संस्थापक-सम्पादकः आसीद् वाजपेयी महोदयः लेखनेन, कवितया, स्वकीय-प्रभावशालि-भाषणैश्च देशे विदेशे च पृथग् परिचयं निर्मितवान् आसीत्। वृत्तचित्रे तस्य राजनैतिक-जीवनेन सहैव विभिन्नानां विचारधाराणां मध्ये संवादं स्थापयितुं स्व-सिद्धान्तेषु च दृढतया स्थातुं सम्बद्धाः पक्षाः अपि दर्शिताः सन्ति।

चलच्चित्रस्य निर्देशकः हितेश-शङ्करः अवदत् यत् अटलजी पाञ्चजन्यस्य प्रथमः सम्पादकः आसीत्। तेन सह कार्यं कृतवतां जनानां स्मृतीनां माध्यमेन चलच्चित्रे तस्य बाल्यकालात् आरभ्य प्रधानमन्त्री-निर्माणं यावत् यात्रायाः अवबोधनस्य प्रयासः कृतः अस्ति। तस्य विशेषा रुचिः इदं तथ्यं पुरतः आनेतुम् आसीत् यत् गभीराणां राजनैतिक-मतभेदानां सत्यपि अटलजी कथं संवादं स्थापयति स्म, स्व-सिद्धान्तेषु च कथं स्थिरः तिष्ठति स्म।

चलच्चित्रस्य निर्माता सञ्जय-जौहरी अवदत् यत् निर्मातारूपेण स्वकीयस्य प्रथम-चलच्चित्रस्य कृते सः अटलजी-महोदयस्य जीवनं चितवान्, यतः अनेन राष्ट्रवादे एका आवश्यकी वार्ता प्रारभते। देशस्य भविष्यम् अधिकृत्य भिन्न-भिन्न-विचाराणां सत्यपि देशं प्रति स्व-उत्तरदायित्वं कथं निर्वोढव्यम्, इदं चलच्चित्रम् इमं प्रश्नं पुरतः स्थापयति। ‘भारतीय-पैनोरमा’ विभागे चलच्चित्रस्य चयनं सः इमं प्रश्नं नूतन-दर्शकान् यावत् प्रापयितुम् अवसरम् अवदत्।

पाञ्चजन्यस्य अस्मात् पूर्वं निर्मितस्य वृत्तचित्रस्य ‘विभाजन की विभीषिका : अनकही कहानियां’ इत्यस्यापि ‘इफ्फी’-महोत्सवे प्रदर्शनं सम्पन्नम् अस्ति। २०२२ तमे वर्षे इदं चलच्चित्रं महोत्सवस्य भारतीय-पैनोरमा-खण्डस्य गैर-फीचर-श्रेण्यां चितम् आसीत्। प्रायः त्रिंशत्-निमेष-परिमितम् इदं हिन्दी-वृत्तचित्रं १९४७ तमस्य वर्षस्य भारत-विभाजनस्य त्रासद्यां विस्थापितानाम् अनुभवेषु चाधारितम् अस्ति। अस्य निर्देशनम् अपि हितेश-शङ्कर-महोदयेनैव कृतम् आसीत्।

१९५२ तमे वर्षे स्थापितः ‘इफ्फी’ महोत्सवः एशिया-महाद्वीपस्य प्राचीनतमेषु अन्ताराष्ट्रिय-चलच्चित्र-महोत्सवेषु सम्मिलितः अस्ति। केन्द्रीय-सूचना-तथा-प्रसारण-मन्त्रालयस्य पक्षतः गोवासर्वकारस्य ‘एण्टरटेनमेण्ट् सोसायटी ऑफ् गोवा’ इत्यस्याश्च सहयोगेन आयोज्यमाने अस्मिन् महोत्सवे भारतीय-अन्ताराष्ट्रिय-चलच्चित्रजगतः चलच्चित्राणां प्रदर्शनं क्रियते। ‘इफ्फी २०२६’ इत्यस्मिन् स्पेन-देशः सम्मानित-देशरूपेण रूस-देशश्च सहभागि-देशरूपेण सम्मिलितौ कृतौ स्तः।

महोत्सवे स्पेन-देशस्य चतसृणां चलच्चित्राणां प्रदर्शनं क्रियमाणम् अस्ति। एतेषु जैमे लोरेंटे-महोदयस्य निर्देशने निर्मितं ‘द बैड् सन्’, पेद्रो अल्मोदवार-महोदयस्य ‘त्रिनिदाद्’ तथा च ‘बिटर् क्रिसमस्’, जैमे माचिया-महोदयस्य च ‘पर्सेगुइएन्दो अ माइकल्’ सम्मिलितानि सन्ति। तत्रैव, रूस-देशस्य पक्षतः अपि चतसृणां चलच्चित्राणां विशिष्टा प्रस्तुतिः स्थापिता वर्तते। एतेषु अनास्तासिया कुजिना-महोदयायाः ‘फोर्’, ‘न्यू होम्’, ‘बो बो’, ‘सिडनी ल्यूमेट्स् बर्थडे’ च सम्मिलितानि सन्ति। एतेषां माध्यमेन रूसी-चलच्चित्रजगतः विविधता, तत्रत्यं चलच्चित्र-निर्माणं, भारत-रूस-देशयोः सांस्कृतिक-सम्बन्धाश्च प्रस्तूयन्ते।

Hindusthan Samachar / Sachin Budhauliya